________________ 71 शत्रुञ्जय-कल्पवृत्ती लक्षा अष्टोदशाऽ-र्वाणः षट् सहस्राणि हस्तिनः // वेसरोष्ट्रवृषादीनां मनुष्याणां च योषिताम् / विक्रमादित्यभूपाल-सङ्घ सङ्ख्या न विद्यते / / देवालयपताकस्थ-किङ्किणी-रुचिरकणाः / द्रुतमाहयितुं सङ्घमुद्यता अभवन् समम् / / पीतस्कन्धाः सदाकारा नानाभूषणभूषिताः / वहन्ति वृषभा देवालयान् कुञ्जरगामिनः // दिव्यरूपधराश्चारु-भूषणा हरिणेक्षणाः / चतुःकोदिस्थिता देवा-लयान् चामरपाणयः // गायन्त्यो जिननाथस्य गीतानि मधुरध्वनि / लीलया वातयन्ति स्म चामराणि मनाहराः // युग्मम् // ग्रामे ग्रामे चलन्मार्गे स्नात्रपूजाध्वजादिभिः / कुर्वन् प्रभावनां शत्रु-जयोपान्ते नृपो ययौ // अनर्गलं ददहानं श्रीशत्रुञ्जयपर्वतम् / आरुरोह जिनं नन्तुं विक्रमादित्यभूपतिः // स्नात्रपूजाध्वजारोप-वारिका वाहनादिकम् / कार्य सर्वं नृपः कृत्वा चकारेत्यर्हतः स्तुतिम् / / सुरासुरमहीनाथ-मौलिमालानतक्रमम् / श्रीशत्रुजयकोटीर-णि श्रीऋषभं स्तुवे / / विभो ! त्वत्पदराजीवं ये सेवन्ते जनाः सदा / सुरासुरनृपश्रेणी भजते तान् सुभक्तितः // तदेव पतितं किञ्चित् प्रासादं वीक्ष्य भूपतिः / प्रोवाच सिद्धसेनार्य प्रासा. दोऽयं पतिष्यति // सिद्धसेनगुरुः प्राह कारिताजिनमन्दिरात् / उद्धारे द्विगुणं पुण्यं प्रोक्तं श्रीजिननायकैः / / यतः-" कारयन्ति मरुद्गेह ख्यात्यर्थ केचनात्मनः / केचित् स्वस्यैव पुण्याय स्वश्रेयोऽथं च केचन // 1 // " प्रासादोद्धारकरणे भूरि पुण्यं निगद्यते / उद्धारान्न परं पुण्यं विद्यते जिनशासने // पुराऽत्र पर्वते चक्रे प्रासादं भरतो नृपः / श्रीनाभेयजिनेशस्य मणिरूप्यमयं महत् / / अस्मिन्नेव महातीर्थे प्रासादं वृषभप्रभोः / कारयामास सगर-चक्रवर्ती द्वितीयकः / / शत्रुजये ततः सार-कार(कीर)काष्ठमयं पृथु / प्रासादोद्धारमुर्वीशः कारयामास विक्रमः॥ ततः श्रीविक्रमादित्य-श्वलन् शत्रुजयाऽचलात् / श्रीरैवतगिरौ नेमि-नाथं नन्तुं समागमत् / / स्नात्रपूजाध्वजारोप-वारिकावाहनादिकम् / कार्यं सर्व नृपः कृत्वा चकार स्तवन मुद्रा / यात्रां विस्तरतः कृत्वा द्वयोः तीर्थेशयोस्तदा / विक्रमार्कनृपोऽवन्त्यां नगर्यां समुपागमत् / / 40 / / इत्यादि विक्रमार्कचरितं मत्कृतं (मत्कृताद् ) ज्ञेयं / विक्रमार्ककृतोद्धारस्वरूपम् / मरुस्थल्या कलाग्रामे श्रीश्रीमालिकवंशजः / उदाभिधो वणिग्वर्यो वसन् धर्मं व्यधान् सदा / वर्षाकालेऽन्यदोदाको गच्छन् घृतं पणायितुम् / मध्यरात्रौ बहिामात् केदारान् वारिपूरितान् / / स्फुटतस्त्वरितं पालि-करणान्मानवै वरैः / बध्यमानान्निरीक्ष्योऽवक तान्प्रत्येवं कृतादरम् / / युग्मम् / / यूयं कम्यानुगाः ? प्रोक्तं तैरेवं तं प्रति स्फुटम् / धनस्य श्रेष्ठिनोऽत्र स्मो वयं तु कामुकाः किल / / त्वरितं चलनात्त त-जल्पनाद् व्यन्तरांश्च तान् / ज्ञात्वोदाको जगौ मे तु क सन्ति किल कामुकाः ? / / तैरुक्तं भवतः कर्णा-वत्यां सन्ति च कामुकाः / ऊदो दध्यौ ततस्तत्र पुर्या वासो विधीयते / / ततः कुटुम्बयुक्तः स गत्वा कर्णावतीपुरीम् / वायटीयजिनावासे वन्दते स्म जिनेश्वरान् / / विधिवत् सकुटुम्बं तं वन्दमानं जिनाधिपान् / वीक्ष्य छंपिकया प्रोक्तं कस्यातिथिर्भवानिह ? / / ऊदाकोऽवग न कोऽस्त्यत्र स्वकः सुहृच्च सम्प्रति / ततस्तया वरं श्राद्धं मत्वाऽनायि वणिग्गृहे / / तत्रैव जेमयित्वा तं दत्त्वा तम्मै धनं बहु / एक सद्म च वासाय वितीर्या-तिष्ठिपच्च सा / / युग्मम् // धर्माविरोधतो द्रव्य-मर्जयन् सन्ततं वणिग् / पूजयित्वा जिनं भुक्ते नित्यं स करुणापरः / / उपाय॑ विभवं किञ्चित् कारयन् मन्दिरं नत्रम् / ऊदाकः प्राप्तवाँस्तत्र निधानं हेमपूरितम् / / तत ऊदो निधिप्राप्तिं भूपालाय न्यवेदयत् / भूपस्तत्र समागत्य दृष्ट्वा