________________ सम्प्रत्यादीनामुद्धाराः भ्रमंश्चाणिक्यवाडवः / नन्दभूमिपतेामे मयूराह्व समीयिवान् / / तत्र भूमिपतेर्पास-मदन मयूरपोषकः / मयूरान् पोषयामास तेषां रक्षाविधानतः // तत्र गृहे गृहे भिक्षा-हेतवे चणिनन्दनः / भ्रमन् समगमद् गेहे मयूरपोपकस्य तु / / मयूरपोषकस्यैव दुहितू रूपसजुषः। आसीदापन्नसत्त्वाया-श्चन्द्रपानाय दोहदः / / पप्रच्छ चणिसूर्मोर-पोषकान्ते कृतादरम् / कस्मात्ते दृश्यते दुःखं कृष्णानननिरीक्षणात् // मयूरपोषकेनोक्ते दुहितुर्दोहदे सति / चणिसूः प्रोक्तवान् कार्य उपचारो द्रुतं त्वया // दोहदेऽपूरिते त्वस्या मरणं श्राग भविष्यति / मयूरपोषकः प्राह तयुपायो निगद्यताम् / / चाणिक्योऽवक् समुत्पन्न-मस्यामपत्यमेव तु / यूयं दत्ताऽधुना मह्यं पूर्णः स्याद्दोहदस्तदा / / नो चेत् ते दुहिता गर्भ-सहिता श्राग मरिष्यति / ततो मातृपितृभ्यां तु मेने तद्वचनं मिया // चाणक्योऽचीकरच्छिद्र-युक्तं मण्डपमद्भुतम् / अधस्ताच्छायिता सैव नायूर्ध्ववदना ततः // राकायां मध्यरात्रौ तु नभोमध्ये निशाकरे / दर्शयामास चाणिक्य-स्तस्या बिम्बं विधोस्तदा / / ऊर्च सितापयःक्षेपा-त्तस्या आस्यस्य तत्क्षणात् / चन्द्रामृतस्य पानेच्छा पूर्णा च धिषणाबलात् // क्रमाचन्द्रेऽप्रतो याते लोका एवं जगुस्तदा / पीतोऽनया विधुः पूर्णः पीयूपेणाधुना ध्रुवम् // ततो मयूरपोषस्य पुत्री सुस्था सती भृशम् / असूत नन्दनं चारु-वेलायां सुखभात किल / / पूर्णोऽस्या दोहदो गुप्तचन्द्रात्तस्यैव पानतः / अत: पिता ददौ चन्द्र-गुप्तेत्याह्वां प्रमोदतः। अमुं चावसरे ह्यङ्गी-करिष्ये बालकं ननु / अतोऽधुनाऽर्जनायाहं भ्रमामि पृथिवीतले // चणिप्रसूर्विमृश्येति ग्रामे ग्रामे पुरे पुरे / पृष्ट्वा धातुविदो धातु-वादं चक्रे धनाय सः / / युग्मम् // इतोऽर्भकः समैः सार्धं चन्द्रगुप्तो दिने दिने / दीव्यन् ग्रामपुरस्वामी स्वयं भवति निश्चितम् // हस्तीकृत्य हयीकृत्य बालकानारुरोह सः। प्रायो भाविस्वरूपं तु ज्ञायते स्वस्वकृत्यतः।। कृत्रिमैः कुञ्जराऽश्वाद्यः राज्यस्थिति वितन्वतः। चन्द्रगुप्तस्य चाणिक्यो वीक्ष्याssचष्ट कुमोर ! भोः ! // मह्यं विश्राणयाऽश्वादि ततः कुमार आह तु / यथारुचि गृहाण त्व-मश्वेभादिधनं बहुम् / / चाणिक्यो ध्यातवानेष दानशौण्डो महापुमान् / जगौ च स्वकृतं पूर्वो-पकारं पुरतः शिशोः॥ यद्यागच्छ मया साद्धं तदा राज्यं तवाचिरात् / दास्यामीति शिशोरग्रे चाणिक्यः प्रोक्तवान् किल // स्वराज्यप्राप्तिसम्बन्धं मत्वा चणिप्रसूगिरम् / चन्द्रगुप्तोऽनुमेने हि राज्यसम्प्राप्तिवाञ्छया / यतः- " मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः, क्रोधाग्नेररणिः प्रतापतरणिप्रच्छोदने तोयदः / क्रीडासद्म कलेविवेकशशिनः स्वर्भाणुरापन्नदी-सिन्धुः कीर्तिलताकलापकलभो लोभो नणां वर्द्धते // 1 // " चन्द्रगुप्तं गृहीत्वाऽथ चाणिक्यो धातुवादतः। कृत्वा स्वर्गादिपत्त्यादि-सेनां पृथ्वी चकार सः॥ ततः सर्वबलेनाऽऽशु तया पत्त्यादिसेनया / आवेष्टयच्चतुर्दिक्षु पाटलीपुत्रपत्तनम् / / नन्दभूपोऽल्पशिबिरं मत्वा चाणिक्यमागतम् / निर्गत्य नगरात् सद्यः कुट्टयामास लीलया // शकुनेनावगत्य स्व-विषये विघ्नमञ्जसा / मत्वा नंष्ट्वा ययौ दूरं चाणिक्यश्चन्द्रगुप्तयुग / / गृहीतुं चन्द्रगुप्तं तु नन्दोऽपि वरसादिनः / आदिशदथ तं चेलु-स्तस्य पृष्ठौ कृतादराः // जितकाश्यथ नन्दोऽपि समेत्य स्वपुरे द्रुतम् / जयढक्कारवं वाद-यामास वस्संरवम् // तेषां च सादिनां मध्या-देकः सादी कृतत्वरः / अधावच्चन्द्रगुप्तस्य पृष्ठौ हन्तुमना ध्रुवम् // चाणिक्योऽपि तमायातं दृष्ट्वा सरोवरान्तरे / चन्द्रगुप्त रहः स्थाप-यामास वरबुद्धिमान् / / सादी पप्रच्छ चाणिक्यं चन्द्रगुप्तः क विद्यते ? / चाणिक्योऽवग् सरोमध्ये स्थितोऽऽस्ति चन्द्रगुप्तकः // मुक्त्वा तत्र हरिं सोदी यावच्चन्द्रान्तिके ययौ। तावत् स मज्जनं कृत्वा सादिहस्तादसि ललौ।।