________________ शत्रुञ्जय-कल्पवृत्ती पूजा, न्यायेन कोशस्य सदा प्रवृद्धिः / अपक्षपातो रिपुराष्ट्रचिन्तो, पञ्चैव यज्ञाः कथिता नृपाणाम् // 1 // " क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते / अनुकूलः शुचिर्दक्षः स्वामिन् ! भृत्योऽपि दुर्लभः // भुञ्जानस्य महीशस्य चूर्णं सूक्ष्मं गृहान्तरे / चाणिक्यः क्षिप्तवान् छन्नं चौरकर्षणहेतवे // भुक्तोत्थितस्य भूपस्य पदानि नरयोर्द्वयोः। भूमिलग्नानि वीक्ष्याभू-च्चाणिक्यः कर्षितुं तयोः / / अर्द्धभुक्तस्य भूपस्य तस्मिन् गेहे चणिप्रसूः। अकारयद् दृढं धूम-मुत्कटं नेत्रदुःखदम् / तयोस्तथा तदाऽक्षीणि गलितानि च धूमतः / अञ्जनं गलितं सर्व प्रादुरास्तां च विग्रहौ / / गच्छन्तौ क्षुल्लको दृष्टौ चाणिक्येन च भूभुजा। ततोऽभ्येत्य तदोड्डाह-भीत्या प्रोक्तं गुरोः पुरः॥ क्षुल्लाविमौ किमीदृश-मकार्यं कुरुतामिति / गुरवो हक्कयन्ति स्म क्षुल्लौ कर्कशभाषणात् / / साधूनां युज्यते ह्ये नै)वं स्तन्यं कर्तुं कदाचन ? / अकार्यकरणात् श्वभ्र-पातो भवति देहिनाम् / ततश्चणिप्रसूभूपा-वाकार्य गुरुणोदितम् / भिक्षामिमौ न लभेता-मभूतां दुखिनौ ततः / / यतः- " पञ्च नश्यन्ति पद्माक्षि ! क्षुधातस्य न संशयः। तेजो लज्जा मतिर्ज्ञानं मदनश्चापि पञ्चमः / / 1 / / " किमकारि न कार्पण्यं कस्यालछि न देहलीः ? / अस्य दग्धोदरस्यार्थे किमनाटि न नाटिकाम् ? / / युवाभ्यां दीयते नान्नं सत्यन्ने प्रचुरेऽप्यहो। ततश्चेमौ मृति सद्यो गमिष्यतस्तमां द्रुतम् / / येन न दीयते दानं सत्यपि प्रचुरे धने / स एव शोचते प्रान्त-काले मुञ्चन् श्रियं निजाम् / / यतः-" केशाय विस्तराः सर्वे सक्षेपास्तु सुखावहाः / परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः // 1 // " अनन्तैः पार्थिवैर्भुक्ता कालेनोर्वी धनानि च / मेलितानि परं त्यक्त्वा गतास्ते स्वकृतैः समम् / / गोशतादपि गोक्षीरं मानं मूशतादपि / मन्दिरे मञ्चकः स्थानं शेषाः परपरिग्रहाः // ततश्चणिप्रसूभूपौ क्षमित्वा श्रीगुरुक्रमौ / प्रोचतुर्गृह्यतां शुद्ध-मन्नमाभ्यां मदालये // चाणिक्यः प्रोक्तवान् राजन् ! भवान् भाग्ययुतोऽभवत् / क्षुल्लाभ्यां यत आभ्यां तु निष्पापस्त्वं कृतोऽदनात् / / ततः प्रभृति चाणिक्य-भूपौ भक्तिपुरस्सरम् / प्रतिलाभ्य गुरून शुद्धा -हार, जिमतः स्म तौ // यतः- " पढमं जइण दाऊणं अपणा पणमीऊण पारेइ / असई अ सुविहियाणं भुंजेइ अ कयदिसालोओ // 1 // वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताइं / जइवि न पज्जत्तधणो थोवोउ वि थोवयं देइ / / 12 // " चाणिक्यस्य धियाऽनेके दुःशका अपि वैरिणः / भूभुजा ग्राहिताः स्वाज्ञा त्याजिताः केऽपि देशतः / / प्रायो विषप्रदानेन मृत्युं गच्छन्ति भूधवाः / अतश्चेत् क्रियते श्वेड-सहितं स्यात्तदा वरम् // मध्यभक्तं ततः स्तोकं स्तोकं श्वेडं चणिप्रसूः / दत्ते तत्र रहः क्षोणी-पतेर्जानाति नो यथा / / अर्द्धटंकमितं श्वेडं भक्षयन् भूपतिः सदा / रोगरिक्तो भृशं जज्ञे वर्यदेहच्छविः पुनः / / अन्येशुविस्तरात् सङ्घपति-भूय नरेश्वरः / शत्रुजयादितीर्थेषु यात्रां चक्र धनव्ययात् / / प्रासादा अर्हतां शम्भु-महीधरसहोदराः / कारिता भूभुजा तेषु बिम्बानि स्थापितानि च // अन्येद्यर्गविणी राज्ञी-भुक्तां मध्ये महीपतेः / ज्ञात्वा चणिप्रसूः प्राह वयं राझ्या कृतं न हि / / ततो राज्ञी ययौ मृत्यु यदा तस्माद्विषादनात् / भित्त्वा गर्भ तदाऽकर्षि यत्नात् पुत्रः स्मरोपमः // विषबिन्दं शिशोः शीर्षे दृष्ट्वा चणिप्रसू युतः / भूपो नाम ददौ बिन्दु-सारेति तस्य सूत्सवम् / / बिन्दुसारः कुमारस्तु बर्द्धमानः क्रमात् किल / विना स्वजननीं दुःखं धरते मानसे सदा // यतः-" पुत्तस्स मायमरणं भज्जा मरणं च जुन्वणसमयम्मि। थेरस्स पुत्तमरणं तिन्नि वि दुक्खाई गुरुयाई / / 1 // " स्वकीयभाग्यतोऽशेषपरिवारस्य सन्ततम् / बिन्दुसारः कुमारोऽभूद् वल्लभो भूमिपतेरपि / / बिन्दुसारे समारूढे यौवनं चन्द्र