________________ पाण्डवचरित्रम् 42 विधायाशु तस्योपरि स्थिता च सा / तथापि न फलान्यात्तुं समर्था साऽभवद् यदा / तदा कलेवरैरन्यै-रुच्च. स्थानं व्यधात्पुनः / तदा तु प्रकटीभूत्वा प्रोवाचेति रमाधरः / किमीग् दृश्यते निन्द्यं भवत्या विहितं खलु ? // ततोऽतिलज्जितातीव क्षुधया पीडिता सती / गान्धारी कमलेशस्य पुरस्तादित्यवक् स्फुटम् / / वासुदेव! जरा कष्टं कटं वैधव्यवेदना। पत्रोणां मरणं कष्टं कष्टात्कष्टतरा क्षुधा॥ यतः-"पञ्च नश्यन्ति पद्माक्षि ! क्षुधातस्य न संशयः / तेजो लज्जा मतिर्ज्ञानं मदनश्चापि पञ्चमः // 1 // जीवंति खग्गछिन्ना पव्वयपडियावि केवि जीवंति / जीवंति उदहिपडिया कुच्छिछिन्ना न जीवंति // 2 // जीवंति अवडपडिया भयरवपडिया पुणोवि जीवंति / जीवंति खगछिन्ना कुच्छि० // 3 // भूख मे मारी तू' भणउं सब्बावाइ माई / मारिय कुडिया बहिरा माणुस आणइ ठाइ / / 4 // " ततः कृष्णो जगौ पूर्व-कृतदुःकर्मतो दृढम् / न छुट्टन्ति सुराः शक्रा भूपोस्तीर्थकरा अपि // अटव्यां करिणं हन्तुं व्याधेन सन्धितः शरः। व्याधं हन्तुं तदा ध्यातं करिणा स्वीयचेतसि / / वृक्षस्थेनाहिनो व्याधो निहन्तुं वाञ्छितस्तदा / अत्रान्तरे समायातो गजस्तरोरधः पुनः॥ तदा व्याधः शरं क्षिप्त्वा गजं हन्तुं स्ववीयतः / यावद्धस्त्यन्तिके यातस्तावत् स पतितो भुदि / हस्तिना पतता व्याधः प्रपितो यमसदानि / व्याधेन पतता सर्पो गमितो यममन्दिरे / / तदैकेन बुधेनेति ज्ञात्वा तेषां विचेष्टितम् / अनित्यज्ञापनायेति श्लोक एक प्रजल्पितः। " अन्नं गयस्स हियए अन्नं वाहस्स संधियसरस्स / अन्नं फणिगो हियए अन्नं हियए कयंतस्स // 1 // " पञ्चाशत्कोटि भूपीठे अनन्ते च नभस्थले / मिते पाशेविपत्यादेः (त्यादिः) पक्षिणो विधियोगतः // कृतकर्मसमूहेभ्यो न छुट्टन्ति शरीरिणः / अतः शोको न कर्त्तव्यः पण्डितेन हितेच्छुना / / यतः-"धर्म-शोक-भयाहारनिद्रा-काम-कलि-क्रुधः / यावन्मात्रा विधीयन्ते तावन्मात्रा भवन्त्यमी // 1 // " त्यक्ते शोके तदा देव्यो गान्धार्या कमलापतिः / दाहं दुर्योधनादीनां देहिनां विदधेतराम् / तत उत्थाय गान्धार्या पतित्वा पदयोभृशम् / युधिष्ठिरो जगौ मात-स्त्वमस्माकं मनोहरा / / कुन्तीमिव भवन्ती च स्वन्नपानादिदानतः / सततं पालयिष्यामो वयमादरपूर्वकम् / / यतः- " नात्मीयं न हि परं सुजना मन्वते क्वचित् / दुर्जनानां तु न तथा जायन्ते मानसं मनाग / / 1 / / " ततोऽभ्येत्य निजे स्थाने समेत्य धर्मनन्दनः / कृष्णाबन्धुभिः साई बुभुजे भक्तिपूर्वकम् / / कुन्त्यो इव तु गान्धोर्या दत्त्वा भोजनमादितः / भूक्ते युधिष्ठिरो भ्रातृ-सहितः प्रतिवासरम् / / ततस्तैबन्धुभिः पाण्डु-पुत्रैः सार्धं रणाङ्गणे / कृष्णो न्यह जरासन्धं त्रिखण्डमेदिनीपतिम् / / ततो द्वारवतीपुर्या कृष्णो राज्याभिषेकतः / राज्येऽस्थापि महीपालैः समुद्रविजयादिभिः / / कृष्णराज्यप्राप्तिसम्बन्धः कृष्णचरित्राज्ज्ञेयः // मुत्कलाप्य ततः कृष्णं पञ्चापि पाण्डवाः क्रमात् / हस्तिनागपुरेऽभ्येत्या-ङ्गीचक्रे राज्यमात्मनः॥ प्रातरुत्थाय सततं स्मृत्वा पञ्चनमस्कृतिम् / नत्वा जिनं पदौ मात्रो-र्नेमुस्ते पाण्डुनन्दनाः // हस्तिनागपुरे पाण्डु-पुत्रान् न्यायाऽध्वना प्रजाः, पालयन्तो वितन्वन्ति धर्मं सर्वज्ञभाषितम् / / यतः-" निर्दन्तः करटी हयो गतजवश्चन्द्रं विना शर्वरी, निर्गन्धं कुसुमं सरो गतजलं छायाविहीनस्तरुः / रूपं निर्लवणं सुतो गतगुणश्चारित्रहीनो यतिः , निर्देवं भवनं न राजति तथा धर्म विना मानवः // इतश्च विहरन्नेमि-हस्तिनागपुरसन्निधौ / वप्रत्रयकृते देवैः सुराWः समवासरत् / / तदा युधिष्ठिरो भ्रातृ-मातृपत्नीसुतान्वितः / धर्मोपदेशनां श्रोतुं प्रभोरग्रे ह्युपाविशत् / तथाहि"आदित्यस्य गतागतरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते / दृष्ट्वा