________________ सम्प्रतिनृपचरित्रम् भद्रमुनेः परम् ! पतत्प्रकर्षा साधूनां सामाचारी भविष्यति / / अन्येयुः सम्प्रतिभूपः सुहस्तिसूरिसन्निधौ / शत्रुञ्जयस्य माहात्म्यं शुश्रावेति कृतादरम् // तथा हि-" एकैकस्मिन् पदे दत्त शत्रुञ्जयगिरि प्रति / भवकोटिकृतेभ्योऽपि पातकेभ्यः प्रमुच्यते / / 1 // " नन्दीश्वरेषु यत् पुण्यं यात्रायां जायते नणाम् / ततश्च द्विगुणं पुण्यं तीर्थे कुण्डलपर्वते // त्रिगुणं रुचके हस्ति-दन्तेषु च चतुर्गुणम् / एतद्विगुणं जम्धू-चैत्ये यात्रां वितन्वताम् // पोढा तु धातकीखण्डे तच्छाखिजिनपूजनात् / पुष्करोदरबिम्बानां द्वात्रिंशद्गुणसम्मितम् / मेरुचूलाऽहंदर्चायां पुण्यं शतगुणं भवेत् / सहस्र तु समेताद्रो लक्षसङ्खयाजनाद्रितः / / दशलक्षमितं श्रीम-दैवतेऽष्टापदे च तत्। शत्रुञ्जये कोटिगुणं स्वभावात् स्पर्शतो मतम् / / मनोवचनकायानां शुद्धचा पूजयतां नृणाम् / शत्रुञ्जये जिनं पुण्य-मनन्तं भवति ध्रुवम् // श्रुत्वेति सम्प्रतिभूपः प्रेष्य कुङ्कुमपत्रिकाः / सङ्घमाकारयामास सिद्धाद्रिवन्दनाकृते / सम्प्रतिभूपतेरेवं-विधा देवालयादयः / मिलिता रेजिरे सवे नगरस्यान्तिकै क्रमात् / / रैणां शतत्रयं देवा-लयाः काष्ठमयाः पुनः / शतान्यष्टौ तुरङ्गाश्च लक्षा एकोनविंशतिः / / रथाः कोटिनयमिता वाहिन्यो लक्षमेककम् / महिषाः कोटिरेका च प्रौष्ठवाहाश्च भूरिशः // शुभेऽति सम्प्रतिभूप- श्वलन् शत्रुञ्जयं प्रति / वलभीनगरोपान्ते समहं समवासरत् / / नत्वा शत्रुञ्जयं तीर्थं कृत्वा च लपनश्रियम् / लम्भयामास सङ्घस्य मध्ये च स्यन्दनं प्रति // ततः सङ्घश्चलन् शत्रु-अयशैले शिवप्रदे / आरुरोहाऽनमन् मूल-नायकं वृषभं जिनम् // स्नात्रपूजाध्वजादान-मुखं कृत्यमशेषतः। सम्प्रतिमेदिनीपाल-श्चकाराऽनघसङ्घयुग / / प्रासाई पतितं किञ्चिद् भूयिष्ठविभवव्ययात् / उद्दधार महीपालः सम्प्रतिः सिद्धपर्वते / / ततो रैवतके गत्वा नत्वा नेमि जिनेश्वरम् / सम्प्रतिः पूजयामास ससङ्घः कुसुमादिमिः // परिधाप्य गुरून सधं वरवस्त्रप्रदानतः / उत्ततार गिरेस्तस्मात् सम्प्रतिर्मेदिनीपतिः / ततो मार्गे चलँश्चन्द्र-पुरोपान्ते समेत्य च / श्रीसचं जेमयामास वर्याशनप्रदानतः // परिधाप्य गुरून् सङ्घ रुचिरैर्वसनस्तदा / व्यसृजत् सम्प्रतिः स्वस्व+पुरीं प्रति जनान् मुदा / / ततः सम्प्रतिभूपालो महोत्सवपुरस्सरम् / निजपुर्या समागत्य पपाल पृथिवीं नयात् / / एकदा धर्मसूरीश-पार्श्व सम्प्रतिभूपतिः / धर्मं श्रोतुमुपाविष्टो यदा तदा जगौ गुरुः // प्राग्भवाजितपुण्यस्या-नुसारेण शरीरिणः / लभन्ते शर्मसङ्घातं चन्द्रनगमवत् क्रमात् // एकस्य श्रेष्ठिनः पुत्रे जातेऽभूद्वाग नभोङ्गणे / शतकोटीश्वरो ह्येष भविष्यति वणिक्सुतः / / जन्मोत्सवं वरं कृत्वा सूनोश्चन्द्राभिधां व्यधात् / क्रमाद्वभाण शास्त्राणि धर्मकात्मकानि सः / / आपृच्छय जनकं यान-पात्रं भृत्वा क्रयाणकैः / ययौ चन्द्रो मणिद्वीपे शोभने वासरे क्रमात् / / व्यवसायं सदा तस्य कुर्वतस्तत्र सोद्यमम् / सहस्रकोटयो रैणां मिलिताः कर्मयोगतः / / चन्द्रो दध्योवभूद्वाणी या व्योम्नि मम जन्मनि / साऽन्यथाऽजनि भूयिष्ठ-धनोपार्जनतोऽधुना || आपूर्य वाहनं सिन्धु-मार्गे चन्द्रः समाव्रजन् / विभवार्जन सङ्ख्यां तु कीरपार्धात् तदा द्रुतम् // ज्ञापयामास तातोय ततः श्रेष्ठी व्यचिन्तयत् / पुत्रजन्मभवा सा वाग् बभूवैवाधुनाऽन्यथा / / इतोऽकस्माद् द्रुतं भग्ने याने चन्द्रस्सुदारुयुग् / सप्तमेऽह्नि तटे सिन्धो ाकुलः समुपागमत् / / तदा तत्र छगीपालः प्राक्षिपत् प्रस्तरं तथा। यथा छागीमुखेऽकस्मात् प्रस्तरोन्यपतद् दृढम् / / स्थगिते प्रस्तरेणाऽऽस्ये छाग्या छागीपतिर्जगौ / भोः पुमन् ! सहसाऽत्रैहि वर्षय प्रस्तरं मुखात् // चन्द्रो जगावहं नैवोत्थातुं शक्नोमि साम्प्रतम् / तत उत्पाटथ तां छागी तस्यान्ते छगपोsनयत् // एकपाश्र्वे छगी चन्द्रो यदा दधे स्वपाणिना / तदा छागीमुखाच्छागी-पालोऽइमानमपाकरोत् / /