________________ शत्रुञ्जय-कल्पवृत्ती वेगतः // ततः स तापसो दध्या-विदं स्यादैहिकं फलम् / परलोके प्रजायेत कीदृग् न ज्ञायते मया // चिन्तयन्निति भूपः स जाति स्मृत्वा स्वयं तदा / आसीत्प्रत्येकबुद्धस्तु यतिलिङ्गधरः क्रमात् // बोधयन् पृथिवीं वीर-सेनोऽवन्तीपुरान्तिके / आगतो बोधितुं सून्वो-रन्यदो वरचिन्तया / / दानशीलतपोभावभेदैर्धर्मं चतुर्विधम् / आराधयन् सुरावासं शिवशं लभते क्रमात् / / पल्योपमसहस्र तु ध्यानालक्षमभिग्रहात / दुष्कर्म क्षीयते मार्गे सागरोपमसञ्चितम् / भरतेन गुहायां तु कारितायां शिवाचले / यो जिनान् नौति तस्य स्या-न्मुक्तिर्भवान्तरे ध्रुवम् // यतः- " यः कारयति सर्वज्ञ-प्रासादं शिवपर्वते / तस्य स्वर्गापवर्गादि-सुखं नो दुर्लभं भवेत् // 1 // " आकण्यैतत्तदो-नन्दो गत्वा शत्रुञ्जयाचले / अलक्षदेवकुलिका-मध्ये तस्थौ समाहितः // अष्टमान्ते कपर्दी तु यक्षोऽभ्येत्य जगावदः / सन्तुष्टस्तपसा तेऽहं मत्पृष्ठौ त्वं समाजज // गुहायां वृषभं देवं वन्दयिष्ये तवाचिरात् / नन्दोऽवग् वाञ्छितं मे त्वं यक्षराट ! पूरयाधुना // ततो गुहान्तरे नीत्वो नन्दं कपर्दिको मुदा / वन्दयामास नाभेयं भरतस्थापितं ध्रुवम् // ततो गत्वा जिनं धर्मं कृत्वा स नन्दभूपभूः / मृत्वाऽभूत् स रमापुर्या पद्मो भूमीपतेः सुतः / / लोत्वा दीक्षा गुरूपान्ते क्षिप्त्वा कर्माखिलं तदा / अवाप्य केवलज्ञानं लोकालोकावलोककम् / / प्रबोध्य भविनो भूरीन् जैनधर्मे स केवली / आयुःप्रान्ते ययौ मुक्ति भूरिसाधुसमन्वितः // 25 // इति गुहास्थश्रीऋषभजिननमनतो भवत्रयमुक्तिगमने नन्दभूपकुमारकथा कल्याणनगरे वन-सेनस्य मेदिनीपतेः टङ्ककानां तु पश्चाशत् षड्युता अभवन् गृहे / / इतश्चन्द्रपुरे वीर-भूपस्य सुभटा वराः / लक्षपञ्चमिता आसन् लक्षमेकं तुरङ्गमाः // हायनं प्रति वीरक्ष्मापतिः कल्याणपत्तनम् / भङ्क्त्वा जयपताकां तु लभते न च वैभवम् / / शीर्षाणि पतयो राणां समानयति सन्ततम् / तस्मै दत्ते सहस्र तु टङ्ककानां महीपतिः॥ आगच्छन् स रिपुः क्षीण-बलो भूत्वाह धीसखम् / कथं प्रजेष्यते वज्रसेनो मन्त्री ततो जगौ // निष्काशय निजाद् देशाद् मां पौरभूसाक्षिकम् / ततो निष्काशितो मन्त्री भगवान् भवतः क्रमात् // भगवद्पभृद् वज्रसेनस्य मेदिनीपतेः / मिलितो मानितोऽत्यन्तं मन्त्रीशो मेदिनीभुजा // क्रमाद्धर्मोपदेशस्य छलात् स भगवान् जगौ / वापीकूपतटाकर्तुः भवनानि धनव्ययात् / / यतः-" यः कारयति भूपालो जनोऽन्यो वा सुभावतः / तस्य स्वर्गापवर्गादिशर्माणि स्युः करे किल / / 1 // " श्रुत्वैतद् भूपतिर्वापि-कूपतुसदनादिकम् / कारयन् कृतवान् कोशं रिक्तं द्रव्येण कालतः // स्वल्पद्रव्ये नृपे वनसेने जाते स धीसखः / समेत्य स्वामिनः पार्वे वैरिस्वरूपमुक्तबान् / / ततः सर्वबलेनैव गत्वा वीरमहीपतिः / मन्त्रिबुद्धया रिपुं जित्वा स्वपुरं समुपागमत् // कृत्वा सङ्घ महान्तं च गत्वो शत्रुञ्जयाचले / अर्चयित्वा युगादीशं ध्वजादि च व्यधान्नृपः / / गुहाया महिमानं तु श्रुत्वा धरणिनायकः। अलक्षमरुतो गेहे तपश्चक्रे यथोदितम् // अष्ठमान्ते कपर्दी तु यक्षोऽभ्येत्य जगाविदम् / सन्तुष्टस्तपसाऽहं ते त्वं मस्पृष्ठौ समेहि भोः ! // बन्दयिष्ये गुहायां त्व-मादिदेवं जिनेश्वरम् / राजाऽवग् वाञ्छितं मे त्वं यक्षराट् पूरयाधुना / / ततो गुहान्तरे नीत्वा भूपं कपर्दिको मुदा / वन्दयामास मामिक्ष्मा-पतिनन्दनमादरात्॥ ततः श्री उज्जयन्ताद्रौ गत्वा श्रीनेमिनं जिनम् / नत्वाऽगात् स्वपुरी भूपो नानो