________________ 48 शत्रुञ्जय-कल्पवृत्ती युद्धं वितन्वानं दृष्ट्वा धनञ्जयस्तदा / प्राववत रिपून् भूरीन् शमनोपमविक्रमः / / वासरान् द्वादशाभीक्ष्णं कुर्वन् युद्धं धनञ्जयः / जघान विद्विषो भूरीन् यमसन्निभविक्रमः / / भगदत्तं नृपं धार्त्त-राष्ट्रस्य सेवकं वरम् / नन्तं निजबलं दृष्ट्वा फाल्गुनस्तमयोधयन् / / पार्थस्तीक्ष्णशरै भित्त्वा भगदत्तं महीपतिम् / अजीगमद्यमावासं भूरिसेवकसंयुतम् / / भगदत्ते हते चक्र-व्यूहं दुर्योधनो व्यधात् / सप्तभिर्वलयैर्युक्तं दुर्लक्षागमनिर्गमम् / / चक्रव्यूह द्रुतं मित्त्वा भीमोऽभिमन्युसंयुतः / प्रविष्टो विदधे युद्धं भूपैर्दुर्योधनादिभिः / / सुयोधनमुखर्धार्त्त-राष्ट्रजैः सबलरपि / भीमादिषु च रुद्धेष्व-भिमन्युर्व्याकुलोऽजनि // अभिमन्यु दिनप्रान्ते जघानाशु जयद्रथः / अभिमन्यु हतं पार्थो मत्वा क्रुद्धोऽभवत्तदा / / विलोक्य कटकं सर्व शत्रोर्जयद्रथं नृपम् / कपिध्वजो यमाषासं गमयामास वेगतः / / भीमस्तत्र रणं कुर्वन् हत्वा शत्रून् बहूँस्तदा / चक्रव्यूहाद्वहिः शीघ्र निरगादक्षपागकः // पार्थः कुर्वद्रणं कर्ण-मप्रेषयद्यमालयम् / विराटद्रुपदौ द्रोणो निनाय यममन्दिरम् // उक्तञ्च-" रणे चतुर्दशदिनाऽवधौ क्षयमुपाययुः / धार्तराष्ट्रस्य सप्ताप्य-क्षौहिण्योऽक्षीणदुःखदाः // 1 // " हते मालवभूभर्तु-रइवस्थामाभिधे गजे / धर्मपुत्रो जगावश्वस्थामाय मृतोदितः // श्रुत्वैतद्वचनं द्रोणो-ऽश्वस्थामाह्र निजं सुतम् / मन्यमानोऽमुचत्तूणं हस्ताहःखेन पीडितः / / तदा कृष्णगिरा पार्थो व्यधाद्राणं तथा शरैः / यथा पपात भूपीठे महापर्वतशृङ्गवत् // क्षणाद्धर्मसुतः प्राह न नरः कुऊजरो हतः। ततो द्रोणो जगौ कृष्ण! न मेऽगात् प्राणधारणा / / बाणविद्धतन्द्रोणो लात्वाऽनशनमजसा / कृत्वा क्षपणकं ब्रह्म-लोकं त्रिदिवमीयिवान् / / हतं स्वपितरं मत्वा-ऽश्वस्थामा कूटजल्पनात् / वैरिसेनामिपुत्रातै-ाकुलां विदधेतराम् / सहदेवो रणे शत्रून् भूरीन् यमगृहेऽनयत् / नकुलोऽप्यनयद्धार्त राष्ट्र पुत्रं बलाभिधम् / / एवं परस्परं युद्धं कुर्वतो-बलयोर्द्वयोः / अनेके मेदिनीपाला जग्मुर्यमनिकेतनम् // अथ दुर्योधनः क्रुद्धो भीम-पुत्रं घटोत्कचम् / अवधीदसिना निघ्नन् भूरि पार्थिवनन्दनान् / / मुरेण कर्दमे क्षिप्ते रथे रविसुतं रणे। धनजयो यमावासं प्रेषयामास लीलया / / भीमोऽथ गदया शत्रून् निनन् दुर्योधनान्तिके / ययौ यावत्तदा धार्त-राष्ट्रोऽमुश्चच्छरावलीम् / / धार्तराष्ट्रसुता ये ये भीमं हन्तुं समुत्थिताः / भीमेन गदया ते ते प्रेषिता यममन्दिरम् / भीमेन कुर्वता धार्त-राष्ट्रेण सह सङ्गरम् / अनेके प्रेषिता वैरिभूपाला यममन्दिरम् / / भीमेन गदया धार्तराष्ट्रस्तथा हतो हृदि / यथा दण्डधरावा स-मलञ्चके समाधिना // दुर्योधने हते वायु-स् नुना समराङ्गणे / पुष्पवृष्टिं सुराश्चक्रुः पाण्डवानां शिरस्सु तु // यतः-" धरान्तस्थं तरोर्मूल-मुच्छ्रयेणोनुमीयते / तथा पूर्वकृतो धर्मो-ऽप्यनुमीयेत सम्पदा // 1 // राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपता / पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः // 2 // धनदो धनमिच्छूनां कोमदः काममि. च्छताम् / धर्म एवापवर्गम्य पारम्पर्येण साधकः / / 3 // " तदा रणक्षितावेत्य गान्धार्यवग हरि प्रति / मया न भोक्ष्यते किन्तु धुक्ष्यते तनयः समम् / तदा प्राह हरिः कार्य न काष्ठाग्निप्रवेशनम् / यतो दुर्गतिपातः स्या-त्काष्ठभक्षणतो नृणाम् / / यतः -" रज्जुग्गह-विसभक्खण-जलजलणपवेसतण्ह छुहदुहओ / गिरिसिरपडणाउ मुआ सुहभावा हुंति वंतरिआ / / इत्युक्ते हरिणाऽत्याक्षीगान्धारी न कदाग्रहम् / यदा तदाऽखिलो लोकः पुरमध्ये समीयिवान् / / रात्रौ कृष्णे स्थिते छन्नं गान्धारी लग्नक्षुद् यदा / तदा तत्र वरचूतः फलितोऽकारि नाकिना / क्षुधातुरा तु गान्धारी तस्याम्रस्य फलानि तु / अत्युच्चत्वाद् गृहीतुं न शक्तोऽजनि मनागपि / / ततो भूरितनूजानां भूरिभिश्च कलेवरैः। उच्चस्थानं