________________ सम्प्रत्यादीनामुद्धाराः धुना / / युग्मम् / / प्राग्वद्वादितझल्लयां जगावन्यो धनेश्वरः। जात्यनव्यकिशोराणा-मेकवासरजन्मनाम् / / भ्रियेत सङ्घययाऽयोध्या पाटलीपत्तने यदि / तथा तेऽपि ते किशोराः स्यु-बहवो मे गृहे वरे / युग्मम् / / अतो वादयतेदानी झल्लरी वाद्यवादकाः ! / प्राग्वद्वादितझल्ला-मिभ्योऽन्यः प्रोक्तवानिति // यावद्धिः शालिभिः सर्वे जेम्यन्ते भारता नराः / वर्पमेकं तु तेनैव तुप्तन्ति मम मन्दिरे // तावन्तः शालयो भिन्न-जातिकाः सन्ति मे गृहे / अतो वादयतेदानी झल्लरी कोलिका ! धनम् // वादिते झल्लरीवाद्य प्राहेभ्योऽन्यो मदेन हि / तावन्मे विद्यते धान्यं धनं गेहे मनोहरम् / / यावता करवे पृथ्वी-मनृणां चन्द्र पालिताम् / अतो वादयतेदोनी झल्लरी कोलिका ! धनम् // प्राग्वद् वादितझल्लयां महेभ्योऽन्यो जगाविति / रत्नानां कोटिरेका मे विद्यते सदने किल / / भारसप्तमितं हेम-मुक्तानां मूढकत्रयम् / प्रवालाद्यन्यवस्तूनां सङ्घया न ज्ञायते मया // अतोऽस्मिन् समये सद्यः कोलिका ! झल्लरी वरा / वाद्यतां वाद्यतामेव युष्मा. भिर्मधुरध्वनिः // सर्वत्र साक्षिणो लोका-श्वाणिक्येनैव कारिताः / यतो बुद्धिनिधिः स्वामि-भक्तो धर्म धुरन्धरः / / उक्तञ्च-" एकयोजनगामीभ-पदप्रमितकाञ्चनम् / एकस्मिन् दिवसे जाता-स्तथा जात्यकिशोरकाः / / 1 // " इत्यादि / ततस्ते धनिनो लक्ष्मी तावतों भूभुजे ददौ / यावत्या भूपतेः कोशः सम्पूर्णोऽजनि तत्क्षणात् // एवं चणिप्रसूतेन कोशश्चन्द्रमहीपतेः। पूरितः स्वर्णरूप्यादि-वस्त्रभूषणसञ्चयः / / तस्यां निवृति दुःकाले पतिते द्वादशाब्दिके / रैमूल्येन न लभ्येत धान्यं स्तोकमपि कचित् / / माता पुत्रं प्रिया कान्तं कान्तः पत्नी वरामपि / त्यक्त्वा गच्छन्ति दूरे तु न कोऽपि कस्य विद्यते / आचार्यः सुस्थितश्चन्द्र-गुप्तभूपगुरुस्तदा / अन्नाभावाद् गणं स्वीयं व्यसृजद् दूरनिर्वृति // वियोग गुरुपादानां क्षुल्लो सोमशुभङ्करौ / तत्र तस्थतुरसह-मानौ श्रीगुरुसेवया // यतः-" इलाध्यन्ते गुरवः शश्वत् सूत्रार्थयोः प्रकाशकाः / याभ्यां विज्ञायते सर्वं हिताहितादि सर्वतः // 1 // " न जायते सदा सार्वः भवन्ति गुरवः सदा / अतः सेव्याः सदा सद्भि-गुरवो हितमिच्छुभिः / / गुरुराचष्ट तिष्ठद्भ्यां युवाभ्यामिह साम्प्रतम् / कृतं वयं न हि क्लेश-वाखौं युवां पतिष्यथः / तथापि गुरुभक्त्यैतौ स्थितो क्षुल्लौ वराशयो। भक्तपानादिदानेन सेवेते श्रीगुरुक्रमौ / / भिक्षया स्वल्पया क्षुल्लौ सीदन्तावन्यदा रहः / मन्त्रयामासतुश्चित्ते 'विना भिक्षा मरिष्यते / / कथ्यमानमदृश्यत्व-कारकं दिव्यमञ्जनम् / साधुभ्यो गुरुभिः क्षुल्ला-वौष्टामेकदा रहः // तेनाञ्जनेन त्वज्जित्वा नेत्रे क्षुल्लौ बुभुक्षितो। अलक्ष्याङ्गो सदोऽत्तः स्म चन्द्रगुप्तस्य भोजने // एवं प्रतिदिनं ताभ्यां भुञ्जानाभ्यां धराधवः / ऊनोदरित्वभाग दुःस्थ-स्तपस्वीवाऽभवत् कृशः / / उक्तश्च-" कृष्णपक्षक्षपाजानि-रिव क्षामः शनैः शनैः / चन्द्रगुप्तो नरेन्द्रोऽभूत् ताभ्यामाच्छिन्नभोजनः // 1 // " यतः-" लज्जामुज्झति सेवतेऽन्त्यजजनं दीनं वचो भाषते, कृत्याकृत्यविवेकमाश्रयति नो नापेक्षते सद्गतिम् / भण्डत्वं विदधाति नर्तनकलाभ्यासं समभ्यस्यते, दुष्पूरोदरपूरणव्यतिकरे किं किं न कुर्याज्जनः ? // 1 // " इतश्चन्द्रप्रसूः प्राह चन्द्रगुप्तनृपान्तिके / भुञ्जमानः कथं क्षीण-देहो भूस्त्वं नरेश्वर! / / राजा जगौ ममेदानी हासान्न परिवेष्यते / किन्तु कोऽप्यसुरः प्रेतो हरते परिवेषितम् / / कदाचित् कवलानां तु द्वयं त्रयं चतुष्टयम् / मम यात्युदरे नैवा-धिकं जानीहि मन्त्रिराट ! / / विलोकितोऽपि न यदा भुञ्जमानोऽपरः कचित् / दृष्टस्ततोऽभवच्चिन्ता-चान्तश्चणिभवो भृशम् / / चाणिक्यो ध्यातवान्नूनं कोऽपि दिव्यो नरोऽमरः / आहारं हरतेऽमत्राद् भूपस्य लघुलाघवात् / / कर्षणीयो मया बुद्ध्या स एव मानवः परः / रक्षणीयो यतो भूपः प्रजारक्षणहेतवे / / यतः-"दुष्टस्य दण्डः स्वजनस्य