________________ शत्रुञ्जय-कल्पवृत्ती नरकान्तं ततो राज्य-मस्माकमिह जायते // विना न तपसा पाप-शुद्धिर्भवति कर्हि चित् / वसनं मलिनं शुद्धं वारिणा नैव जायते / / यतः-" यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति / उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां, स्वाधीनं त्रिदिवं शिवं च भवति इलाध्यं तपस्तन्न किम् ? / / पाण्डवानां मनो दीक्षा-गृहणेच्छु शिवाङ्गजः / ज्ञात्वा प्रेषिन्मुनि धर्म-घोषं प्रबोधहेतवे / / पाण्डवा अपि सूरीशं धर्मघोषं सुभक्तितः / नत्वाऽऽकर्णयितुं धर्म-मुप. विष्टोस्तद्ग्रतः / / यतः-“ अनित्यानि शरीराणि विभवो नैव शाश्वतः / नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्मसङ्ग्रहः // 1 // " धर्मं श्रुत्वाऽथ पप्रच्छुः किमस्माभिर्गते भवे / पुण्यं कृतं ? ततो धर्म-घोषज्ञानी जगाविति // ग्रामेऽचलेऽभवन् पूर्व-भवे पञ्च सहोदराः / सुरभिः शान्तनुर्देवः सुमतिश्च सुभद्रकः // कुर्वाणाः कृषिमुद्विग्ना दारिद्रयविद्रुता भृशम् / यशोधरमुनेः पार्वे पञ्चापि व्रतमाददुः / / यतः-- " यावत् स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नाऽऽयुषः / आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-नादीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः? // 1 // " स्वदेहे निस्पृहो वैया-वृत्त्यकृत्यकरो गुरोः / सुमतिः संयतश्चक्रे सत् तपः कनकाचलम् / / रत्नावलि द्वितीयस्तु मुक्तावलिं तृतीयकः / सिंहनिकेतनं तुर्योऽन्तिम आचाम्लवर्द्धकम् / / युग्मम् / / पश्चाद्भवतपो व्यक्त्या वाच्यः / एवं तप्त्वा तपो मृत्वा भूत्रोऽनुत्तरनाकिनः / ततश्च्युत्वा सुता यूयं पाण्डोः स्म भवथाऽधुना // . श्रुत्वा पूर्वभवे राज्ये न्यस्य पुत्रं परीक्षितम् / पाण्डवा द्रौपदीकुन्ती-युता व्रतमलुस्तदा / पठन्तस्ते सदा भक्त्या गुरुपायें जिनागमम् / एकादशाङ्गिनो जाता-स्तपःकरणतत्पराः / / पाण्डवा यथा तीव्र तपस्तेपुस्तथा ग्रन्थान्तराद्वाच्यम् / / बोधयन्तो जनान् पाण्डु-तनया हस्तिकल्पके / पुरे नेमिशिवप्राप्ति शुश्रुवुमनुजाननात् / / ततः स्वकर्मसंघात-क्षेपाय सिद्धपर्वते / गत्वा नानाविधं तेपु-स्तपः पाण्डुतनूभवाः ।।आदायानशनं पाण्डु-पुत्राः सर्वे क्षमाकराः / क्रमाद्घातीनि कर्माणि चिक्षेपुर्मातृसंयुताः।। मनीनां कोटिविंशत्या पश्चापि पाण्डुनन्दनाः / कुन्त्या सह ययर्मुक्ति निःशेषकर्मणां क्षयात् / / सार्द्धपञ्चशतं भूप-पुत्राः शत्रुञ्जयाऽचले। पाण्डुसूपृष्ठितो मुक्तिं ययुः कर्मक्षयात्तदा // तपस्यन्ती तपस्तत्र द्रौपदी जीवितात्यये / जगाम पञ्चमे कल्पे क्रमान्मुक्तिं गमिष्यति / / युधिष्ठिरसुतो वैरि-मर्दनो मेदिनीपतिः / मथुरायां महीनाथै-रभिषिक्तः सदुत्सवम् / / तस्य पत्नी सुशीलाह्वाऽसूत पुत्रं शुभेऽहनि / तस्य चन्द्राभिर्धा राजा ददौ सज्जनसाक्षिकम् / / मन्त्री सुमतिनाम्नाऽभू-त्मतिमान् भूपवल्लभः / राज्यकार्य तथा चक्रे मन्त्री हृष्टो यथा नृपः // अन्येास्तस्य देशस्य सीमायां हरभूपतिः / हस्यश्वसुभटानोभिः शालितः समुपागमत् / / तदा पुर्या बहिर्गत्या वैरिमर्दनभूधवः / युद्धं तथा व्यधाद् बाढं यथा भग्नोऽभवत् स्वयम् / ततः कुञ्जरमारूढो वैरिमर्दनभूपतिः। यमवत् समरे शत्रून् हन्तुं सद्यः समागमत् / / तदा तथा व्यधाद् युद्धं वैरिमर्दनभूधयः / यथा वैरी ययौ यतो यमस्य मन्दिरे रयात् / / ततस्तस्य द्विषः पुर्यां गत्वा स्वाज्ञां प्रजाः समाः / ग्राहयामास भूपालो वैरिमर्दन इद्धधीः // यतः-" रम्यं रूपं करणपटुताऽऽरोग्यमायुविशालं, कान्ता रूपानमितरतयः सूनवो भक्तिमन्तः / षट्खण्डोर्वीतलपरिवृढत्वं यशः क्षीरशुभ्रं, सौभाग्यश्रीरिति फलमहो! धर्मवृक्षम्य सर्वम् / तत्रोद्यानेऽन्यदा धर्म-सूरीशाः साधुसेविताः। यदेयु - पतिर्नन्तुं तदा गत्वाऽनमंश्च तान् // तदा सूरीश्वराः प्रोचु-धर्म एव जिनोदितः / विहितः शिवसौख्याय जायते भविकाङ्गिनाम् // विशेषतः शिवक्ष्माभ्रे गत्वा यो वृषभं प्रभुम् / भक्त्याऽर्चयति