________________ N विक्रमार्ककृतोद्धारस्वरूपम् पा हक्पथं प्राप्तस्तदा कर्मक्षयो भवेत् // पापिनां शल्यरूपोऽयं धर्मिणां सर्वशर्मदः / कामिनां कामितं दाता जीयाच्छत्रुञ्जयो गिरिः / विना तपो विना दानं विनाऽर्चा शुभभावतः / केवलं स्पर्शनं सिद्धक्षेत्रस्याक्षयसौख्यदम् / / शत्रुञ्जयसमं तीर्थ-मादिदेवसमः प्रभुः / जीवरक्षासमो धम्मों नास्ति विश्वत्रये नृप ! // इन्द्रादयोऽपि ये देवा देव्योऽपि भुवनत्रये / सेवन्ते यं सदा तीर्थ-राजं सद्गतिकाम्यया / / अन्यत्र पूर्वकोटथा यत् शुभध्यानेन शुद्धधीः / प्राणी बध्नाति सत्कर्म मुहूर्तादिह तद् ध्रुवम् / / अन्यतीर्थेषु यद्यात्रा-शतैः पुण्यं भवेन्नृणाम् / तदेकयात्रया पुण्यं शत्रुञ्जयगिरौ स्फुटम् / / जिना अनन्ता अत्रैयुः सिद्धाश्चात्रैव भूरिशः / मुनयश्चाप्यसङ्खचाता-स्तेन तीर्थमिदं महत् / / चैत्रस्य पूर्णिमायां तु पुण्डरीकगिरेनरः / स्वर्गापवर्गसौख्यानि कुरुते करगाण्यसौ // श्रुत्वैतद्धपतिर्गत्वा सर्वसङ्घसमन्वितः / नदनद्यादिशृङ्गेषु जिनानचितवान मुदा // ततोऽभ्येत्य नृपः स्वीय-पुरे धर्मपरायणः / कारयामास सर्वज्ञ-पूजां भव्यान् जनान् बहून् / / जैनधर्म सदा भूप-सम्प्रतिर्मुदिताशयः / कुर्वन्नर्जयन् मुक्ति-गमयोग्यं वृषं बहु / / 604 / / इति सम्प्रतिभूपकथा शत्रुञ्जयोद्धारगर्भिता समाप्ता / तीर्थे शत्रुजये श्रीमान् विक्रमार्कनरेश्वरः / यात्रां विस्तरतः कृत्वा चैत्योद्धारमकारयत् // तथाहि-गर्दभिल्लमहीपाल-पुत्रो विक्रमभानुमान् / पपाल पृथिवीं न्याय-मार्गेण वरविक्रमः // तस्य पत्न्योऽभवन् वह्वयः कमलाद्या मनोहराः / सुकोमलाभवः पुत्रो विक्रमाच्चरितोऽभवत् // क्रमाद् रैपुरुषद्वन्द्वं बभूवाऽनघपुण्यतः / ववर्द्ध निखिलं राज्यं तस्याऽश्वेभादिभिः स्फुटम् // सिद्धसेनगुरूपान्ते धर्म जिनवरोदितम् / सम्यक्त्वसहितं भेजे विक्रमादित्यभूपतिः / / अत्र विस्तराद्राज्यप्राप्ति-पृथिव्यनृणीकरणादिसर्वसम्बन्धो मत्कृताच्छीविक्रमादित्यचरित्राज्ञेयः / अन्यदा श्रीशिवक्ष्माध्र-माहात्म्यं विक्रमार्यमा / सिद्धसेनगुरूपान्ते शुश्रावेति कृतादरम् // एकैकस्मिन् पदे दत्ते पुण्डरीकगिरिं प्रति / भवकोटिकृतेभ्योऽपि पातकेभ्यः प्रमुच्यते // कृता शत्रजये यात्रा येन सङ्गन्यताऽऽदरात / स एव लभते मुक्तिसातं स्तोकभवादपि // एकोनसप्तति कोटा-कोटीर्यत्र जगद्गुरुः / पञ्चाशीतिकोटिलक्षाः प्राप्तवान् पादुका-पदे // चतुश्चत्वारिंशत्कोटी सहस्रैरधिका पुरा / तं सिद्धाचलमानौमि सर्वतीर्थफलप्रदम् // युग्मम् // शत्रुञ्जयमिदं तीर्थं न यावत् पूजितं भवेत् / गर्भवासो हि तस्यास्ति तावद् दूरेऽभवद् वृषम् // यो दृष्टो दुर्गति हन्ति प्रणतो दुर्गतिद्वयम् / यो ध्यातो निवृतिं दत्ते भव्यप्राणभुजामहो ! / / इति सिद्धाद्रिमाहात्म्य-माकर्ण्य मेदिनीपतिः / यात्रां शत्रुजये कर्त-मुद्यमं चक्रिवाँस्तदा / / ततः श्रीविक्रमादित्यः प्रेष्य कुङ्कमपत्रिकाः। श्रीसङ्घ मेलयामास शोभने वासरे स्फुटम् / / शुद्धेऽह्नि विक्रमादित्यो नन्तुं शत्रुञ्जयेऽर्हतः / अनर्गलं ददद्दानं प्रस्थानं प्रददौ मुदा // चतुर्दश नृपास्तस्य सङ्घ मुकुटवर्द्धनाः / शुद्धश्राद्धकुटुम्बानां लक्षाः सप्ततिरेव च // सिद्धसेनादिसूरीशाः शतानि पञ्च सद्गुणाः। क्रियाकलापकुशला-श्चलुनन्तुं जिनेश्वरम् / / एकोनसप्ततिशतं हैमा देवालया वराः / शतत्रयमिता रौप्य-मया जनमनोहराः॥ शतपञ्चमिता दन्त-मया देवालयास्तथा / अष्टादश शतं काष्ठ-मयाश्च चलिताः पुनः / / एका कोटी रथा लक्ष-द्वयं नवशतानि च /