________________ बाहडोद्धारप्रबन्धः 79 तदा कारयिता कः स्यात् ताहालक्ष्म्या अभावतः // तत्र शत्रुजये गत्वा मन्त्री प्रासादकारकान् / कार्याऽऽह कथं पातो जातो जिनेन्द्रसद्मनः ? / / शिलापट्टक आचष्ट प्रासादः सभ्रमस्त्वया / कारितोऽतोऽपतच्छीघ्र वायुप्रवेशतोऽधुनो / निर्धमश्च जिनावासः कार्यते स स्थिरस्तथा / परं कारयितु व सन्तानं जायतेऽग्रतः / / बाहडः प्राह सन्तान-वृद्धथालं मे चिरं ध्रुवम् / सन्तानेन न (च) को याति स्वर्ग शिवं च मानवः / / स्वर्गमुक्त्योर्गमाय स्याद् धर्म एव जिनोदितः / ततोऽर्हत्सदनं नूनं मयाऽऽशु कार• यिष्यते / / शुन्याश्छाग्याश्च शूकर्याः सन्तानो बहुरीक्ष्यते / न तासां जायते स्वर्गः सन्ताने प्रचुरेऽपि हि // सभ्रमस्याऽऽतगेहस्य पुंसः कारयितुर्यदि / भरतादिमहीशानां पक्तिर्भवति निश्चितम् // तदा किं किं न जायेत शुभं मम दृषत्कर ! / अतस्त्वं निर्धमं निष्पा-दयाऽऽदिजिनमन्दिरम् / / ततो भूरिधने दत्ते शिलापट्टाश्च ते तदा / निर्धमं जिनपागारं कर्तुं प्रवर्तिरे द्रुतम् / / निभ्रमं जिनपागारं शिलापट्टाश्च ते मुदा / स्तोकैरेव दिनः पूर्णी-चक्रिरे प्राप्तरैव्रजाः / / निर्धमे श्रीजिनागारे निष्पन्ने सिद्धपर्वते / श्रीसचं मेलयामास सद्यः लक्षदशप्रमम् / / श्रीहेमसूरयो बिम्ब-प्रतिष्ठां शुभवासरे / चक्रुर्बाहडमन्त्रीशो व्ययति च श्रियं बहु / / सिद्धाद्रौ निर्धमे सार्वा-गारे बाहडमन्त्रिराट् / सप्तषष्टयधिकां कोटी स्वर्णानामव्ययन्मुदा / उक्तञ्च "सप्तषष्टियुता कोटी व्ययिता यत्र काञ्चनी। स श्रीवाग्भट्टदेवोऽयं वर्ण्यते न बुधैः कथम् ? // 1 // " विक्रमार्काद् धरादित्य-वत्सरेषु गतेषु च / बाहडोऽचीकरत् सिद्ध-शैले वृषभमन्दिरम् / / अवासयत् पुरं स्वीय-नाम्ना बाहडमन्त्रिराट् / विमलादूरधो भागे सवप्रं स्वःपुरोपमम् / तत्र त्रिभुवनपाल-विहारे कारिते स्वयम् / बाहडोऽस्थापयत् पार्श्व-बिम्बं भूरिधनव्ययात् / / तीर्थपूजाकृते सार्थ-प्रमिता वाटिका वराः। कारिता वाहडेन स्व-विभवात्तीर्थभक्तितः / / श्रीमालिकादिसज्जाति-सम्भवान् वणिजो वरान् / तत्र न्यवासयत्तीर्थसाराय बाहडोत्तमः / / तेपामाजीविकाहेतोः क्षेत्राणि बाहडो ददौ / कारयित्वा वरावासान् वासाय दत्तवान् पुनः।। त्रिषटया कोटिभिर्हेम्नां (त्रिषष्टिलक्षात् काञ्चनी) व्ययित्वा बाहडस्तदा / पद्यामचीकरदैवतकाद्रौ पुण्यहेतवे / / चामीकरस्य षट्कोटी-~यित्वाऽऽम्रभटस्तथा / भृगुकच्छे विहारं तूः श्रीसुव्रताहतः / द्वात्रिंशद् ब्रह्मलक्षाभृगुपुरवसतेः सुव्रताहतोऽग्रे, कुर्वन् मङ्गल्यदीपं ससुरनरवरश्रेणिभिः स्तूयमानः / योऽदादर्थिवजाय त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां, स श्रीमानाम्रदेवो जगति विजयते दानवीराग्रयायी / आशापल्यां पितुर्नाम्ना कारयित्वा जिनालयम् / बाहडोऽस्थापयद्विम्बं प्रौढं श्रीवृषभप्रभोः।। बाहडो मन्त्रिराट् शत्रु-अयोज्जयन्ततीर्थयोः / महासङ्घयुतोऽकार्षी-द्यात्रां भूरिधनव्ययात् / / सूरीश्वरपदान्यष्टौ बाहडोऽचीकरन्मुदा / पञ्चविंशज्जिनावासा-नकारयत पृथक् पृथग / / बिम्बान्यश्ममयान्यष्टौ सहस्राणि महन्ति च / सप्तधातुमयान्यष्टौ शतानि षट् युतानि च / / स्वर्णरूप्यमषीवणे-श्चितकोशान् सप्त बाहडः / अलेखयत्ततोऽन्यानि पुस्तकानि तु लक्षशः / / दायं दायं सहस्रं तु हेम्नां साधर्मिकब्रजम् / प्रीणयामास मन्त्रीशो बाहडो विभवार्पणात् / / वर्षं वर्ष प्रति श्राद्ध-वात्सल्यानि नव पञ्च च / चकार बाहडः सङ्घ-पूजायाः पञ्चकं पुनः / / कुमारपालभूपान्ते-ऽन्यदैत्य कश्चिदूचिवान् / बाहडो लक्षशः स्वर्णटवान् व्यश्राणयन् सदा / / अधिकस्वामितो वर्ण्य-मानोऽत्र याचकैः सदा / अतस्तस्मै प्रदीयेत शिक्षा सम्प्रति भूपते ! / / ततो रुष्टो नृपोऽप्राक्षी-द्रे बाहड ! धनं ददत् / मत्तोऽधिकः कथं जातस्ततो बाहड ऊचिवान् / / पिता ते द्वादशग्राम-स्वामी त्रिभुवनोऽभवत् / इदानीं मे पिता ह्यष्टा-दशदेशाधिपो वरः / त्वत्तः पितुबलाद्भरि-धनमर्थिभ्य आदरोत् / दीयते तु मया स्वामि-नातो रोषस्तवेष्यते / ततः कुमारभूपालो हृष्टो