________________ शत्रुञ्जय-कल्पवृत्ती + पाटल्याढे पुरे पूर्वं नन्दा अष्टौ महीधराः / आसन् वशीकृतानेक-भूपाः स्वभुजलीलया / एतेषां चरितानि अष्ट स्वर्णमयपर्वतरचनाद्यात्मकानि तेषु तेषु शास्त्रेषु ज्ञेयानि / नवमस्य नन्दनस्य किञ्चित स्वरूपं सङ्क्षपात् कथ्यते पाटल्याह्वपुरे पूर्व० // इतो गोल्लाभिधे देशे ग्रामे चणकनामनि / चण्यभूद्वाडवो जैन-धर्मकर्मणि कर्मठः / तस्या भद्रस्वभावाऽभूत् पत्नी चणेश्वरी वरा / द्विजकुलागतं धर्म मुश्चते नैककं क्षणम् / / यत:-" धनदो धनमिच्छूनां कामदः काममिच्छताम् / धर्म एवापवर्गस्य पारपर्येण साधकः // 1 // " क्रमाचणेश्वरी शील-शालिनी शोभनेऽहनि / सूते स्म नन्दनं भूत-धात्रीव निधिमद्भुतम् // दन्तान् सूनोर्मुखे दृष्ट्वा जन्मकाले पिता तदा / पप्रच्छ संयतान् कि स्यात् सूनावस्मिन् शुभाशुभम् / / मुनिः प्राह सुतो राजा क्रमाद् भावी तवैष च / चणी दध्यावयं पुत्रो राज्याद् श्वभ्रं गमिष्यति / यतः-"विशाखान्ता घना राज्यं नरकान्तं निगद्यते / प्रासादः स्याद् ध्वजान्तो हि मुक्त्यन्तं सोतमुच्यते // 1 // " राज्याप्राप्तिकृते सूनो-स्तस्य चणी द्विजस्तदा / अघर्षयद् रदान् सर्वान् प्रस्तरैः कर्कशैभृशम् / / दन्तघर्पणवृत्तान्ते पित्रोक्त मुनिरूचिवान् / भाव्येष भूपतिबिम्बान्तरितो दन्तघर्षणात् // चाणिक्य इति नामाऽदात् सूनोश्चणी पिता तदा / अपाठयत् क्रमात्पुत्रं शास्त्राणि पण्डितान्तिके // कृष्णविप्रस्य कुन्त्याख्या पुत्री चणी द्विजोत्तमः / शोभने वासरेऽन्येद्य नन्दनं पर्यणीणयत् / / चणिकस्याभवद् गेहे दारिद्रयं दुःखदायकम् / ततः प्राप्नोति सतत-मपमानं पदे पदे / / सहोदयव्ययाः पञ्च दारिद्रयस्यानुजीविनः / ऋणं दौर्भाग्यमालस्यं बुभुक्षाऽपत्यसन्ततिः। विधाहे जायमाने तु चणिभार्या पितु हे / यदाऽगमत्तदा तत्रा-ययुभूयिष्ठसज्जनाः // भगिन्योऽपि लसद्दिव्य-वस्त्रभूपणभूषिताः / समेता जहसुलिं चणिपत्नी कुभूषणाम् // यतः-“ विद्यावृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः। सर्वे ते धनवृद्धस्य द्वारि तिष्ठन्ति किङ्कराः / / 1 / / " दद्ध्यौ चणिप्रिया ह्येष संसारोऽसार एव तु / स्वसारोऽपि हसन्ति स्म यतो मां कुत्सिताम्बराम् / / यतः" यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः / स एव वक्ता सं च माननीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते / / आगतां स्वगृहे म्लान-मुखीं स्वीयप्रियां वराम् / दृष्ट्वा बभाण चाणिक्यः किं दूनासि प्रिये ! ऽधुनो ? / / पन्या प्रोक्त स्वदूनत्व-स्वरूपे चणिनन्दनः / जगौ प्रिये ! न कर्त्तव्यं दुःखं शं ते भविष्यति // न ह्येकदिशया कालो गमिष्यति नृणां कचित् / यतोऽर्के द्वादशो वर्यावर्योऽवस्था क्रमात्पुनः / / पाटलिपुत्रनगरे-ऽर्शिभ्यो नन्दनृपं धनम् / ददानं सादरं श्रुत्वा तत्र चाणिक्य ईयिवान् / / मण्डितेष्वासनेषु क्षमा-पतिभृत्यैः स वांडवः / मौले यदासने स्वेच्छ-मुपविष्टो मृगेन्द्रवत् / / नन्दः सनन्दनोऽभ्येय रुद्धं द्विजन्मनासनम् / मौलं दृष्ट्वा रोषेणाह भृत्यान् प्रत्युच्चसंरवम् / / उत्थायाऽमुं द्विजं दुष्टं मौलादस्माद्धि विष्टरात् / ततो नृपानुगः प्राह चाणिक्यं वाडवं प्रति / / उत्तिष्ठाऽऽसनतोऽमुष्मादुपाविशान्यविष्टरे। द्वितीये विष्टरे न्यासी-द्विषो निजं कमण्डलुम् / / दण्डेनाथ तृतीयं तु चतुर्थं जपमालया / पञ्चमं चोपवीतेनो-त्थाप्यमानो रुरोध सः / बलादुत्थाप्यमानोऽथ चाणिक्योऽवग् नृपं प्रति / भवन्तं ससुतं राज्यात् करिष्येऽहं च दूरतः।।राजा प्राह वराकोऽयं सुप्तो व्योम्नि दिनात्यये / वातूलोऽजनि तेनाऽयं जल्पत्येवमतोऽधुना // गते चोणसुते राजा दध्यौ नन्दमहीधवाः। अष्टावष्ट गिरीन् स्वर्ण-मयान् विदधिरे ध्रुवम् / / अहं च नवमं स्वर्ग-गिरि कुर्वे ऽधुना द्रुतम् / ततस्तेनापि नन्देन कारितः स्वर्णपर्वतः // निर्गत्य नगरात्तस्माच्चाणिक्यः कोपवह्निमान् / दध्यौ बिम्बान्तरीभूत्वा भूपाद्राज्यं करोम्यहम् / / " कइ अप्पण पइ थाइ कइ प्रभु कीजइ हाथि / कजकरे वा मानुसह वीजओ माग न अस्थि // 1 // " राज्ययोग्यं नरं दृष्टं