________________ पाण्डवचरित्रम् 51 धातकीखण्डेऽपरकङ्काभिधे पुरे / पद्मोत्तरनृपोपान्ते गत्वा नारद ऊचिवान् // अत्रैव भरते कुम्भि-पुरू पाण्डुनन्दनाः। विद्यते द्रौपदी पत्नी तेषां यादृग् वरास्ति हि / ताहगैकापि ते पत्नी समस्त्यन्तःपुरे न च / श्रुत्वेति द्रौपदी हर्तु-कामः पद्मोत्तरोऽभवत् // तत एक सुरं भक्त्याऽऽराध्य द्रुपदनन्दिनीम् / पद्मोत्तरो नृपोऽनैषीत् स्वकीयान्तःपुरे रहः / / द्रौपदी मागिता भोगं पद्मोत्तरमहीभुजा / जगौ न जल्प्यते सद्भिर्वच ईदृक् तमोमयम् / / " अलसा होए अकज्जे पाणिवहे पंगुला सया होइ / परतत्तीसु अ बहिरा जच्चंधा परकलत्तेसु // 1 // अप्पउं धूलिहि मेलियां सयणह दीधउ छार / पगि पगि माथा ढंकणउ जिणि जोइ परनारि // 2 // स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति / सम्पूर्णेऽपि तटाके काकः कुम्भोदकं पिबति / / 3 // " अहं सती त्वया नैव याचनीया मनागपि / सत्याः सत्त्वस्य भङ्गे स्याद् गतिः श्वभ्र न संशयः // पद्मोत्तरप्रियाभिः सा बोध्यमाना दिने दिने / मनाग मभसि नाचालीद् मेरुपर्वतशृङ्गवत् // इतश्चाऽपहृतां कृष्णां ज्ञात्वा पाण्डुतनूभवाः / व्यलोकयंश्च सर्वत्र लब्धा न द्रौपदी बदा / / गत्वा द्वारवतीपुर्यां पाण्डवा हरिसन्निधौ / द्रौपदीहरणोदन्तं जगदुश्च रहःस्थिताः॥ ततः कृष्णोऽपि सर्वत्र प्रेष्यप्रेष्यान् बहूँस्तदा / कृष्णां विलाकयामास न ज्ञाता सा कचित्तदा / / इतस्तत्रागतः पृष्ठो नारदो हरिणा जगौ। द्रौपदीसदृशी नारी धातकीखण्डगे पुरे // रुचिरेऽपरकङ्काए पद्मोत्तरमहीपतेः / शुद्धान्ते विद्यते कृष्ण ! शीलमाणिक्यवारिधिः / / युग्मम् / / ततः पाण्डुसुतैः सार्द्ध-माराध्य स्वस्तिकं सुरम् / दत्ते मार्गेऽम्बुधौ कृष्णो रथस्थश्चलितस्तदा // पृथक् पृथग रथस्थास्ते कृष्णाद्याः षडपि द्रुतम् / चलन्तोऽब्धौ ययुः पार्वे-ऽपरकङ्कापुरस्य तु // पद्मोत्तरो नृपः शत्रू-नागतान् वीक्ष्य सानुगः / युद्धं कर्तुं यदा पुर्या निःससार पुरान्तरात् // तदाऽऽदौ पाण्डवा युद्धं कुर्वाणास्तेन वैरिणा। भग्ना जनार्दनोपान्ते शरणं समुपागमन् // भग्नान् पाण्डुसुतान् वीक्ष्य कृष्णो वप्रस्य तस्य तु / ऊर्ध्वमारुह्य चक्रे नृ-सिंहरूपं बिभीषणम् // पद्भ्यां स कम्पयन् वप्र-मकम्पयत्तथा भुवम् / यथा त्रुटत् त्रुटत् गेहभित्त्यादीन्यपतन भृशम् / / बिभ्यन् पद्मोत्तरो भूपो ज्ञात्वा कृष्णं समागतम् / लात्वा कृष्णां च कृष्णं तु ननामामलभक्तिभृत् // तदा शङ्खरवं विष्णोः श्रुत्वा पद्माभिधे पुरे। पद्मतीर्थङ्करोपान्ते वीरः कृष्णो जगावदः // मच्छङ्खारववत् कोऽयं शङ्ख वादयतेऽधुना। जिनेन्द्रः प्राह कृष्णस्या-गमनं भरतात्तदा / वीरकृष्णो जगौ तस्य मिलिष्याम्यहमेव तु / जिनोऽवग् न हि जायेत सङ्गः केशवयोर्द्वयोः / एवं प्रोक्तेऽहता वीरो यावत्तत्र ययौ द्रुतम् / तावत् स केशवो वाद्धौं ययौ दूरतरं जले // ततः शङ्खारवो लक्ष्मीधवयोर्द्वितयोस्तदा / परस्परं श्रुतो द्वाभ्यां केशवाभ्यां मनोरमः // नावोत्तीर्य मरुत्कुल-कषां पाण्डुतनू. भवाः / हरेबलपरिक्षायै नावं नाप्रेषयत्पुनः // दोभ्यां मरुनदी सद्य उत्तीर्य केशवस्तदा / ज्ञात्वा पाण्डुसुतस्वान्त-चिन्तितं रुष्ट उचिवान् // पद्मोत्तरमहीपाल-जितैर्भवद्भिरेव किम् / न बलं मे स्वकीयं च दृष्टं तत्र पुरान्तिके ? / लात्वा रुष्टो हरिर्हस्ति-पुरी पाण्डुतनूभवे / दक्षिणां मथुरां प्रादात् कुन्नीवचोऽनुकूलितः // युधिष्ठिरः सदा भ्रातृ-मातृपत्नीसमन्वितः। जैनधर्मं विशेषेण कुरुते स्म दिन प्रति / / अन्येद्युः सन्निधौ पाण्डु-पुत्राणामेत्य तत्क्षणम् / द्वारकादाहसम्बन्धं जराकुमार ऊचिवान् // स्फुरद्युतिं वराकारं कौस्तुभं मणिमुज्ज्वलम् / दर्शयामास धाङ्ग-भुवे जराङ्गजस्तदा / / निरीक्ष्य पाण्डवाः शोकं कृत्वा दद्ध्युरिदं हृदि / प्रव्रज्या गृह्यते चेद्धि तदा वयं प्रजायते / / कुर्वद्भिः समरं द्विभिः सार्द्धमस्माभिरेव तु / अनेकशो हता जीवा-स्तदा दुर्योधनादयः॥ भूरिकालं कृतं राज्य-मधुना चेन्न हि मुच्यते /