________________ शत्रुअय-कल्पवृत्ती दितं तेभ्यो-ऽज्ञापयन्निखिलं तदा // दुर्योधनस्य राज्येच्छा विद्यतेऽत्यन्तमात्मनि / या सा तु पूर्यते युद्धे जीवितव्यापहारतः / / राज्यलक्ष्म्यान्धलीभूतो दुर्योधनो दुराशयः / हितं वाक्यं न मन्येत पित्रादीनामपि स्फुटम् // यतः-" न पश्यति हि जायन्धः कामान्धो नैव पश्यति / न पश्यति मदोन्मत्त अर्थी दोषं न पश्यति / / 1 // " राज्यलक्ष्मीमदोन्मत्तः पितरं मातरं गुरुम् / सुहृदं बान्धवं पुत्रं तृणाय नैव मन्यते // युधिष्ठिरो जगौ युद्धे संहारो जायते नृणाम् / तथापि पूर्यते वाञ्छा दुर्योधनस्य साम्प्रतम् // विचार्येति तदा कंसा-रिणा सार्द्धं तु पाण्डवाः / सैन्यबन्धं व्यधुः सद्यस्तस्य शत्रोर्मदच्छिदे // यादवा मत्स्यराट् धृष्ट-शुम्नप्रद्युम्नसुन्दराः। सत्यकि-प्रबलाविष्ट-निविष्टाद्या महाभटाः / / पार्थपुत्रोऽभिमन्याह्वो भीमसू नुर्घटोत्कचः / इन्द्रचूडो मणिचन्द्र-श्चन्द्रचूडो वियद्गतिः / / महाबलो महावीर्यों महावेगो महामनाः / महासेनो महामनो महावीरो महाभटः / एवंविधा भटा युद्ध-कम्मैककुशलास्तदा / मिलिताः पाण्डवानां तु सैन्ये सङ्खयातिगाः किल || कर्णं धनञ्जयो हन्तुं पार्थं कर्णोऽपि वाञ्छति / भीमं दुर्योधनो भीमो धोतराष्टं समीहते / / भीष्मः कृपो गुरुद्रौणः शल्यः शकुनि रङराट / भगदत्तो महादन्त-सोमवाद्धीकशुक्तयः / / सौवलोलूककल्योण-वर्माणो वृषवाहनः / भूरिश्रवाः युवा कृष्ण-वर्मा हलायुधो धनी // एवं भूरिबलं धार्त-राष्ट्रस्य मिलितं तदा / दृष्ट्वा गोत्रवधं मत्वा विदुरो व्रतमाददे // हन्तुं पाण्डुसुतान् पञ्च प्रतिज्ञां कुर्वतः किल / जयद्रथस्य श्रुत्वाऽवग् धनञ्जयो महाभुजः / यतः-अनध्याये दिने छात्रान् पाठयेत् पण्डितः कुधीः। तेन पापेन लिप्येहं यन्न हन्यां जयद्रथम् // एककूपादके ग्रामे धर्मकर्मविवर्जिते / तेन पा०॥ शीतभोताश्च ये विप्राः क्षत्रिया रणभीरवः / तेषां पा०॥ श्वानकुर्कुटमार्जारान् ये पुष्यन्ति दिने दिने / तेषां पा०॥ कूटसाक्षी कृतघ्नश्च सुरापो वृषलीपतिः / तेन०॥ अन्नदाता भयत्राता यो गुरुं नाभिमन्यते / तेन०।। सोदरे यस्य न प्रीतिः प्रोतिः स्यादितरे जने / तेन पा०॥ कुन्त्या कर्णः स्वसुनुत्वं ज्ञापितोऽपि जगाविति / पूर्व मया कृता सेवा दुर्योधनत्य ,भूभुजः // अधुना मुञ्चतो मेऽत्र दुर्योधनस्य सन्निधिम् / का शोभा जायते बाढ-मकीर्त्तिश्च प्रजायते / / माताऽपत्यस्य वाञ्छेत हितमेव महीतले / अहं तु दुर्योधनं मोक्तुं न शक्तोऽस्मि मनागपि / / कुन्ती जगौ तु सर्वेषां माता मान्या निरन्तरम् / कर्णोऽवग वेम्यहं ताव-कीनोक्तं क्रियते किमु ? / / इतश्च यवनद्वोपात् वणिजो रत्नकम्बलान् / विक्रीय द्वारकापुर्यां जग्मू राजगृहं पुरम् / / जरासन्धाङ्गजां जीव-यशसं चाल्पमूल्यतः / गृह्णानां वाणिजः क्रुद्धास्तत्र तामिति चुक्रशुः // अस्माभिरिकायां तु कृष्णभूपस्य वल्लभाः / ललुर्द्विगुणमूल्येन भवजल्पनमूल्यसः।। श्रुत्वैतज्जीवयशसा प्रोक्तं कः कृष्ण उच्यताम् / तैरुचे निहतः कंसो यतः स कृष्ण उच्यताम् // आकण्यैतद्वचो जीव यशा रोदनतत्परा / पितुः पाश्र्व समेत्याऽवक् कृष्णादियादवस्थितिम् / / यदि त्वया न हन्येत कृष्णो मे पतिघातकः / तदा ते जीवितं नास्ति ममापि तात ! साम्प्रतम् // यतः-" अणथोवं वणथोवं अग्गियोवं कसायथोवं च / न हु मे वीससिअव्वं थेवेपि कसायसेसम्मि // 1 // " वृश्चिकानां भुजङ्गानां दुर्जनानां च वेधसा। विभज्य नियतं न्यस्तं विषं पुच्छे मुखे हृदि / / वैरं वैश्वानरो व्याधि-वादव्यसनलक्षणाः / महानाय जायन्ते वकाराः पञ्च वर्द्धिताः // श्रुत्वेति नन्दिनीवाक्यं जरासन्धो रुषारुणः / बभूव वैरिणं हन्तु-मुद्यतस्तत्र निर्दयम् / / वणिजा सन्निधौ सम्यक् पृष्ट्वा कंसरिपाः स्थितिम् / जरासन्धोऽभवत्कृष्णं रिपुं हन्तुमजायत / सहदेवादयः पुत्रा लक्षशश्चेदिभूपतिः। शिशुपालो मरुत्तेजाः स्वर्णनाभश्च रुक्मिराट् // धरापालो धराधीशो महोजा मजकेसरी /