________________ शत्रुञ्जय-कल्पवृत्ती जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् // 1 // प्रमादः परमो द्वेषी प्रमोदः परमं विषम् / प्रमादो मुक्तिपुर्दस्युः प्रमादो नरकप्रदः // 2 // पुरुषः कुरुते पापं बन्धुनिमित्तं च वपुर्निमित्तं च / वेदयते तत्सर्वं नरकादौ पुनरसावेकः // 3 // स्वर्गच्युतानामपि जीवलोके चत्वारि नित्यं हृदये वसन्ति / दानप्रसङ्गो विमला च वाणी देवार्चनं सद्गुरुसेवनं च / / 4 / / नमस्कारसमो मन्त्रः शत्रुञ्जयसमो गिरिः / गजेन्द्रपदजं नीरं निर्द्वन्द्वं भुवनत्रये / / 5 // कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च / शत्रुञ्जयं समाराध्य तिर्यञ्चोऽपि दिवं गताः // 6 // यो दृष्टो दुरितं हन्ति प्रणतो दुर्गतिद्वयम् / सधेशार्हन्त्यपदकृत् स जीयाद्विमलाचलः // 7 // पल्योपमसहस्र तु ध्यानालक्षमभिग्रहात् / दुःकर्म क्षीयते मार्गे सागरोपमसश्चितम् // 8 // " शत्रुञ्जयमाहात्म्यं तु श्रुत्वेति नेमिनो मुखात् / यात्रा कर्तुमना धर्म-पुत्रोऽभूत सिद्धपर्वते / / एकभुक्तं मया कार्य तावन्नित्यं जिनाधिप ! / यावन्न नम्यते शत्रु-अये आदिजिनेश्वरः // चिन्तयत्यन्यदा धर्म-पुत्रो गन्तुं शिवाचले / पाण्डुः सुरो दिवोऽभ्येत्य बभाषे तं शुभोदयात् / / सिद्धधात्रीधरे देवान् वन्दस्व भ्रातृसंयुतः / साहाय्यं ते करिष्यामि प्रौढपुण्योदयान्ननु // पितुरेतद्वचः श्रुत्वा प्रेष्य कुङ्कुमपत्रिकाः / यात्रायै भूपतीन् भूरीन्नाकारयधुधिष्ठिरः / / सुदिने रैमये देवा-लये विम्बं जिनेशितुः। स्थापयित्वाऽचलद् भूरि-भूपेभ्यलोकयुग नृपः॥ तदा शतत्रयं स्वर्ण-मया देवालया वराः। अन्येषामचलन् रूप्य-मयाश्चाष्टौ शतानि च / कोटिद्वयमिताः श्राद्धा-स्तस्मिन् सधेऽमिलस्तदा / आचार्याणां शतान्यष्टौ सहस्राण्यष्ट साधवः // भूपा अष्टौ शतान्येव महेभ्याः कोटिरेव च / लक्षार्द्धं कुञ्जरा अश्वा लक्षाण्यष्टौ तदाऽचलन् / ग्रामे ग्रामे पुरे पुर्या पूजां कुर्वन् जिनेशितुः / शत्रुजयगिरि हर्षा-दारूढः सङ्घसंयुतः // तदा द्वारवतीपुर्याः कृष्णः श्रीसङ्घसंयुतः / तत्रीययो युगादीशं जिनं नन्तुं प्रमोदतः। शृङ्गं मुख्यं प्रियालुं च त्रिःप्रदक्षिणयन्मुदा / कृष्णः पाण्डवसंयुक्तः पादुकामनमद्धरि / मुख्य जिनालये मूल-नायकस्यातिविस्तरात् / पाण्डवा वासुदेवश्च स्नात्रोत्सवमचीकरन् / आरात्रिकं च मङ्गल-दीपकं हरिपाण्डवौ। कुर्वाणौ निवृतेर्यान-योग्यमर्जयतः स्म शम् / अतीव जर्जरं चैत्यं दृष्ट्वा पाण्डवकेशवौ / जल्पतः स्म मिथश्चत्य नव्यमत्र च कार्यते / तदाऽवक पाण्डवो ज्येष्ठ-स्त्वया रैवतकाचले। उद्दभ्रे जिनपागारः स्थापिताः प्रतिमाः पुनः॥ यद्यादेशो भवेत्ते मे तदाऽस्मिन्नर्हदालये / उद्धारं करिष्यामि कल्याणसुखहेतवे // हरिः प्राह यदीच्छा ते चैत्योद्धारकृतेऽधुना / तदोद्धोराऽऽदिदेवस्य चैत्यमेतद्युधिष्ठिर ! // तदा पाण्डुसुरोऽभ्येत्य दत्त्वैकं रत्नमद्भुतम् / जगौ युधिष्ठिरेदानी तीर्थोद्वारेहिता वरा // कीरकाष्ठेरदायैश्चा-भेद्यैश्च बहुवारिभिः / चैत्यमुद्धारयामासा-ऽऽदिदेवस्य युधिष्ठिरः / / पारिजातनुशाखाभिः शक् शल्यि समीपतः / अद्भुतं कारयामास युधिष्ठिरनरेश्वरः // बिम्बलेप्यमयं मध्य-स्थितशत युधिष्ठिरः / कारयित्वा मणिं तं च हृदि तस्याध्यतिष्ठिपत् / नेमेराद्यो गणाधीशो वरदत्तो वरेऽहनि। बिम्ब प्रत्यतिष्ठिपत्तस्मिँ-श्चैत्ये पाण्डवकारिते // पूजामष्टविधां कृत्वा सङ्घयुग धर्मनन्दनः। महाध्वजं ददौ चैत्ये तस्मिन् सूत्सवपूर्वकम् // आदावारात्रिकं कृत्वा ततो मङ्गलदीपकम् / वरदत्तगुरूपान्ते शुश्राव धर्मसूवृषम् // पूजा कृता प्रभोर्येन पुष्पेनकेन देहिनो / तस्य पाणितले स्वर्गशिवश्रीरेति लीलया // ततो द्वारवतीपुर्यां गत्वा नत्वा जिनेश्वरम् / पाण्डुसू नुः समायातः सूत्सवं नगरे निजे // अन्यदा नारदं तत्रा-यातं वीक्ष्य च वेदिजा / न गौरवं यदा चक्रे तदा रुष्टोऽथ नारदः / ततश्च