________________ शत्रुञ्जय-कल्पवृत्ती भूरि धनं मुदा / बाहडाय ददौ वर्य-तरसन्मानपूर्वकम् / / इत्यादि बहुशः पुण्य-कृत्यानि बाहडो व्यधात् / यानि तेषां विधीयेत न सङ्ख्या कोविदैरपि / / 73 // इति बाहडोद्धारप्रबन्धः समाप्तः // दक्षिणाशाविभूषाकृत्-प्रतिष्ठानाभिधे पुरे / भगिन्या सहितौ विप्रौ द्वौ समेतो विदेशतः / / कस्यचित् कुम्भकारस्य शालायां द्वौ द्विजौ स्थितौ / कणवृत्त्या स्वनिर्वाहं चक्रतुर्भगिनीयुतौ / / अन्येद्युजिभगिनी नीरानयनहेतवे। गोदावरी गता यावत्तावच्छेपाहिरागतः / / तस्या रूपेण मूढात्मा शेषाहिर्नररूपभृत् / तया सह बलाद्भोगान् भुङ्क्त स्म रहसि स्थितः / / सप्तभिर्धातुभिस्तस्य रिक्तस्य शेषभोगिनः। शुक्रपुद्गलसञ्चारात् तस्माद्वि (स्या वि) प्रस्वसुस्तदा / दिव्यशक्त्याऽभवद्गर्भ-स्ततः शेषो जगाविदम् / अहं नागपतिर्देवो मया भुक्ताऽधुना त्वकम् / / युग्मम् / / 6 / / "देवानां शुक्रपुद्गलाः सन्ति ? यत् सम्पर्कतो देवीनां सुखं स्यात् ? [स दिव्यप्रभावादवसेयः] भगवानाह-सन्ति, केवलं ते वैक्रियशरीरान्तर्गता इति न गर्भाऽ. ऽधानहेतवः, ते पुद्गलास्तासां देवीनां श्रोत्रादीन्द्रियतया परिणमन्ति, स्पर्शरूपशब्दमनःपरिचारकदेवीनामपि यो देवीषु शुक्रपुद्गलसङ्क्रमः स दिव्यप्रभावादवसेयः / कायपरिचारकाणां तु स्पष्ट एव, इति प्रज्ञापना. वृत्तौ / शुक्रेत्युपलक्षणं किन्तु सप्तापि धातवो वैक्रियसम्बन्धिनः स्युः किन्तु पारिशेष्यादौदारिकशरीरे गर्भाधानहेतवः / / " समेते व्यसनेऽहं तु स्मरणीयस्त्वया ध्रुवम् / ततः समगमन्नाग-नाथः स्वोयनिकेतने / / तया तु क्रीडया नैव स्वं विचेष्टितमंशतः। न भ्रात्रोः पुरतः प्रोक्तं गर्भ वृद्धं गते सति / भगिन्या गर्भमालोक्य दध्यतुस्तौ सहोदरौ / अनया खण्डितं शील-मकार्यसेवनात् कचित् / / विमृश्येति विमुच्याऽऽशु भगिनीं वाडवान्तिके / देशान्तरे क्वचिद्याता-वनिवेद्य दिनात्यये / प्रवर्द्धमानगर्भा सा कर्माणि परसद्मसु / कुर्वन्ति समये प्राप्ते सूते स्म तनयं वरम् // सवयोभिः क्रमाद्वालो रममाणः सदा मुद्दा / भूपो भूत्वा व्यधात् सेना-मश्वभादिमयीं मुदा / / मृत्स्नामयैरिभाश्वाद्यैः सुभटै रिभिः सदा / स्वकृत रमते बालः सवयोमिनपोक्तितः // मृत्स्नामयानिभाश्वादीन् कारं कारं स बालकः / धनोति स वयोभ्यस्तु भूपो भूत्वा निरन्तरम् / / धनोति धातुरस्येव दोनार्थे धातुमध्यतः / अतः शिशोर्ददे सात-वाहनाह्वां जनैस्तदा / / पाठ्यमानः स्वमात्रा तु सोतवाहनबालकः / जानीते बहुशास्त्रार्थं धियं प्राप सुनिर्मलाम् // इतश्चोज्जयिनीपुर्या विक्रमार्के नरेश्वरे / राज्यं कुर्वति कृष्णोऽभूद् द्विजो वृद्धोऽभवद्धनः / / वार्द्धक्ये चतुरः पुत्रानाहूय वाडवो जगौ। मृते मयि न कर्त्तव्यः कलिर्भवद्भिरेकशः / चतुःकोणेषु गेहस्य सन्ति कुम्भाश्चतुमिताः / युप्माकं नामसम्मिश्रा ग्राह्या युष्माभिरेव तु / / पितुर्वाक्यैस्तदा पुत्रः स्वीकृते सति तत्क्षणात्। पिता स्वर्ग ययौ तस्मा-दाहं तस्य सुता व्यधुः / / प्रेतकृत्यं पितुः कृत्वा पुत्रास्ते चतुरो घटान् / कर्षयित्वा तुषास्थ्यादि दृष्ट्वा कलिं वितन्वते / / तेषु वाडवपुत्रेषु विवदत्सु निरन्तरम् / निर्णयो न कृतः कैस्तु तेषां तत्र पुरे जनैः / / ततस्ते सोदरा जग्मुः प्रतिष्ठानपुरे करे / प्रोचुश्च को विवादं नो भक्ष्यत्येव नरो बली॥ ततोऽधिकारिणः प्रोचुः को विवादोऽस्ति वोऽधुना ? / ते प्रोचुम्रियता पित्रा चतुणा नो निवेदितम् / / चतुर्षु कलशेष्वेव प्रत्येकं विद्यते हि तत् / तच्छ्यतां तु मन्त्रोशा ! भवन्तो वरबुद्धयः ॥आये हेम द्वितीये तु कृष्णमृत्स्ना तृतीयके / बुसं कुम्भे चतुर्थे चाऽस्थीनि दृष्टानि तेषु हि // केनापि पुरुषेणैव विवादो