________________ शत्रुअय-कल्पवृत्ती भूपः पप्रच्छ कुशलं तव // सोऽप्याह-"काला कुशल न पुच्छीइ नितु न विलइ विहाणि / जर पहुवई जुव्वण गलइ नित हाणि विहाणि // 1 // " मन्त्री प्राहामुना कालो भवान् चक्रे नरेश्वर ! / राजाऽवक् पृच्छयतामेष स्वेष्टं किं चर्चयाऽनया // ततो नदीसममिति श्लोकस्यार्थोऽथ मन्त्रिणा / पृष्टोऽवक् छगीपालः स्पष्टमेवं तदग्रतः // " मेघसमं न जलं बाहुसमं न बलम् / अन्नसमं न हेजें नयणसमं न तेजं / / श्रुत्वैतत् सम्प्रतिः श्लोकं हेम्नां लक्षमिलापतिः। तस्मै ददौ छगीपाय सन्मानदानपूर्वकम् // निशीथसमयेऽन्येद्यः सम्प्रतिः ध्योतवानिति / अनार्यविषये साधु-विहारं कारयाम्यहम् / / सत्र साधुविहारेण जैनधर्मप्रलब्धितः / लोकानां जायते लाभः स्वर्गादिप्राप्तिलक्षणः // प्रेष्यादौ धम्मिणः श्राद्धा-ननार्यनीवृति स्फुटम् / तत्रस्थान् मनुजान् श्राद्धान् कारयिष्यामि साम्प्रतम् // ततः सुखेन साधुनां विहारो भवति ध्रुवम् / वने वेधं विना नैव गुणो विशति कर्हिचित् // ततः प्रेष्य वरान् श्राद्धान् देशेषु तेषु सम्प्रतिः / तत्रस्थान् मनुजान् श्राद्धा-नचीकरत् विशारदान् / / उक्तश्च-" भूपः प्रेषीदनार्येषु साधुवेषधरान्नरान् / ते सम्प्रत्याज्ञयानार्या-नेवमन्वशिषन् भृशम् // 1 // " द्विचत्वारिंशता दोषैः शुद्धमन्नं विशेषतः / देयं साधुभ्य एवात्रा- गतेभ्य भवता सदा // नमस्काराणि सूत्राणि तेषां पार्वे कृताऽऽदराः। तत्रत्या मनुजाः पेठु-जैनधर्मं व्यधुः पुनः॥ ततो भूपाग्रहोद्वाचं-यमान् कतिपयान् परान् / अनार्यविषयेष्वेव प्रेषयामास सूरिराट् // अनार्या अपि मनुजाः प्रेक्ष्य साधून् समागतान् / निर्दोष भक्तपानादि ददुस्तेभ्यः कृतादराः // ततः सम्प्रतिभूपेन स्वशक्त्या बुद्धिगर्भया / देशाः साधु विहाराही अनार्या अपि चक्रिरे // प्रागजन्म स्मरता राज्ञा बहुग्रामपुरादिषु / सत्रागाराणि कार्यन्ते दुःस्थादिसुखहेतवे // तेषु सत्रेषु सततं प्रचुरं भक्तपानकम् / भोजनं लेभिरे लोको जघन्यमध्यमोत्तमाः / / अन्नमुद्धरितं शुद्धं भक्तेषु मनुजेष्वथ / सम्प्रतिर्दापयामास सुहस्तिसूरिसाधवे // ज्ञात्वा निर्दोषमाहारं सुहस्तिसूरिसाधवः। भुञ्जाना मेनिरे स्वीयं शुद्धं चारित्रमन्वहम् / / सत्रागारेषु गृह्णाना-नन्नं सुहस्तिसंयतान् / महागिरिगुरुः प्राह सूरिसुहस्तिनं प्रति // अनेषणीयं राजान्नं किमादत्से विदन्नपि ? / सुहस्त्युवाच भगवन् ! शुद्धमन्नमिदं खलु / / राजाऽनुवर्त्तनपराः पौराः साधुभ्य आदरात् / निर्दोषं ददते ह्यन्नं का तत्र परिदेवना / / ततोऽतिकुपितः सूरि-महागिरिर्जगावदः / सिद्धान्तार्थमपि न हि वेत्सि सुहस्तिसूरिराट् / / यतः " आहाकम्मुदिसिय पूइकम्मे अ मीसजाए अ। इत्यादि; उद्दिसियमोहविभागओ अ ओहे सए जमारंभे भिक्खाओ कइ वि कप्पइ जो एही तस्स दाणट्ठा / बारसविहंमि विभागे च उद्दिट्ठ कडं च कम्मं च / उद्देससमुदेसादेस-समाएसभेएणं // 1 // जावंतिअमुद्देसं पासंडीणं भवे समुद्दे सं / समणाणं आदेसं निग्गंथाणं समाएसं // 2 // " इत्यादि दोषसंयुक्त-माहारं जिननायकैः / निषिद्धं गृह्यते कस्माद् भवद्भिर्हितमिच्छुभिः 1 / / एवंविधे निषिद्धे-प्याहारे दोषदूषिते / यूयं गृहणीथ चेदन्नं राजकीयं हि सूरयः! // ततो नैवात्मनोरेक-स्थानके स्थितिरेकशः / भविष्यति सुहस्त्यार्य ! भूयिष्ठदोषसम्भवात् / / अतः परं विभिन्नोऽस्तु स्थितिरेवावयोः खलु / त्वमङ्गीकुरुषे भक्त-मशुद्धं जिनवर्जितम् / / महागिरिगुरोर्वाणीं श्रुत्वा सुहस्तिसूरिराट् / दध्यौ मया जिनेन्द्राज्ञा लुप्ता निषिद्धलानतः / उत्यायाऽथ सुहस्त्यार्यो लगित्वा गुरुपादयोः / क्षमयामास कृत्यं स्वं निन्दन् पापं स्वयं कृतम् // उक्तञ्च-“सापराधोऽस्मि भगवन् ! मिथ्यादुःकृतमस्तु ते / क्षम्यतामपराधोऽयं करिष्ये नेदृशं पुनः // 1 // " ततो महागिरिः माह दोषो नास्ति तवाधुना / पुरा भगवता वीर-खामिनैतन्निवेदितम् / / मदीयशिष्यसन्ताने स्थूल.