________________ शत्रुञ्जय-कल्पवृत्ती अमुना प्रस्तरेणैव हतं छागत्रयं पुरा। अतस्त्वं लाहि भो भद्र ! ततो नैगम ऊचिवान् // मुधाऽहं प्रस्तर नैव कस्यापि लामि कर्हिचित् / इत्युक्त्वाऽदात् वणिक तस्मै मर्दलानां तु सप्तकम् / / नीत्वा तं प्रस्तरं पुर्या मणिपरीक्षकान्तिके / मूल्यं पप्रच्छ चन्द्रः स ततो माणिक्यविद् जगौ॥ शतकोटिसुवर्णस्य मूल्यमस्य समरित भोः ! / न्यून वाधिकं किञ्चिलभते मणिरेष हे // रैणां हि शतकोटया तु विक्रीय प्रस्तरं तकम् / चन्द्रः स्वजनकस्यान्ते समेत्य प्राणमत् पदौ // पाथोधिगमनोदन्तं प्रोक्त्वाऽशेषं पितुः पुरः / चन्द्रोऽवपद् धनं सप्त-क्षेत्र्यां कल्याणहेतवे / / मृतेऽपि जनके चन्द्रो यात्रां शत्रुजयाचले / कृत्वो कोटिद्वयं हेम्नां व्यययामास सादरम् / / यावन्मानं धनं धर्मे गृहकार्य च सन्ततम् / तावन्मात्रा पुनः सद्यः समेति तनिकेतने // श्रीपुरे भीमभूपस्य पुत्री जाता यदा तदा / पुरोहितमुरारैश्च बभूव नन्दनः पुनः। तदा व्योम्न्यभवद्वाणी पुरोहितमहीशयोः / पुत्रीनन्दनयोरेव भविष्यति शयग्रहः॥ वर्द्धमानं सुतं भूपः पाठाय लेखसद्मनि / यत्रामुचत् सुतां तत्र पुरोहितोऽपि देवतः / / क्रमाद् द्वयोरभूद्रागः पाणिपीडनहेतवे / धिगजातित्वाद् नृपः पुत्रीं न तस्मै दातुमीहते // राजाऽन्यदा जगौ विप्र ! पुज्यर्थं वीक्ष्यते वरः / पुरोहितोऽवदद्धाता निर्जरः पृच्छयतेऽधुना // यस्य योग्या भवेत् कन्या तं वरं स च वक्ष्यति / राजाऽवग स विधिः सत्यः कुत्रास्ति साम्प्रतं वद ? | पुरोहितो जगौ सिन्धु-तटे चन्द्रपुरे वरे। अस्ति सत्यो विधिर्देवो यः स च पृच्छ यतेऽधुना // राजाऽवक् तर्हि ते पुत्रो विधि प्रष्टुं प्रगच्छतु / ततो द्विजसुतोऽचाली-त्पित्रादिष्टोऽन्तिके विधेः // व्रजन् मार्गे रमापुर्यां द्विजपुत्रो धनालये / जेमितुं स्थापितस्तेन वणिजा रुचिरादरम् / जेमनानन्तरं पृष्टो स द्विजो वणिजा खलु / कुत्र यासि किमर्थं त्वं ? ततो द्विजो जगावदः / सिन्धुकूले विधेः पार्वे पित्रोऽहं प्रेषितो ननु / राजपुच्या वरस्येक्षाहेतवे भूभुजापि च // वणिजोक्तं बहून् दीन-दुःस्थान् लक्षमितानपि / मम जेमयतो गेहं कथं ज्वलति हायने / प्रष्टव्यं विद्यते ह्येतन्ममापि विधिसन्निधौ / पुरोहितसुतः प्राह प्रक्ष्याम्यहं तबोदितम् / / एकं कार्य ततश्चलन् द्विजो वीरपुरे महीभुजा / जेमितश्च ततः पृष्टो गमनोदन्त आदितः। तेन स्वगमनोदन्ते कथिते भूपतिर्जगौ। पुण्यं मे कुर्वतः कस्मात् कुष्ठं जातं तनोभृशम् / / प्रष्टव्यं विद्यते ह्येतत् // द्वितीयं कार्य / / ततो गच्छन् स पाथोधे-मध्यान्निःसारितोऽम्बुना / पुनः पुनीषो दृष्ट-स्तेनैव च द्विजन्मना / मत्स्योऽवन कुत्र देशे त्वं यास्यसि द्विज उक्तवान् / स्वीयगमनवृत्तान्तं ह्येतन्मत्स्यो जगावदः॥ प्रविष्टोऽहं जले भूयो भूयोपि वा तदा भृशम् / निष्कास्ये च बहिः सिन्धोस्तत्र स्थातुं न हि प्रभुः // प्रष्टव्यं विद्यते ह्येतत् // इति तृतीयं कार्यम् / / ततो व्रजन् द्विजो धातृ-पाये ऽभ्येत्य नृपोदितम् / व्यजिज्ञपत्ततः प्राह विधिदेवस्तदप्रतः। गच्छ पश्चाद् गद क्षोणी-पतेरो पुरोहितः। विवाहस्य हि सामग्री क्रियतां मेदिनीभुजा | आनयिष्याम्यहं पुत्र्या योग्यं वयं वरं द्रुतम् / विवाह दिवसे कार्यों बिचारो न महीभुजा / षणिकसन्देशके प्रोक्ते ( पृष्टे ) द्विजेन विधिरूचिवान् / वणिग् कुलतुलामान-र्जनं वञ्चयते बहुम् / / लोकवञ्चनपापेन बहुदानपरस्य हि / वणिजः सदनं वर्ष वर्ष प्रति ज्वलत्यहो ? / / उत्तर 1 / भूपसन्देशके पृष्ठे विप्रेण विधिरूचिवान् / निर्हेतुं महिषीछाग-महिषानां नृणां पुनः / / गोत्रिणां कन्दनं शश्वत् चकार स महीपतिः / तेन पापेन सज्जातं कुष्ठं भूपतनौ भृशम् / / युग्मम् // उत्तर 2 / ततो मत्स्योदिते पृष्ठे विजेन विधिरूचिवान् / / मत्स्यः स प्राग्भवे लक्ष्मी-पुरेऽजनि धनो नृपः / ज्वालं ज्वालं बहून् प्रामान् लोकान् भूमीपतिः सदा / बाढमुद्वासयामासा-न्यत्र तिष्ठन्ति ते जनाः॥ वर्षयित्वा तपोनिष्ठां-स्तपखिनस्तदालयात् / स्वयं तस्थौ नूपोऽतो न स्थातुं शक्नोति वारिधौ / / उत्तर 3 // तत आयान् द्विजः पश्चाद्वि