________________ शत्रुञ्जय-कल्पवृत्ती द्विषो जगौ // द्रव्यकोटित्रयं तस्मै दत्त्वा राजपितामहम् / वितीर्य बिरुदं भूपो हृष्ट उत्सवमातनोत् / / भूपदत्तेभमारूढो मन्त्री दानं ददद् बहु / जिनागारे जिनं नत्वा समागात् स्वोयमन्दिरम् / / ततोऽम्बडमन्त्रीशो मानितो मेदिनीभुजा / चकार धर्मकृत्यानि काले काले सदादरात् / / यतः-" त्रिवर्गसंसाधनमन्तरेण पशोरिवायुविफलं नरस्य / तत्रापि धर्म प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामो // 1 // " अम्बडो देवबुद्धया तु वन्दते श्रीजिनेश्वरम् / गुरुबुद्ध या गुरुं हेम-सूरिं नौति निरन्तरम् / / स्वामिबुद्ध या तु भूपालं कुमारपालमादरात् / प्रातर्मातुः पितुः पादौ नोति भक्त्या विशेषतः / / यतः" सर्वज्ञो जितरागादि-दोषस्त्रैलोक्यपूजितः / यथास्थितार्थवादी च देवोऽईन् परमेश्वरः // 1 // " त्रिकालं कुरुते पूजां प्रभोरावश्यकद्विकम् / सचित्तं नैव गृह्णाति मन्त्रिराडम्बडः कचित् / / अर्थिभ्यः प्रत्यहं दानं यथा पात्रं यथोचितम् / ददान अम्बडो नैव कुभावं कुरुते क्वचित् / / यतः- “पुहविकरंडे धंभंडसंपुटे भमइ कुण्डलिजंतु / तुह अंबडदेव जसो अलद्धपसरो भुयंगुव्व / / 1 // " कोडिदोनं कचिल्लक्षदानं / सत्यां संयतसामग्या-मम्बडो दानिशेखरः / प्रतिलाभ्य यतीन्नन्नं शुद्धं भुङ्क्ते ततः स्वयम् / / यतः-" पढमं जइण दाऊणं अपाण पणमिऊण पारेइ / असइ सुविहियाणं मुंजेइ कयदिसालोओ // 1 // साहूणं कप्पणिज्जं जं नवि दिन्नं कहंचि किंपि तहिं / धीरा जहुत्तकारी सुसावंगा तं न भुंजंति // 2 // " वहन् बिरुदपङ्क्तिं तु स्वस्मिन् राजपितामहम् / देवबुद्ध या जिनं गुरुं शुद्धं गुरुधियाऽनमत् / / अम्बडो ददते दान-मर्थिभ्यः प्रतिवासरम् / कर्ण-विक्रम-रत्यादि-दानिख्यातिमुपागमत् / / कुमारपाल उर्वीशे परलोकमुपागते / तत्पढेऽजयपालस्तू-पविष्टः स्वयमञ्जसा / / नतेषु सर्वमन्त्र्यादि-जनेष्वाम्रभटोऽनघः। विना जिनं तु(न)भूपालं ननाम धर्मबुद्धितः / / अजयो भूपतिः प्राह यदि त्वमाम्रभटाऽनघ! / मा नक्ष्यसि तदा हन्मि भवन्तं मन्त्रिनायकम् / / ततोऽन्यदा प्रपूज्याईद्बिम्बं चानशनं मुदा / लात्वा मन्त्री युधं कर्त सार्द्ध भूमीभुजा दृढम् / / स्मरन् चित्ते जिनाधीश-मम्बडो मन्त्रिनायकः / युद्धं कुर्वन् मृतः स्वर्ग-सदनं समुपेयिवान् / / यतः- “वरभट्टर्भाव्यं वरमपि च खिड्गैर्धनकृते वरं वैश्याचार्यो(य) वरमपि.महाकूटनिपुणैः / दिवं याते देवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये // इत्यादि वहुशस्तीर्थयात्रादिपुण्यमम्बडे / कृत्वा स्वर्ग गते प्रोचु-र्जना एवं परस्परम् / / अयं मन्त्रीश्वरः पुण्य-सद्म प्राणिहिताशयः / कृत्वा भूरितरं पुण्यं स्वर्गिगृहं समीयिवान् // 72 // इति आम्रभटमन्त्रिकथा समाप्ता॥ बंबेरपत्तनाद्भपो नाम्ना वीसलदेवकः / परिधाय स्वयं पट्ट-कुलं व्यूतं धुरि स्फुटम् / / ततोऽन्यत्रपणायन्ते पट्टकुलानि सन्ततम् / भूपेन तेन विषये-ऽन्यस्मिन् द्रव्यलोभतः। भूपः कुमारपालोऽथा-णहिल्लामिधपत्तने / अर्चयन् श्रीजिनं पट्ट-कूलं पर्यदधत् सदा / / दुर्लभत्वाच तदिव्यं वस्त्रं पत्तनभूपतिः / स्थापयामास गेहस्य गर्भे धोतिकहेतवे / बाहडो बालकैः सार्धं रममाणो निरन्तरम् / पर्यधत्त दुकूलं त-द्भपस्य सदनाद् बहिः॥ सप्तस्वहस्सु यातेषु दुकूलं मलिनं क्रमात् / जातं वीक्ष्य नृपोऽप्राक्षीत् केनेदं मलिनं कृतम् ? // सेवका जगदुर्देव ! वाहडो मन्त्रिनन्दनः / व्यापारयत् तदेतद्धि तेनाऽभून् मलिनं त्विदम् // आकार्य पाहडं सद्यो जगादेति महीपतिः। व्यापार्यं न हि दुकूलं मन्त्रिपुत्र ! यथा तथा // दुर्लभं वियते यत्र