________________ सम्प्रतिनृपचरित्रम् लक्षणैर्लक्षितो मम / / तस्मै मन्मथरूपाय मदीयसूनवेऽधुना। प्रसज्य दीयतां राज्य-मशोकश्रियि तद् द्रुतम् / / कुणालमन्दनं तत्रा-नीय तुष्टो महीपतिः / राज्यं दत्त्वा ददौ नाम भूपोऽयं सम्प्रतिः खलु // अशोकश्रीनृपो जैन-धर्म कुर्वन् समाहितः / स्वर्गलोकसुखं प्राप कुणालोऽपि क्रमात् पुनः // वर्द्धमानः क्रमाद् भूपः सम्प्रतिधर्मतत्परः। जनतां पालयामास न्यायमार्गेण रामवत् / / क्रमेण साधयामास भरतार्द्धं स दक्षिणम् / प्रचण्डशासनश्चाभू-द्वासवोपमविक्रमः // अन्यदा सम्प्रतिक्ष्माप उज्जयिन्यां निजालये / गवाक्षस्थः पुरीशोभां व्यलोकत दिशोदिशम् // तदा तत्र पुरे सूरी महागिरि-सुहस्तिनौ / जीवन्तस्वामिप्रतिमां वन्दितुं तौ समीयितुः // उत्सवे क्रियमाणेऽथ जीवन्तस्वामिनो रथः / निर्ययौ रथयात्रायै सेव्यमानो जनैनः // महागिरि-सुहस्तिभ्यां सङ्घन निखिलेन च / स रथोऽन्वीयमानश्च पुरीमध्येऽमितोऽभ्रमत् / रथे राजकुलद्वारा-गते वातायनस्थितः / ददर्श सम्प्रतिभूपः सूरिसुहस्तिनं तदा // दध्यौ चायं मुनीशो हि दृष्टः कापि मया पुरा / ऊहापोहं करन्नेवं मूर्च्छयो न्यपतन्नृपः॥ सरसैश्चन्दनैः सिच्य-मानो व्यजनवीजितः / जातिस्मरणमासाद्यो-दस्थादवनिनायकः // पूर्वजन्मगुरुं ज्ञात्वा जोतिस्मृत्या सुहस्तिनम् / गवाक्षात् सद्य उत्तीर्याऽ-नमद् भूपो गुरुक्रमौ // वन्दित्वा विधिना सूरि पप्रच्छ सम्प्रतिर्नृपः / कुर्वतो जिनधर्मस्य पुंसो भवति किं फलम् ? // सुहस्ती सूरिराट प्राह स्वर्गो मुक्तिः क्रमात् फलम् / पप्रच्छ सम्प्रतिभूपः सामायिकस्य किं फलम् ? // सूरिः प्रोवोच सामायि-कस्थाऽव्यक्तस्य भूपते ! / राज्यादिकं फलं प्रोक्तं जिनैर्गणधरैरपि / / यतः-" सामाइयं कुणंतो समभावं सावओ घडीयदुगं / आउं सुरेसु बंधइ इत्तियमेत्ताई पलियाई // 1 // बाणवई कोडीओ लक्खा गुणसट्ठि सहस पणवीसा। नव सय पणवीसजुआ सतिहा अडभाग पलियस्स // 2 // एकस्य सामायिकस्य पुण्यसङ्खथा-पल्योपमानि 92592592534 पल्यस्याष्टभागस्य त्रिभागाः साधिकाः॥ सत्तहत्तरि सत्तसयो सतहत्तरि सहस लक्ख कोडीओ। सगवीसं कोडीसया नव भागा सत्तपलियस्स / एकस्य पौषधस्य पुण्यसङ्खथा-पल्योपमानि 27,77,77,77,7,774 / 27 शतकोटि 77 कोटि 77 लक्ष 77 सहस्र 7 शत 77 नव भागाः पल्योपमसप्तभागाः / / एकदिन दीक्षाफलम्-एगदिवसेण जीवो पवज्जमुवागओ अनन्नमणो / जइ नवि पावइ मुक्खं अवस्स वेमाणिओ होइ // " गृहीतसंयमस्यैव ध्यानस्येह विशेषतः / स्वर्गापवर्गसौख्यानि जायन्ते नात्र संशयः // श्रुत्वैतच्छ्रीगुरोरास्यात् प्रणम्य सम्प्रतिर्जगौ / सामायिकफलं सत्यं गदितं गुरुणाऽधुना / / मया किं सुकृतं चक्रे भवे पूर्वे गुरूत्तम ! / येनेह राज्यमीदृक्षं प्राप्तं (च) तन्निगद्यताम् // कृत्वोपयोगमाचष्ट सूरि-भूमिपति प्रति / कौशाम्बी नगरी स्वर्ग-पुरीतुल्या विराजते // तत्राजनिष्ट दुष्कालो रौरवो जनदुःखदः / श्रियापि दुर्लभं धान्यं प्राप्यते मनुजैन हि (पुनः) / तत्रान्यदा क्षितौ कुर्वन् विहारं भूरिसाधुयुग / सुहस्तिसूरिराड् भव्या-नैयुर्बोधयितुं स्फुटम् // तथाविधे च दुर्भिक्षे पतितेऽस्मासु भक्तिमान् / लोको भक्तादिकं दातु-मुपोक्रस्त विशेषतः / / भिक्षायै यतयोऽन्येद्यु-रेकस्य श्रेष्ठिनो गृहे / यावद् गतास्तदा तेषां पृष्ठौ रङ्कोऽलगत् खलु / / ननेति कुर्वतां तेषां साधूनां श्रावकस्तदा / बह्वीं भिक्षां विशुद्धां तु प्रददौ भक्तिपूर्वकम् // ततस्ते साधव आत्त-भक्ताः श्राग् वलिताः पथि / दृष्ट्वा स याचते रङ्को वदन् दिनं वचोऽदनम् // यतः- " मानं मुञ्चति गौरवं परिहरत्यायाति दीनात्मतां, लज्जामुत्सृजति श्रयत्यकरुणं नीचत्वमालम्बते / भोर्याबन्धु सुहृत्सुतेष्वपकृतीर्नानाविधा चेष्टते किं किं यन्न करोति निन्दितमपि प्राणी