________________ सम्प्रतिनृपचरित्रम् धिना यन्निवेदितम् / तद्वणिग्-नृप-मत्स्यानां पुरः पृथक् पृथग् जगौ // ततो वितन्वतं शुद्ध व्यवसायं छलोज्झितम् / वणिजो निश्चला लक्ष्मी-रजनिष्ट निरन्तरम् / / राज्ञो मानयतो गोत्रि-गुरुलोकान् सुभक्तितः। तीव्र कुष्ठं गतं देहाद् वपुर्जातं स्मरोपमम् / / मत्स्यस्य निन्दतः पूर्व-भवनिष्पादितं तमः / ददौ स्थानं पयोराशिः स्वस्मिन् वर्यवृषोदयात् // कुष्ठिभूमीभुजो स्वीयां पुत्रीं त्रैलोक्यसुन्दरीम् / पुरोहितसुतायाऽऽशु ददौ चारुमहोत्सवम् // ततो महीभुजा तस्मै पुत्रीकान्ताय भक्तितः / तिलङ्गविषयं सर्वं व्यश्राणि रुचिरेऽहनि / / ३तो भीममहीशेन पुत्र्या वरं विलोकितुम् / प्रेषिता येऽनुगाः स्वीयास्तेऽभ्येत्येति जगुस्तदा।। तिलङ्गविषये चन्द्र-पुरे योऽस्ति नरेश्वरः / स एव विद्यते स्वीय-पुच्या योग्यो वरो वरः // ततः खयम्वरां स्वीय-पुत्रीं प्रेष्य नरेश्वरः ! तिलङ्गविषयेशाय प्रददौ रुचिरोत्सवम् / / पुरोहितो निजं पुत्रं ज्ञातुं स्वीयानुगास्तदा / प्रेष्य राज्ञा तिलङ्गस्य राज्याप्तिं तस्य तत्र तु // नृपोऽन्यदा जगौ या गीः खेऽभूत्तदा पुरोहित ! / मम ते पुत्रिकासून्वो-भविष्यति करग्रहः // साऽन्यथा मयका चक्रे तिलङ्गविषयेशितुः / पुध्या दानादिदानीं तु यतो भूपो बली ननु || आकण्यतन्नृपपुच्या विवाहोदन्तमादितः / जगौ विधिकृतं नैवा-न्यथा भवति कहिचित् / / यतः-" देवमुल्लध्य यत्कार्यं क्रियते फलवन्न तत् / सरोम्भश्चातकेनात्तं गलरन्ध्रेण गच्छति // 1 // " यद् धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं, तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ गतो नाधिकम् / तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः, कूपे पश्य पयोनिधोवपि घटो गृह्णाति तुल्यं जलम् // 1 // " ततो जोमातरं पुत्री-युक्तमाकार्य तत्र च / इभाश्वधनदानेन प्रीणयामास भूपतिः // ततो भीमनृपो जैन धर्म कुर्वन् विशेषतः / शत्रुजये व्यधाद्यात्रां युगादिजिनचर्चनाम् / / भीमभूपः सदा धर्मं कुर्वाणः श्रीजिनोदितम् / स्वर्ग प्राप्य क्रमान्मुक्ति गमिष्यति न संशयः // आकण्यैतन्महीपाल-सम्प्रतिः प्रतिवासरम् / भूरिदानं प्रदत्ते स्म याचकेभ्यः सुभक्तितः // भूरिसङ्घयुतो भूपः सम्प्रतिः सिद्धपर्वते / गत्वोऽर्चित्वा जिनान् धर्म-घोषसूर्यन्तिके ययौ। श्रुत्वा धर्मोपदेशं तु सम्प्रतिभूपतिर्जगौ / किं जायतेऽस्य तीर्थस्य सेवनोत् सुकृतं किल ? // कानि कान्यत्र तीर्थेषु धर्मस्थानानि सद्गुरो ! / का को नद्योऽत्र विद्यन्ते शृङ्गाणि कति पर्वते // गुरुर्जगाद भूपाल ! तीर्थस्यास्य निषेवनात् / जायते तद् वृषं तद्धि कथ्यमानं निशम्यताम् / / ग्रन्थान्तरे श्रीशत्रुअयस्य माहात्म्यमेवं प्रोक्तमस्ति; तथाहि-तावद् गर्जन्ति हत्यादि-पातकानीह सर्वतः। यावच्छत्रुञ्जयेत्याख्या श्रूयते न गुरोर्मुखात् // न भेतव्यं न भेतव्यं पातकेभ्यः प्रमादिभिः / श्रूयतामेकवेलं श्री-सिद्धिक्षेत्रगिरेः कथा।। वरमेकदिनं सिद्धि-क्षेत्रे सर्वज्ञसेवनम् / न पुनस्तीर्थलक्षेषु भ्रमणं क्लेशभाजनम् / / पदे पदे विलीयन्ते भवकोटिभवान्यपि / पापानि पुण्डरीकाद्रात्रां प्रति यियासताम् / एकैकस्मिन् पदे दत्ते पुण्डरीकं गिरिं प्रति / भवकोटिकृतेभ्योऽपि पातकेभ्यः स मुच्यते // न रोगो न च सन्तापो न दुःखं न वियोगता / न दुर्गतिर्न शोकं च पुंसां शत्रुञ्जयस्पृशाम् // छिद्यन्ते नास्य पाषाणाः खन्यते नो महीतलम् / शकृन्मुत्रादि नो कार्य सुधियाऽत्र मुमुक्षुणा / / कृता शत्रुजये यात्रा न येन जगतां विभुः / नाऽपूजि हारितं तेन स्वजन्म सकलं मुधा | अन्यतीर्थेषु यद्यात्रा-शतैः पुण्यं भवेन्नृणाम् / तदेकयात्रया पुण्यं शत्रुञ्जयगिरौ स्फुटम् / / पुनस्तीर्थपतेरस्य माहात्म्यमिह केवली / वेत्ति वक्तुं समर्थो न सोऽपि दृष्टजगत्रयः // प्रत्यहं पुण्डरिकादि ध्यायेद्यस्तु सुवासनः / संसारतापमुन्मूल्य प्राप्नोति परमं पदम् / आसाद्य मानवं जन्म प्राप्य बोधं च सद्गुरोः / न पूजितमिदं तीर्थं येन तस्य वृथाऽखिलम् / / एकोन