________________ शत्रुञ्जय-कल्पवृत्ती तेनासिना शिरस्तस्य छित्त्वाऽऽगत्य बहिस्तदो। चाणिक्यायामिलत् खड्गं दर्शयामास तस्य तु // अश्वारूढं द्रुतं चन्द्र-गुप्तं कृत्वा चणिप्रसूः / चलन् सादिनमन्यत्तु नन्दस्य दृष्टवान् पुनः / / तदा चन्द्रं च चाणिक्यं दृष्ट्वाऽऽयान्तौ यमाकृती। नंष्ट्वाऽगाद्रजकोऽन्यत्र तत्र चाणिक्य ईयिवान् / / स्थापयित्वा प्रहेमध्ये चन्द्रगुप्तं चणिप्रसूः / बद्ध्वा छन्नं हरिं कूप-पार्वे तस्थौ स्वयं पुनः / / सादी पप्रच्छ रजक ! दृष्टोऽत्र ना व्रजं. स्त्वया। चणिप्रसूर्जगौ कूप-मध्ये स्वाङ्गलिसञ्ज्ञया // तत्रापि पूर्ववन् मुक्त्वा ताक्ष्य कूपे प्रविश्य च / यावच्चन्द्र न्यहत् तावत् सोऽप्यसि लातवान् करे // तेनासिना च तं हत्वा सादिनं नन्दसेवकम् / बहिनिर्गत्य चाणिक्य-मन्त्रिणो मिलितः पुनः // ततो द्वावपि वर्याणि वस्त्राणि परिधाप्य च / अश्वारूढौ चलन्तौ तु ययतु मसन्निधौ / बुभुक्षया म्रिवन्तं तं चन्द्रगुप्तं सुहृद्वरम् / मत्वा भिक्षाकृतेऽचालीच्चाणिक्यो नगरं प्रति / / मार्गे भुक्तधृतक्षीर-खण्डं वरं मनोहरम् / आयान्तं ज्ञातवान् पृष्ट्वा प्रपश्चात् चणिनन्दनः / / तस्योदरं विदार्याशु लात्वा क्षीरादिकं तदो / क्षिप्त्वा च भाजने चन्द्रो-पान्ते चाणिक्य ईयिवान् / / स्वामिभक्त्या च चाणिक्यः क्षोरादि चन्द्रगुप्तकम् / भोजयित्वा जलं स्वच्छं पोययामास शीघ्रतः / / स्वस्थीभूतस्ततश्चन्द्र-गुप्तश्चाणिक्यमन्त्रिणम् / जगौ तवोपकाराच्च च्छुटिष्याम्यहकं कथम् / / ततः स्वोदरपूत्य तु भ्रमँश्चणिप्रसूः पुरे / कस्यचित् सदनेऽश्रोपी-नार्या वचनमीदृशम् / / भो डिम्भ ! उष्णरब्बांतः मा शयं क्षिपदात्मनः / चाणिक्य इव नन्दस्य पुरवेष्टनवद् धुरि / / ओदौ बहिः स्थिता रब्बा भक्षयेत शनैः शनैः / सुखेन मध्यमा रब्बा पूर्वकं भक्षयाविराट् / / श्रुत्वैतच्चणिसूर्दध्यौ मामेषा धर्षयत्यलम् / तेनादौ परितो ग्रामान स्वीक्रियन्ते मया दृढम्॥ ततः सुखान्निगृह्येत पाटलीपुत्रपत्तनम् / ततो नन्दोऽपि हन्येत सुखेन मयका खलु // चन्द्रगुप्ताय दास्येत राज्यं नन्दमहीपतेः / ततो मनोरथः स्वीयः पूर्ण एवं भविष्यति / / ततो हिमवतः कूटे गत्वा पर्वतभू भुजा / सार्द्ध मैत्री व्यधागाढं चाणिक्यश्चन्द्रसंयुतः / / चन्द्रगुप्तं गुरुमिव चाणिक्यः सेवते मुदा / नन्दराज्ये ऽथ चन्द्रं तु वाञ्छन् स्थापयितुं स च / / पर्वतं भूपति प्रोह चोणिक्यो वाडवोत्तमः / यदि त्वं कथितं मे च कुरुषे साम्प्रतं द्रुतम् / / तदा नन्दस्य भूपस्य राज्याई दास्यते तव / राज्यार्द्धं चन्द्रगुप्ताय मया देयं प्रपञ्चतः / / मानिते पर्वतक्षोणी-भुजा चाणिक्यमन्त्रिरोट् / पर्वतक्षोणिभुगयुक्तो नन्ददेशे समागमत् // परितः परितो ग्रामान् पुरदुर्गाणि बुद्धितः / वशीकुर्वन् क्रमाचन्द्र-गुप्तः पर्वतयुग ययौ // पाटलीपुत्रपर्यन्ते गत्वा भूयिष्ठसेनया / चन्द्रगुप्तः स्थितो जेतुं नन्दं चाणिक्यसंयुतः // चन्द्रगुप्तबलेनाऽथ पाटलीपुत्रपत्तने / रुद्धे नन्दः प्रजायुक्तो विहस्तोऽभूद्विशेषतः // चन्द्रगुप्तोऽथ नन्देन सार्द्धं युद्धं तथाऽकरोत् / यथा दत्त्वा पुरीद्वारं नन्दोऽस्थाद्रणतत्परः॥ यदा न गृह्यते चन्द्र-गुप्तेन पाटलीपुरम् / तदा चणिप्रसूर्जज्ञौ मातृणां बलमद्भुतम् // पुस्तकं स्वशये कृत्वो चाणिक्यो नगरान्तरे / गत्वा पृष्ठो जनैः किञ्चित् किञ्चिद् वक्ति चतुःपथे / / जनैः पृष्टं कदा ह्येतत् पुरमुद्वेष्टयिष्यते / चाणिक्योऽवग् न वक्तुं तु शक्यते बिभ्यता मया / / लोका जगुः कुतो भीस्ते विद्यते तन्निगद्यताम् / चाणिक्यः प्राह मातणां देवीनां पार्वतो भयम् // लोका जगुस्त्वया यद्यत् प्रोच्यते वः परोऽधना / तदास्माभिः करिष्येऽतः दुष्करं सुकरं पुनः / / नाटयित्वा क्षणं ध्यानं चाणिक्यः प्रोक्तवानिति / सन्ति देवगृहे सप्त मातरो याः स्थिताः पुरः // ताश्चेदन्यत्र गीर्वाणा-लये स्थाप्यत एव तु / तदा निखिललोकानां सुखं भवति निश्चितम् // तत उत्पाटयामासुः पौरास्तन्मातृमण्डलम् / मुमुचुः