________________ सम्प्रतिनृपचरित्रम् त्रिखण्डभरतक्षेत्रं जिनप्रासोदमण्डितम् // सम्मेतशिखरे तीर्थे प्रतिवर्ष सुभावतः / यात्रां कुर्वन् निजं जन्म सफलीचकृवान्नृपः / यतः-" दानेन भोगाः सुलभा नराणां, दानेन वैराण्यपि यान्तिनाशम् / दानेन भूतानि वशीभवन्ति, तस्माद्धि दानं सततं प्रदेयम् // 1 // जीवति स जीवलोके यस्य गृहोद्यान्ति नोऽर्थिनो विमुखाः / भृतकवदितरजनोऽसौ दिवसान् पूरयति कालस्य // 2 // " सुहस्तिसूरिपादाब्जं गत्वा दूरेऽपि सम्प्रतिः / वन्दते स्माऽऽदराद्धर्मं शुश्राव च शिवश्रियै / / भूत्वा सङ्घपतिर्भूपोऽवन्त्ययोध्यादिषु क्रमात् / यात्रां कुर्वन् करोति स्म रथयात्रां सविस्तरात् // उक्तञ्च-"सुहस्त्याचार्यपादाना-मवन्त्यामेव तस्थुषाम् / चैत्ययात्रोत्सवश्चक्रे सधेनाऽन्यत्र वत्सरे // 1 // " मण्डपं चैत्ययात्रायां सुहस्तिसूरिपुङ्गवः / एत्य नित्यमलञ्चक्रे श्रीसङ्घन समन्वितः // चैत्योत्सव दिनप्रान्ते रथयात्रा कृता जनैः / यात्रोत्सवो हि भवति सम्पूणों रथयात्रया // रथोऽथ रथशालाया दिवाकररथोपमः / निर्ययौ वर्णमाणिक्य-द्युतिद्योतितदिङ्मुखः // श्रीमदर्हत्प्रतिमाया रथस्थाया महर्द्धिभिः / विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे / / क्रियमाणेऽर्हतः स्नाने स्नात्राम्भो न्यपतद्रथात् / जन्मकल्याणके पूर्वं सुमेरुशिखरादिव // श्राद्धैः सुगन्धिभिर्द्रव्यैः प्रतिमाया विलेपनम् / स्वामिविज्ञीप्सुभिरिवा-कारि वक्त्राहितांशुकैः / / मालती-शतपत्रादि-दामभिः प्रतिमाहतः। प्रजिताउभात कलेवेन्दो-वता शारदवारिदैः // दह्यमानागर स्थाभि-धूमलेखाभिरावृता / अशुभत् प्रतिमा नील-वासोभिरिव पूजिता // आरात्रिकं जिनार्चायाः कृतं श्राद्धै लच्छिखम् / दीप्यमानौषधीचक्र-शैलशृङ्गविडम्बकम् // वन्दित्वा श्रीमदहन्तमथ तैः परमार्हतैः / रध्यैरिवाग्रतोभूय स्वयमाचकृषे रथः // नागरीभिरुपक्रान्तः सह लासकरासकैः / चतुर्विधाऽतोद्यवाद-सुन्दरप्रेक्षणीयकः / / परितः श्राविकालोक-गीयमानोरुमङ्गलः / प्रतीच्छन् विविधां पूजां प्रत्यर्ल्ड प्रतिमन्दिरम् / / बहलैः कुङ्कमाम्भोभि-रभिषिक्ताग्रभूतलः / सम्प्रतेः सदनद्वार-माससाद शनै रथः॥ राजाऽपि सम्प्रतिरथ रथपूजार्थमुद्यतः / स्वं जनुः सफलीचक्रे चर्चयंश्चन्दनैर्जिनम् / / तदानीमेव सामन्ता-नाहूय निखिलानपि / सम्यक्त्वं ग्राहयित्वैव-मादिदेश विशांपतिः // मन्यध्वमयि ! सामन्ताः ! सम्यग् मां स्वामिनं यथा। तथा यूयं सुविहित-श्रमणानपि भावतः / एवमाज्ञाप्य सामन्ता विसृष्टाः स्वस्वनीवृति / गत्वा चक्रुः प्रभोर्भक्त्या श्रमणानामुपासनाम् / / प्रावर्तयन् यथा भूपो रथयात्रां जिनेशितुः / तथा सर्वेऽपि सामन्ता रथयात्रां व्यधुस्तमाम् / / प्रवर्तयन् रथयात्रां तत्रानुगमनं तथा / रथाग्रे पुष्पवृष्टिं च चैत्यपूजां च ते व्यधुः / / ततो भूपः सदा धर्म-कथाभिर्वर्यमानसः / कालं गमयति मन्त्रि-सोमन्तादिकसंयुतः // सम्प्रतिक्षितिपोऽन्येा-रश्वेनापहृतो बने / मन्त्रियुक्तो ययौ दूरे तृषा लग्ना द्वयोभृशम् / / मन्त्री विलोकयन् वारि ददशैंकं छगीपकम् / पप्रच्छ जलं कास्ति सोऽवग् नद्यां च विद्यते // ततः सम्प्रतिरुवीशो मन्त्रियुग छगीपान्वितः / नद्यां गत्वा पपौ वारि गता तृषा तयोस्तदा / वोरिपूर्णा नदी मन्त्री दर्श दर्श समाहितः / भूपतेः पुरतः प्राह छगीपे शृण्वति स्फुटम् / / " नदीसमं न जलं बन्धवसमं न बलं / नारीसमं न हेजं सूर्यसमं न तेजम् // 1 // " श्रुत्वेति छगीपः प्राह कूटं किं जलप्यते त्वया ? / मन्त्र्यवक् कुरुते ह्येष गर्व स्वात्मनि साम्प्रतम् / / ततो नृपो जगावर्थः श्लोकस्य पृच्छयतेऽधुना। ततो मन्त्रीश्वरः प्राह प्रकटं नृपति प्रति // " जाङ्गली जाट न बोलावीइं चवटा माहिं किराट् / // " ततो मन्त्रियुतो भूपः समेत्य स्वीयसद्मनि / नदीसमेति गाथार्थ-पृच्छाये तमाकारयत् // छगीपालो महीपाला-कारितोऽभ्येय तत्क्षणात् / यावत् स्थितस्सदा