________________ गुहास्थश्रीऋषभजिननमनतो भवत्रयमुक्तिगमने नन्दभूपकुमारकथा सोऽहनाय लभते शिवसम्पदः / / यतः--पदे पदे विलीयन्ते भवकोटिभवान्यपि / पापानि पुण्डरीकाद्रेर्यात्रां प्रति यियासताम् // एकैकस्मिन् पदे दत्ते पुण्डरीकगिरिं प्रति / भवकोटिकृतेभ्योऽपि पातकेभ्यः स मुच्यते / / प्रत्यहं पुण्डरीकादि ध्यायेद् यस्तु सुवासनः। संस.रतापमुत्सृज्य प्राप्नोति सः परं पदम् / / श्रुत्वेति श्रीगुरोर्वाणीं वैरिमर्दनभूधवः। भूरिसङ्घयुतः शत्रु-जये नन्तुं जिनान् ययौ / तत्र श्रीऋषभेशस्य पूजामादौ सुविस्तरात् / विधाय पादुके भूयः पूजयामास भक्तितः / / ततो राजादनी वर्या-क्षतरवर्द्धयत्तथा / नृपो यथाऽक्षरत् क्षीरं स्नेहयद् वसनानि च // ततोऽन्येषु जिनाधीश-सद्मसु बिम्बमर्हताम् / पूजयामास भूपालः सङ्घलोकसमन्वितः / / ततो रैवतकक्ष्माभ्रे गत्वा श्रोनेमिनं जिनम् / वैरिमर्दनभूनाथोऽर्चयामास च सादरम् / / ततः क्रमान्निजे पुत्रं सिंहाहं न्यस्य सूत्सवम् / दीक्षां लात्वा ययौ मुक्ति वैरिमर्दनभूपतिः // 1232 // इति पाण्डवचरित्रं समातम् भरहकराविअ विवे चिल्लतलाई गुहाठिअ नमंतो। जहि होइ इगवयारी तं सित्तुंजय महातित्थं // 26 // ___ 'भरतः' चक्री प्रथमः तेन कारापितं बिम्बं श्रीऋपभदेवस्य 'चिल्लतलाइ' चिल्लक्षुल्लकसरसीगुहास्थितो नमन् प्रभुयंत्र -- एकावतारी' एकभवमोक्षगामी भवति, तत शत्रुञ्जयो महातीर्थं जयतात् / / दहिफलफलयसमीवे अलक्खदेउलियपरिसरपएसे। सिवदारं पिव दारं जीइ गुहाए विहाडेउ // 27 // अट्ठमतवेण तुट्ठो कवडिजक्खो जहिं भरहपडिमं / वंदावइ जयउ तयं सिरिसित्तुंजय महातित्थं // 28 // व्याख्याऽनयोरेवं-'दधिफलः ' बिभीतकः स एव फलको वृक्षः तस्य ' समीपे ' पार्श्व अलझाबा देवकुलिका तस्य परिसरः-समीपं तस्य प्रदेशे द्वारं विद्यते प्रासादस्य शिवद्वारमिव यस्या गुहाया 'विहाडेउं' विघटयितुं अष्टमतपसा तुष्टः कपर्दियक्षः 'जहिं' यत्र भरतकारापिते प्रासादे भरतप्रतिमाम् आदिचक्रिप्रतिमां बिम्बं वन्दापयति अष्टमतपसः कर्तृकस्य तज्जयतोत् श्रीशत्रुञ्जयमहातीर्थम् / / ___ अत्र कथा-उज्जयिन्यां नृपो वीर सेनो वीरमती प्रिया / तनयौ मदनो नन्दः पितृभक्तिकरौ सदा / / अन्यदा गेहिनी पत्यु-मस्तकोत्पलितं सितम् / आदाय मुमुचे हस्ते प्रोवाचेति तया पतिः / / वृद्धत्वानलदग्धस्य सारयौवनवस्तुनः। दृश्यते देहगेहेषु भस्मेव पलितच्छलात / / पटु रटति पलितदूतो मस्तकमासाद्य सर्वलोकस्य / परिभवति जरामरणं कुरु धर्म विरम पापेभ्यः / / स्वामिन् ! पलितमेतद्धि त्वां ज्ञापयति साम्प्रतम् / यज त्वं त्वरितं राज्यं श्वभ्रं राज्याद्भवेद्यतः॥ यममिव गृहीतदण्डं हरिमिव सगदं शशाङ्कमिव वक्त्रम् / शम्भुमिव विरूपाख्यं जरा करोत्यकृतपुण्यमपि / / श्रुत्वा पत्नीवचः पुत्र राज्ये न्यस्य सदुत्सवम् / प्रियायुक्तोऽभवत् सद्य-स्तापसो मेदिनीपतिः।। देवी गर्भमनाख्योय तदा पत्या समं ध्वम् / तापस्यजनि कल्याण-कमलाहेतवे द्रुतम् // क्रमात्पुत्र्यां प्रजातायां मृत्वा वीरमती द्रुतम् / तस्या नाम ददौ तातः सुन्दरी सुन्दराकृतिः / / क्रमाद्यौवनमापन्ना श्रान्तस्य पितुरन्वहम् / विश्रामं ददते नित्य-मिन्धना. नयनादिना // मोहाविष्टोऽन्यदाश्लेष्टुं पुत्रीं स तापसो ध्रुवम् / प्रधावन् पतितोऽकस्मा-इन्ता भग्नास्तु