________________ 7e शत्रुञ्जय- कल्पवृत्ती दुर्जेयं तं रिपुं ज्ञात्वा यदा कोऽपि न जल्पति / तदोदयनमन्त्र्याह देह्यादेशं ममाधुना // भूपदत्तं बलं लात्वो-दयनो मन्त्रिपुङ्गवः / गत्वा शत्रुजयोपान्ते दध्यावेवं निजे हृदि / / वालाकविषयस्वामी ससुरोऽ. ऽरिदुराशयः / दुर्जेयोऽस्ति महीशानो बलेन बाहुनाऽपि च / / रणं वितन्त्रतां पुंसां सन्देहः स्यात् स्वजीविते / तेनाऽहं ऋषभं नत्वा करिष्येऽरिवधं ततः / / मुक्त्वा सैन्यमधः सिद्धि-गिरेरुदयनस्तदा / चञ्चत्परिच्छदः सिद्ध-शलमारूढवान् स्फुटम् // पूजां विस्तरतः कृत्वा दत्त्वा दानं यथोचितम् / रात्रा वुदयनो मन्त्री प्रमोः पुर उपाविशत् / / दीपवति ज्वलन्ती तु तदाऽकस्माच्च मूषकः / लात्वाऽर्हत्सदनच्छिद्रे यान्तं ददर्श मन्त्रि राट् / / मन्त्री दध्यावयं सार्वा -लयो दारुमयो निशि / अधक्ष्यच्चेत् तदाऽका स्याद् गतिस्तार्थम्य साम्प्रतम् / / मया यावन्न चेद्देवप्रासादः कारयिष्यते / दृषन्मयो व्ययालक्ष्म्या वृषभन्य जिनेशितुः / / मुनिसुव्रततीयस्य भृगुकच्छ पुरे वरे। कारयिष्येत जीणस्य समुद्धारो मनोहरः।। आसापल्या स्वनाम्नैव प्रासादः प्रथमाहितः / प्रभोर्बिम्बयुतः कोयों मया भूरिधनव्ययात् / / तावन्मयैकशो भोज्यं शयनीयं क्षितौ पुनः / एवमभिग्रहं मन्त्री ललौ प्रभोदशोः पुरः / / युग्मम् / / प्रातः प्रभुं पुनर्नत्वा स्तुत्वागत्य बलान्तरे / पारणं चक्रिवान् मन्त्री शुद्धसाधर्मिकान्वितः / / वालाकस्वामिना सार्द्धं गत्वा तत्रं च मन्त्रिराट् / प्रावर्तत रगं कर्तुं सन्न भतुरङ्गमान् / / तथोदयनमन्त्रोशो युद्धं चक्रेऽरिणा समम् / यथा स ससुरः प्रेत-मन्दिरं समुपेयिवान् / / नश्यत्यरेबले कश्चि-द्वाणालिमक्षिपत्तथा / यथोदयनमन्त्रीशो विद्धो बाढं त्रिभिः शरैः / / मन्त्रीशे पतिते क्षोण्यां मन्त्रीश्वरभटास्तदा / शोधयन्तो रणं मन्त्रि-समीपे समुपाययुः / / श्वसन मन्त्री जगौ भो ! भो ! भृत्याः ! केनाधुनो जितम् ? / सुभटा जगदुः स्वामिन् त्वया जिग्येऽरिहिंसनात् / / मन्त्री जगौ ममेदानी प्राणा यास्यन्ति दुःखतः / भटाः प्रोचुः प्रभोः ! किं ते दुःखं सम्प्रति विद्यते ? / / मन्त्री स्वाभिग्रहाऽऽदानं प्रोच्य प्राहेति तान् प्रति / वेत्ति मेऽभिग्रहं पुत्रो बाहडश्चेत्तदा वरम् / / पत्रदाता जगौ याव-जल्पाम्यभिग्रहं न ते / पुत्रस्य पुरतस्ताव-न्ममाऽस्तु नियमस्तव // ततो मन्त्री जगौ साधू अत्रैष्यतस्तदाहकम् / आराधनां विधायाऽऽशु गमिष्यामि शुभां गतिम् / / साधुवेषधरौं वंठौ तत्राभ्येत्य तदाऽचिरात् / सम्यगाराधनां तस्य कारयामासतुः सुखम् / / अत्राराधनाप्रकरणं वाच्यम् / / क्षामिते जीवराशौ तु नमस्कारान् स्मरन् हृदि / मन्त्रीश्वरो ययौ स्वर्ग सर्वायुषः क्षये तदा / / तत्र देशे निजं भृत्यं मुक्त्वा शेषबलं पुनः / आगत्याऽवग् नृपोपान्ते वैरिजेत्यादिकं वचः / / स्थगीधरात् पितुस्तीर्थो-द्धाराभिग्रहमञ्जसा / निशम्य बाहडोऽलासी-त्ताताभिग्रहमात्मना / / बाहडोऽइममयं सार्वा-गारं कारयितुं तदा / धनं दत्त्वा शिवक्ष्माभ्रे ऽप्रेषयत् सूत्रधारकान् / / वर्षद्वयेन तैर्निष्पा-दिते श्रीवृषभालये। एकः पुमान् समेत्यावर बाहडस्यान्तिके तदा / / स्वामिस्तव पितुश्चित्त-चिन्तितं पूरितं किल / श्रीआद्यार्हद्गृहस्याद्य निष्पत्तेः सिद्धपर्वते // ततः स्वर्णमयीं जिह्वां पञ्चाङ्गवसनानि च / तस्मै दत्त्वोत्सवं चक्रे मन्त्री दानं ददद् बहु / / प्रहरानन्तरे सिद्ध-शैलादन्यो नरः पुनः / कृष्णाऽऽस्यो बाहडोपान्ते समेत्य प्रोक्तवानिति / / सिद्धाद्रौ यस्त्वयाकारि वृषभावसथो महान् / पातितः स प्रचण्डेन वायुना पञ्चमीदिने // तस्मै स्वर्णमयीं जिह्वा-द्वयीं मन्त्री प्रदत्तवान् / उत्सवं द्विगुणं चक्रे महादानप्रदानतः // ततो मन्त्रीश्वरोपान्ते परिवारो जगाविति / अशुभोदन्तकथक-नरस्य किं ददे बहु ? // मन्त्र्याह जीवति मयि प्रासादः पतितो यदि / तदाऽहं कारयिष्यामि पुनर्भूयिष्ठरैव्ययात् / / पतिष्यति जिनावासो यदि मे मरणादनु /