________________ बाहडेन पट्टकूलकाः पत्तने आनीता इति सम्बन्धः मीहग दूरसमागतम् / अतः परं त्वया नैव व्यापार्यमम्बरं त्विदम् // नृपवाक्यं निशम्यैतद् दूनः बाहड अचिवान् / आनेष्यन्ते मया पट्ट-कूलिकानीह पत्तने // ततो भूपो जगौ मन्त्रि-पुत्र ! बाहड ! साम्प्रतम् / सुकुमारो भवान् तस्मान्मुचामुं त्वं कदाग्रहम् / / बंबेरपत्तने भूमि-पतिवीसलदेवकः / दुर्दमो घुसदामस्ति त्रपुवप्रविनिर्मितेः / / वप्रस्य परितोऽङ्गार-पूर्णास्ति खातिका वरा / पट्टकूलकृतः सप्त शतानि सन्ति तत्र च // व्यूतानि च दुकूलानि तैरादो मेदिनीपतिः / परिधत्ते ततोऽन्यत्र देशे गच्छन्ति तानि च // तत्रत्येभ्यजनाः प्रायो दुकूलानि निरन्तरम् / विक्रीणन्तेऽन्यदेशेषु गत्वा गत्वा धनेन तु / / बाहडोऽवग् मया ह्यत्र यावद्दकूलकारकाः। आनेष्यन्ते न तावच्च भोक्तव्यमेकशो नृप ! / / तस्येति मूर्तिमालोक्य भूपो बह्रीं चमू निजाम् / वितीर्य बाहडं जेतुं तमरातिमचालयत् / / मातरं पितरं देवं भूपं सज्जनसन्ततिम् / नत्वा भक्त्याऽचलच्छत्रु-ञ्जयेषु बाहड एव तु / / बम्बेरं प्रति यान्मन्त्रि-नन्दनो बाहड. स्तदा / देशानेतान् ससाधाऽऽशु सुखेन भुजलीलया / / " जंगदूर जडहारडगीअ अजपुरनराणओ / नयण वाहनागडउ नरेउ नरहनखरजिठाणउ // 1 // सजनाडमणिवाड भगाउ सयंभरि वग्घेरा / लडणूर गौकरण ह नूरझरि जंपेरा पीपल उ रहपुर हक्कर रायपुर मंडलपुरे मेलतूजरि विसलह नारि लसइ पइ अ गिई तओ बलिबलि // " एवं देशान् जयन्मन्त्री-पुत्रो बम्बेरसन्निधौ / यावद्यातोऽभवत् ताव-द्रजो व्याप्त नभस्तलम् / / इतो वीसलदेवोऽवक सद्यः सहचरी प्रति-" हयहीसरा खहरओ दीसइ दुग्गबलंति" द्विट्चक्रमागतं ज्ञात्वा राज्ञी प्राह नृपं प्रति-“लोडिज्जइ तुह गुट्टजा बाहड पुहुतो कंत ! मन्त्रि धुरि कुमारपालह दलि समदलि संजुत्त करिहि कटि करवाल || बाहडं सबलं पुर्या बहिरायातमञ्जसा / श्रुत्वा भूपो विधातुं तु रणं द्विषा समं ययौ / / बाहडो यमसदृशः कुर्वन् युद्धं तदाऽरिणा। न्यहन् वीसलदेवक्ष्मा-पतिं समरसीमनि // बाहडम्याखिलं वैरि-सैन्यं तन्नन्दनोऽपि च / मिलितः सेवनं भक्त्या चक्राते पादपङ्कजे // तदा स्वसू नुराज्यार्थं वीसलम्य प्रिया रयात् / समेत्य बाहडम्याग्रे जगादोच्चैःस्वरं स्फुटम् // "बाहड चउ पटमल्ल सल्ल सयल रिपुहिययस्स / तूं जिसरि ओ जमजओ सेवय वेरिणो निच्चं // 1 // " त्वमेव मे सुतं हीनं महान्तं वा करिष्यसि / मम सूनोरतः स्वामी त्वमेव बाहड ! ध्रुवम् / / इत्याद्यरिप्रियां जल्प-परां विज्ञाय बाहडः / राज्यं वीसलदेवस्य सूनवे प्रददौ मुदा // पुरमध्ये स सर्वज्ञ-प्रासादेषु जिनाधिपान् / नत्वा प्रपूज्य पूजाये मुमोच विभवं बहु // पट्टकूलकृतां पश्च-शती बाहडमन्त्रिराट् / अनैषीत् पत्तने तस्मा-त्पुराव्वाल्य वेगतः // पट्टकूल कृतः स्वीय-छत्रस्याधो नरेश्वरः / पारिणा स्नापयित्वाशु शुद्धं चक्रे स्वयं तदा / / आवासान् पृथुलान् भूपः कारयित्वा पुरान्तरे / तेभ्यो दुकूलकारिभ्यो ददौ सन्मानपूर्वकम् / / बाहडाय बहून् ग्रामोन् पुराणि च बहून्यपि / तुरनमान् ददौ भूपो भूरिसन्मानदानतः / / पट्टकूल कृतां तेषां वर्यमन्दिरसन्ततिम् / निरीक्षितुं पुरीलोकाः समायान्ति दुतं द्रुतम् / तद्व्यूतैः पट्टकूलैस्तु श्रीसङ्घ परिधोपयन् / परिधत्ते स्वयं भूपो दुकूलानि जनोऽपि च // पाहडो भूयसी लक्ष्मी प्राप्तो भूपतिपार्वतः / दत्त्वा पित्रे नमस्कारं चक्रे मातुः पितुर्मुदा // 28 // इति बाहडेन पट्टकूलकाः पत्तने आनोता इति सम्बन्धः // ससुरारि सुराष्ट्रासु लुण्टयन्तं प्रजाः सदा / श्रुत्वा भूपो जगौ मृत्यः कस्त जेतुं प्रयास्यति /