________________ पाण्डवचरित्रम् रिपुमल्लादयोऽनेके मिलितास्तस्य भूपतेः / / मन्त्रीशैः कुशकुनैश्च वार्यमाणोऽपि भूरिशः / जरासन्धोऽचलस् चम्बा-चालयन् पृथिवीतलम् / / जरासन्धं समायात-माकर्ण्य नारदाननात् / कृष्णोऽपि कृष्णवर्मेष क्रोधाग्निज्वलितोऽजनि // पार्वे श्रीवासुदेवम्य समुद्रविजयो नृपः / महानेमिर्मरुन्नेमिः सत्यनेमिर्धनञ्जयः / / अरिष्टनेमिकल्याण-नेमी केसरिवाहनः / जयसेनो महासेनः शिवानन्दः शिवाङ्गजः // तेजःसेनो महाविष्णुमहांसो गौतमो बली / इत्योदयो महायोद्धा बहवो मिलिताः क्रमात् / / अनेके यादवा राज-पुत्राः प्रबलविक्रमाः / कृष्णसन्येऽमिलन् जेतुं वैरिचक्रं कृतत्वराः / / प्रद्युम्नशाम्बसारङ्ग-प्रमुखाः कृष्णनन्दनाः / बभूवुर्वैरिणं जेतुं सज्जाः स्फुटभुजाबलाः / / दर्शार्हाणां सुताश्चान्ये रामस्य नन्दना वराः / उग्रसेनादयो भूपा आसन् सज्जाः महौजसः // शुभेऽह्नि शकुनवर्यैः कृत्वाऽर्हत्पूजनं पुष्पैः / चाल वैरिणं जेतुं विष्णुभूरिबलान्वितः / / पञ्चाशद्योजनान्यास ( नैरर्वाक ) स्वपुरात्कमलापतिः / शनिपल्याभिधे ग्रामे तस्थौ सङ्ग्रामहेतवे / / चतुर्भिर्योजनैराग् जरासन्धबलं महत् / विष्णोर्बलात् स्थितं वाञ्छन् रणं कर्तुं सहारिभिः // इतो विद्याधरा भूरि-विद्याः प्रीतिजुषोऽनघाः / कृष्णसैन्ये समागत्याऽनमन् कृष्णस्य भूपतेः।। आदौ दुर्योधनो ज्ञात्वा यादवान् पाण्डवान् बहून् / प्रणम्य मगधाधीशं व्यजिज्ञपदिति द्रुतम् / / कृष्णसैन्येषु सन्त्येव बलिष्ठाः पञ्च पाण्डवाः। तानादौ समरे शत्रून् हनिष्यामि पृथग रणैः // इतः (ततः) कृष्णो रिपुः सद्यो भवता घातयिष्यते / दुर्योधनो जरोसन्धा-देशाद्रणोद्यतोऽजनि / / इतो मुकुन्दमापृच्छय पाण्डवा अपि युत्कृते / अमेलयद् बलं भूरि हन्तुं शवनशेषतः / / दुर्योधनबलं लात्वा भूरि कुरुक्षितौ द्रतम् / गत्वा रणाय विदधे स्वान्ते हितावनीतलम / / अक्षौहिण्योऽभवन्नेका-दश दुर्योधनेशितुः / अक्षौहिण्यो बभुः सप्त पाण्डवानां बले तदा / / कुटुम्बकलहं दृष्ट्वा पाण्डुभूपोऽथ संयमम् / लात्वा जगाम गीर्वाण-सदनेऽनघमानसः / / मुकुन्दः सारथीभूतः फाल्गुनस्य रथे तदा / कुरुक्षेत्रे समाजग्मुः पाण्डवा अपि सद्बलाः / / नदत्सु रणतूर्येषु सैन्ययोरुभयोस्तदा / सझामं सुभटाः कत्तुं प्रवृत्ता रणभूमिषु // दण्डादण्डि तदा खड्गा-खड्गि शराशरि स्फुटम् / तेषु कुर्वत्सु शूरेषु द्रष्टुमैयुः सुरा अपि / / अभिमन्यौ शरश्रेणी वर्षत्येव पयोदवत् / दुर्योधनबलं भग्नं गतं च विशरारुताम् / / तदा कृपः शरश्रेणी मुश्चन् लक्षप्रमाणतः। पाण्डवानां बलं चक्रे विहस्तमभितो भृशम् / / विहस्तं स्वबलं दृष्ट्वोत्थाय फाल्गुननन्दनः / मुश्चन् बाणान् कृपं चक्रे जर्जरं जीर्णवस्त्रवत् / / दुर्योधनसुतः पार्थ-सू नुरुत्थाय तत्क्षणात् / तथा प्रचक्रतुयुद्धं द्रष्टुमेयुः सुरा यथा / / समामायोत्थिते भीमे उदस्थाद् धर्मनन्दनः / व्यालोडयन् रिपोः सैन्यं बाणश्रेणिविमुञ्चनात् / / भीष्मोऽपि विशिखश्रेणी तीक्ष्णां मुश्चन् द्विषः प्रति / सद्यो व्यावतयामास धर्मसूनुं रणाङ्गणात् / / भीमो रथचीत्कारैः क्षोभयन् संगरे जगत् / शत्रून् हन्तुं ययौ वैरि-सेनामध्ये सुविक्रमः // दुर्योधनोऽथ दुष्टात्मा हन्तुं भीमं कृतत्वरः / शत्रून् निघ्नन् ययौ भीम-समीपे यमसोदरः / तदा तथाऽभवशुद्धं वायुसूधार्तराष्ट्रयोः / यथा समाययुद्रष्टुं विद्याभृतः सुरा अपि // उत्तरायामुचच्छक्तिं शल्यभूपस्तथा करात् / यथा यमगृहं सद्योsलञ्चकार गमान्निजात् / / युद्धं कुर्वन् नदीपुत्रं तृषात्तं च धनञ्जयः / पाययित्वा जलं प्राहो-त्तिष्ठ युद्धं कुरुत्तम ! / / तदा कृष्णो जगौ धार्त-राष्ट्र ! सन्धेहि पाण्डवैः / सन्धि दुर्योधनो नैव चक्रे स्वबलगर्वितः / / तत्र भूरिमनुष्याणां संहारं वीक्ष्य संगरे / लात्वा दीक्षां नदीपुत्रो द्वादशस्वर्गमीयिवोन् / ततो दुर्योधनो द्रोणं सेनानी चक्रिवान् द्रुतम् / तस्मै वितन्वते युद्धं पार्थो नमस्कृति व्यधात् // द्रोणं