________________ शत्रुञ्जय-कल्पवृत्ती द्विन्दु-सारेण मेदिनीभुजा / अशोकश्रीः सुतोऽस्थापि स्वपट्टे स्वर्गमियता // अशोकश्रीमहीपस्य पृथ्वी पालयतः सतः / कुमारोऽभूत् कुणोलाह्वो विनयी मन्मथोपमः।। ज्ञात्वा भक्तं कुणालं तु भू भुगुज्जयिनी पुरीम् / ददौ स्थित्यै मुदा तस्मै कुणालाय नयात्मने / सदैव सोऽष्टवर्षीयः प्रजारञ्जितमानसः / पितुर्वचोऽनुसारेण यात्युत्तिष्ठति तिष्ठति / / यतः-" विनयं राज्यपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् / अलीक हातकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् / विद्याग्रहणयोग्यं तं ज्ञात्वा राजा प्रमोदभाग / कुणालायाऽलिखल्लेखं शास्त्रपाठकृतेऽन्यदा / / अधीयतां कुणालस्तु प्राकृतं सुखहेतवे / सपत्नीजननी तत्र स्थित्वा दध्याविदं हृदि / / कुणालो मे सपत्नीजो म्रियते यदि सम्प्रति / तदा सूनोर्ममैव स्यात् क्रमाद्राज्यरमा पितुः / / ततो लात्वा रहो लेखं नेत्राञ्जनशलाकया / अकारे बिन्दुकं राज्ञी ददावन्धीयतामिति / / सं लेखं मुद्रितं तात-प्रेषितं प्राप्य तत्क्षणात् / कुणालो वाचयामास लेखकोपान्ततस्तदा / तूष्णीको लेखको भूत्वा यावत्तस्थावधोमुखः / तावत् प्रोह कुणालस्तु लेखे किं लिखितं वद ? // अन्धीयतां कुणालोऽयं लेखेऽस्ति लिखितं त्विदम् / श्रुत्वेति लेखकस्याऽऽस्यात् कुणालो ध्यातवानिति / / तातेन वाञ्छता नूनं हितं मयि तनूभवे / लेखः प्रासादितो ह्येष मान्योऽयं मयका ततः / / मातृपितृगुरूणां तु पालयन्ति यके जनाः / तेषामत्र परत्रापि जायते सुखसन्ततिः / / मौर्यभूपान्वये कोऽपि पित्राज्ञालङ्घको न हि / यदि लोपाम्यहमाज्ञां पितुरत्र स्थितोऽग्रतः / / तदा मत्कृत एवाध्वा-न्येषामपि भविष्यति / अतो मया प्रपाल्याज्ञा पितुरेवाऽसुखे सुखे // पित्राज्ञाभञ्जनभयात् कुणालो लोचने निजे / कर्षयामास सहसा तदा तीक्ष्णशलाकया / / अन्धीभूतं सुतं लेखाद् ज्ञात्वा भूपोऽपि दुःखितः / दध्यौ मया न लेखेन तं ज्ञापितं सूनवे त्विदम् / / अधीयतामिति स्थानेऽलेखि ह्यन्धीयतां मया / अतोऽस्थान्यत्वहेतोहि जातोऽहं पापमान् किल / / राज्ययोग्यो ह्ययं सू नु-र्यादृशो विद्यते स्फुटम् / ताहग न नन्दनोऽन्योऽस्ति क्रियतेऽतो मया किमु // विधिना विहिते वर्ये पदार्थ हि कलङ्किता। यतोऽको विहितश्चन्द्रे धात्राऽब्धौ क्षारता पुनः // यतः"शशिनि खलु कलङ्कं कण्टकाः पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् / स्वजनजनवियोगो दुर्भगत्वं सुरूपे, धनपतिकृपणत्वं रत्नदोषी कृतान्तः / / 1 // " यया राज्या छलाद-धः कुणालो विहितस्तदा / तस्याः पुत्राय भूपोऽदा-दवन्ती कपटाद्यविद् / / कुणालाय तु पुत्राया-ऽऽजीविकाहेतवे पुनः। भूपो ददौ वरं ग्राम-मेकं चन्द्रपुराभिधम् // कुणालस्याऽवतो ग्रामं शरश्रीनृहिनी वरा / असूत नन्दनं वर्ये लग्ने सल्लक्षणान्वितम् // सूनोर्जन्मोत्सवं कृत्वा कुणालो ध्यातवान् हृदि / तुष्टो भवति चेद्राज्ञा मयि मन्नन्दनेऽपि च // तदा महीपतिस्तुष्टो मयाऽमुष्मै हि सूनवे / राज्यं ददाति सत्कर्मो-दयात् शोभनवासरे // मत्वेति पाटलीपुत्र-पत्तनेऽभ्येत्य तत्क्षणात् / पट यन्तरे महीशाग्रे कुणालो गायति स्फुटम् / / तदा महीपतिं गीत-मन्द्रमध्यादिसुन्दरैः / कुणालो रञ्जयामास यथा तुष्टो जगावदः / / भोगाय न कलागारः त्वं याचस्व यथेप्सितम् / तुष्टो भूपो यतो नृणां दारिद्र्य द्यति निश्चितम् / ततः कुणाल आचष्ट यदि तुष्टोऽ. सि भूपते ! / तदा त्वया प्रदातव्यं मदुक्तं मम सूनवे / / ततो राजा जगौ यत्ते सुतो मार्गयति ध्रुवम् / तद्ददामि ततः प्राह कुणालोऽवग् नृपाग्रतः / / प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य नप्तृकः / अशोकश्रीसुतोह्येप याचते भूप ! काकिणीम् / / राजाऽऽचष्ट कुमारेह काकिणी याचिता कथम् / मन्त्री प्रोवाच काकिण्या रवेण राज्यमुच्यते // क्रमान्मत्वा कुणालं तु पुत्रं गायन्तमद्भुतम् / राजाऽवग याचसे राज्यमन्धस्त्वं सुत ! साम्मतम् / / कुणालः प्रोक्तवाँस्तात ! प्रसादात्तव साम्प्रतम् / जातोऽस्ति नन्दनो वर्य