________________ सम्प्रत्यादीनामुद्धाराः 63 भूपतिः / समाधिमरणादाप स्वर्गलोकसुखं ननु // तत्पट्टे बिन्दुसारं तु न्यस्य चाणिक्यमन्त्रिराट् / राज्य प्रवर्द्धयामास बिन्दुसारस्य नित्यशः / / प्रायो राज्यं महीशानां मन्त्रिबुद्धिप्रपञ्चतः / वर्द्धते सितपक्षेन्दु-रिव लक्ष्म्यादिभिः सदा // यतः-" चित्तज्ञः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः / यथोक्तवादी स्मृतिमान् मन्त्रीशः शस्यते सदा // 1 // " इङ्गिताकारतत्त्वज्ञः प्रियवाक् प्रियदर्शनः / सकृदुक्तग्रही दक्षः सचिवः शस्यते नृपैः // बिन्दुसारोऽपि भूपालः साधयन् पृथिवीतलम् / वशीचकार भूयिष्ठ-प्रत्यर्थिपृथिवीपतीन् / इतश्चाणिक्यवचनात् सुबन्धुः सचिवो वरः / दाक्षिण्याद् योऽभवत्तस्य भूपस्य चणिभूसखा / क्रमात् सुबन्धुराप्तश्री-श्वाणिक्य-बिन्दुसारयोः। विभिन्नं मानसं चक्रे यतोऽसारं जगत् समम् / / यतः- “विशिष्टकुलजातोऽपि यः खलः खल एव सः / चन्दनादपि सम्भूतो दहत्येव हुताशनः // 1 // " सद्भिः संसिच्यमानोऽपि शान्तिवाक्यैजलैरिव / प्लुष्टपाषाणवद्दष्टः स्वभावं नैव मुञ्चते / / [ इतश्चाणिक्यभृत्यस्तु चाणक्याने जगाविति / सुबन्धुस्ते सखा हन्तुं त्वामेव वाञ्छति ध्रुवम् / / विश्वासघातकस्यास्य मा चाणिक्य ! त्वं विश्वसीः ] / एप त्वन्मातुरुदरं दुरात्मा खल्वदारयत् / / ततश्चुकोप चाणिक्ये बिन्दुसारो महीपतिः। कुपितं भूपति मत्वा सचिन्तश्चणिभूरभूत् / / सुबन्धुना कृतघ्नेन मध्ये मम महीपतेः / विभेदो याचितो नूनं यतः स्यादःखदः खलु / अयं हि प्रागमात्यत्वे कारितोऽभून्मया ननु / तन्मे प्रत्यपकाराय युक्तमस्य कुलोचितम् / / अतो मम सृतं राज्य-चिन्तया श्वभ्रदा यका। परलोकमहं साध-यिष्यामि सुखहेतवे / / तथाऽहं करवै ह्येष सुबन्धुम्रियते यथो / अथवा निर्ग्रन्थतां लाति दध्यावेवं चणिप्रसूः / / विमृश्येति लसद्गन्धै-लिखिताऽक्षरपूर्वकम् / समुद्गकं स्वयं बद्भवा गुणैः सूक्ष्मैः स मन्त्रिराट् / / समुद्गं जतुना लिप्य पेटायां स सुधीय॑धात् / तालयामास तां पेटां तालकानां शतेन वा // न्यस्य मध्येगृहं दत्त्वा दानं दीनेभ्य आदरात। सप्तक्षेत्र्यां धनं दत्त्वाऽनशनं लातवान् स च / / यतः-"कारणोत् प्रियतामेति द्वेष्यो भवति कारणात् / स्वार्थार्थी जीवलोकोऽयं न कश्चित् कम्पचित् प्रियः / / 1 / / " " तावच्चिय सयलजणो नेहं दरिसइ जाव नियकज्ज / निअकज्जे संवित्त विरला नेहं पवटुंति // 1 // " कस्यचित पार्वतो मत्वा प्राप्तानशनमन्त्रिणम् / तत्र गत्वा नृपो मन्त्रि-मुख्यं क्षमितवान्मुदो // त्वया यदुपकारो मे कृतो राज्यप्रदानतः / मया मूढधिया सोऽपी-दानी विस्मारितो हहा ! // त्वयि पुण्य वति प्रौढे सर्वोपकारकारके / अपराधः कृतो यस्तु मया मूढधिया ध्रुवम् / / तेन श्वभ्रगतिभूरि-दुःखसन्ततिदायिनी। भविष्यति ममेदानी-मधमस्य न संशयः।। सुबन्धुरपि भूपोक्तो गत्वा चाणिक्यमन्त्रिणम् / क्षमयामास चान्येऽपि क्षमयामासुरादरात् // स्मरन् पञ्चनमस्कारं चाणिक्योऽनशनग्रहात / जगाम त्रिदिवं सर्वा-युषोऽन्ते बुधमृत्युतः // बिन्दुसारोऽन्यदा सार्द्धं सुबन्धुमन्त्रिणा खलु / चाणिक्यसदने यातः सारवस्तुजिधृक्षया / / भूपादिष्टसुवन्धुस्तु गत्वा मध्ये गृहे लघु / भित्त्वा समुद्कं गन्ध-माघ्राय मुदितोऽभवत् / / तत्रस्थान्यक्षराण्येव सुबन्धुः समवाचयत् / आदौ लोस्यति यो गन्धं स मुनिश्च भविप्यति / / नो चेत् सद्यो मृति याता गन्धस्यास्य प्रभावतः / ततः सुबन्धुरत्यन्तं सचिन्तोऽजनि चेतसि // ततो मृत्युभयात्त्यक्त्वा व्यापार निखिलं स्वयम् / सुबन्धुः संयम लात्वा विजहाराऽवनीतले // यतः"पंथसमा नत्थि जरा खुहासमा वेअणा नत्थि / मरणसमं नथिभयं दारिद्दसमो वइरिओ नत्थि // 1 // " क्रमेण बिन्दुसारस्य राज्यं पालयतो नयात् / अशोकश्रीरभूत् सूनू रूपश्रीजितमन्मथः // वर्द्धमानः क्रमा