________________ शत्रुञ्जय-कल्पवृत्ती क्षुधापीडितः 1 // 1 // " ततस्ते साधवः प्रोचू-र्जानन्ति गुरवः खलु / वयं गुरुवशा एव न किश्चिदातुमिष्यते // ततस्तैर्यतिमिः सार्द्ध स रको भक्तयाचकः ( मार्गकः ) / गुरुपार्वे ययौ धर्म-स्थानक मुदिताशयः॥ वन्दित्वा स गुरुं रको दीनवाग् याचतेऽदनम् / गुरुः प्राह प्रदीयेत भक्तं साधुभ्य एव तु॥ असंयतजने दानं दत्तं साधुवरैरहो ! / विश्राणयति. दुःखानि दुर्गत्यादिभवानि हि // रङ्कोऽवक तर्हि मां साधं कुरुध्वं गुरुसत्तमाः!। ततो ज्ञानाद् गुरूत्तंसो जज्ञाविति तदा हृदि // अयं प्रवचनाधारो रङ्क एव भविष्यति / यतो विनयवान् मत्वा रङ्क एष विलोक्यते // यतः-" विणओ सासणे मूलं विणीआ संजओ भवे / विणयाउ विप्पमुक्कस्स कओ धम्मो को तवो ? // 1 // विणए सिस्सपरिक्खा सुहडपरिक्खा य होइ संग्गामे / वसणे मित्तपरिक्खा दाणपरिक्खा य दुक्काले // 2 // " केनाञ्जितानि नयनानि मृगाङ्गनाना, को वा करोति रुचिराङ्गरुहान् मयूरोन् / कश्चोत्पलेषु दलसञ्चयमातनोति, को वा करोति विनयं कुलजेषु पुंस्सु // 1 // " ततो योग्यं तकं रकं मत्वाऽस्माभिस्तदाऽचिरात् / दीक्षा विश्राणिता तस्मै संसाराब्धितरीनिभा // वर्याहारवितरणात् सन्मानदानपूर्वकम् / श्राविकावसतो प्रेषि साध्वीवन्दापनाकृते // वृद्धाभिर्भिक्षुणीमिः सदिभ्याभिश्च सादरम् / वन्दितः स यती रङ्कः सदालापनपूर्वकम् // यतः-"अणुगम्मए भगवई रायसअज्जा सहस्सविदेहि। तहवि न करेइ माणं परियच्छइतं तहा नूणं / / 1 // दिणदिक्खयस्स दमगरस अभिमुहा अजचदंणा अज्जा / नेच्छइ आसणगहणं सो विणओ सव्वअज्जाणं / / 2 // " यदा स वन्दितः साधू रङ्कः साध्वीमिरादरात् / तदा दध्यावयं जैन-धम्मों वर्यतमो ननु // अहो ! मे विद्यते भाग्यं यदयं च गुरूत्तमः / मामेव दीक्षयामास रङ्कमीक्षमादरात्।। यतः- " विना गुरुभ्यो गुणनीरधिभ्यो, जानाति धर्मं न विचक्षणोऽपि / विना प्रदीपं शुभलोचनोऽपि, निरीक्षते कुत्र पदार्थसार्थम् ? // 1 // अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः // 2 // अवद्यमुक्त पथि यः प्रवर्तते, प्रवर्त्तयत्यन्यजनं च निस्पृहः / स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् // 2 // " तस्यामेव निशीथिन्यां रङ्कस्याभूद् विसू. चिका / तत्पश्चाद्भवन्नासा-गतश्वासानिलो भृशम् // वरमद्य मया दीक्षा गृहीता भाग्ययोगतः / यया स्याद् भवपाथोधे-रुत्तारो देहिनां खलु / / एवं स चिन्तयन् मृत्वा कुणालस्य महीपतेः / भवान् सम्प्रतिनोमोऽभू-नन्दनोऽनघविक्रमः / ततः सम्प्रतिराचष्ट तर्हि पूर्वभवे गुरुः / भवानासीदतोऽस्मिश्च भवे भव गुरुर्वरः / / मया न साम्प्रतं दीक्षा गृहीतुं शक्यते गुरो ! / पूर्वे भवे गृहीता सा तस्या ईदृग् फलं स्फुटम् / / अधुमा संयमो लातुं न शक्नोमि गुरूत्तम!। अतो मे कथ्यतां श्राद्ध-धर्मः शिवसुखप्रदः / / ततः सुहस्तिसूरीशाः श्राद्धधर्मं सुविस्तरात् / सम्यक्त्वमूलमुर्वीश-पुरः प्रोचुः शिवप्रदम् / / अत्र श्राद्धथर्मसाधुधर्मयोः सुभाषितादि कथा वक्तव्या // श्रुत्वा धर्म गुरोः पार्वे सम्प्रतिभूपतिर्मुदा / जग्राह धर्ममाहतं शिवसौख्यततिप्रदम् // यतः- " निर्दन्तः करटी हयो गत. जवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरो गतजलं छायाविहीनस्तरुः / रूपं निर्लवणं सुतो गत. गुणश्चारित्रहीनो यति-निर्द्रव्यं भवनं न राजति तथा धर्म विना मानवः / / त्रिःसन्ध्यं पूजयन् सार्वान् सन्ध्ययोरुभयोः पुनः / प्रतिक्रान्ति करन् शश्वद् गुरुपादौ निसेवते / / वर्ष प्रति चतुर्वारान् साधम्मिकान् सुधर्मिणः / लक्षद्वयत्रयमितान् जेमयामास सम्प्रतिः // सङ्घार्चा पञ्चषाः कुर्वन् गुरून् श्राद्धाँश्च भक्तितः / परिधापयति सद्यो वस्त्रादिदानतो नृपः // आवेताढ्यं जिनागारैः स चंकाराऽविकारधीः /