________________ सम्प्रत्यादिनामुद्धाराः त्सवपुरस्सरम् // कृत्वा राज्यं चिरं भूपो मृत्वा स्वर्गे च पञ्चमे / सुखं भुक्त्वा ततो भीम-पुरेऽभून्नृपनन्दनः। श्रुत्वा धर्म गुरूपान्ते लात्वा दीक्षां सुभावतः। सर्वकर्मक्षयान्मुक्ति जगाम मेदिनीपतिः / / 20 / / इति द्वितीयकथा ___ श्रीमद् बृहत्तपागच्छे श्रीजगच्चन्द्रसूरयः। अभूव॑स्तत्पदे वर्या देवेन्द्रसूरयोऽभवन् / तत्पट्टे धर्मघोषाहाः सूरयो वरबुद्धयः / तत्पट्टे चोभवन् सोम-प्रभाचार्या वराशयोः // तत्पट्टे सोमतिलका बभूवुर्गुरवो वराः / तत्पट्टे चाभवन् देव-सुन्दराभिधसूरयः // ततः पञ्चशती वाचं-यमानामभवद्वरा / पञ्चाशीतिमिति बुद्धा भव्यानबोधयन् क्रमात् // एकदा सिद्धभूमिधे विबुधा देवमङ्गलाः / श्रीयुगादिजिनं नन्तुं जग्मुः साधुसमन्विताः // प्रणम्य श्रीयुगादीशं विबुधा देवमङ्गलाः / क्षुल्लकाहसरस्यन्ते देवान्नन्तुं समागमन् // बिभीतकतरूपान्ते-ऽलक्षदेवकुलस्य तु / समीपे विबुधा देव-मङ्गलाः समुपोगमन् / / कारिते भरतेनादि-जिनबिम्बं गुहास्थितम् / नन्तुं चित्तं समाधाय स्थितास्ते विबुधा जगुः // भोः कपर्दिन् ! सुरोत्तंस ! मां वन्दयादिबोधिदम् / यदा तदा मया कार्यं पारणं क्षपणस्य हि // युग्मम् / उपवासत्रयोपान्ते कपर्दी यक्षराट् तदा / [ पुङ्गव ] उत्पाटय नीतवानादि-जिनस्य सन्निधौ बुधम् / / कपर्दी प्रोक्तवान् देव-मङ्गल ! त्वं बुधोत्तम ! / कारितं भरतेनादि-जिनं वन्दस्व भावतः // एकावतारकत्वेन त्वं नीतोऽत्र मयाधुना / ततो बुधोऽनमद्देवं युगादीशं सदादरात् / / स्वकटीदोरकेनैव प्रभोरङ्गुथमद्भुतम् / वेष्टयित्वा मिनीते स्म पण्डितो देवमङ्गलः / उरुजप्रमितान् शालि-तन्दुलान् स्वामिनः पुरः / ढौकितान् निर्जरैर्वीक्ष्य मुमुदे विबुधस्तदा // दीपान् मणीमयान् देव-विहितान् स्वामिनः पुरः। उद्योतं कुर्वतोऽपश्यत् पण्डितो देवमङ्गलः // उदारैः स्तवनभूरि-भक्तिभावितमानसः / तुष्टाव प्रथमं देवं पण्डितो देवमङ्गलः // ततो यावत्प्रभोरग्रे ध्यानं कर्तुं स्थितो बुधः / तावदुत्पाटय यक्षेन पश्चान् नीतो निजे पदे // यावद्विलोकते विद्वान् तावद् बिम्ब न हीक्षते। किंत्वलक्षाभिधं देव-कुलं ददर्श नेत्रयोः // तत उत्थाय मुख्यादि-भवनेsभ्येत्य पण्डितः। नत्वाऽऽदिमं जिनं भक्त्या-ऽवततार गिरेस्ततः ।अष्टमान्ते बुधः पाद-लिप्ताहृ नगरे तदा। स्वयं विहृत्य चक्रे तु पारणं भवतारणम् / / एतत् सर्वं ततोऽभ्येत्य देवसुन्दरसन्निधौ / बुधोऽगदत् तत ख्यातिविद्यतेऽद्यापि सा पुनः / / 21 / / इति देवमङ्गलविबुधदेवनमस्कारसम्बन्धः संपइ-विक्कम-बाहड-हालपलित्तामदत्तरायाई / जं उद्धरिहंति जयउ तं सित्तुंजय महातित्थं // 29 // ___ सम्प्रतिभूपः-कुणालकुमारो, विक्रमादित्यो, बाहडः, शातवाहनः, पादलिप्त, आमभूप-दत्तभूपादयो बहवो नरेन्द्रा यत् तीर्थमुद्धरिष्यन्ति तत्तीर्थं महातीथ जगज्जनमध्ये वर्त्तते / तत्रादौ सम्प्रतिभूपतेः सम्बन्धो लिख्यते, तथाहि