________________ पाण्डवचरित्रम् निजं राज्यं मंदाननात् / / दुर्योधनो जगौ दूत ! पाण्डवा मूढमानसाः / गतं राज्यं हरेरास्या-द्याचन्ते न हि तद्वरम् / / विराटनगरस्थस्तैः स्वस्य ज्ञापनतस्तदा / खण्डिता स्वप्रतिज्ञा तु पाण्डवैर्मुग्धबुद्धिभिः / / इतः प्राह प्रतिज्ञा स्वा-मापूर्य पाण्डुनन्दनैः / विराटनगरे प्रादु-भूतं विद्धि सुयोधन ! / / मासानामधिकानां तु गणनात्पाण्डुनन्दनः / प्रतिज्ञा पूरिता स्वीया वाञ्छद्भिर्धर्ममात्मनः / / दुर्योधनोऽभणहत ! गच्छ त्वं पाण्डवान्तिके / युद्धं विना न दास्येऽहं तेभ्योऽपि ग्राममेककम् / / यद्योगच्छन्ति ते पाण्डु-पुत्रा युद्धकृते त्विह / राज्याशां पूरयिष्यामि तेषां वधप्रदानतः / / ततो दूतो जगौ पाण्डु-पुत्राः सम्प्रति दुर्दमाः / विद्यन्ते दास्यते तेन राज्यं तेभ्यस्तदीयकम् / / तावकीनं त्वकं राज्यं भुक्ष्म पित्रापितं खलु / क्रियते नान्यराज्याशा दुःखदौर्गत्यदायिनी / / दुर्योधनोऽवदद् ते राज्यं तैरेरितं पुरा / लभन्ते ते कथं राज्यं मत्तः सम्प्रति दूतराट् / / सोऽथ पश्चात् समेत्यावग् टुयोधनोदितं समम् / ततस्तत्र हरिर्गत्वा जगौ दुर्योधनं प्रति / / आदौ तेषां समं राज्यं तेभ्य एव प्रदीयते / ततः कीर्तिः प्रजायेत भवतो जगतीतले / / धार्तराष्ट्रसुतोऽभाणीद्राज्यं तैरेरितं पुरा / मार्गयद्भिर्न लज्येत साम्प्रतं पाण्डुनन्दनः / / कृष्णोऽवग-महीलवकृते युद्धं न बुधैः क्रियते मनाग् / अतस्ते मार्गयन्ति स्म साम्प्रतं ग्रामपञ्चकम् / / उक्तञ्चइन्द्रप्रस्थं निलप्रस्थं वारुणावतमेव च / कासीं च हस्तिनाख्यं च देह्यभ्यो ग्रामपञ्चकम / / दर्योधनोऽ. भणत् कृष्ण ! विना युद्धं कदाचन / क्षेत्रमेकं प्रदास्यामि पाण्डवेभ्योऽहमत्र तु / / कृष्ण उवाच- अथवा ग्राममेकं हि तेभ्यो देहि कुरूत्तम ! / यशो भवति संसारे कुटुम्बे जायते रसः / / तदा कृष्णाग्रे धृतराष्ट्र उवाच-यत्त्वया भाषितं कृष्ण ! सर्वं सत्यं यथोचितम् / दुर्योधनो मदेनान्धो न करोति ममोदितम् // दुर्योधनोऽवग् तदेति-सूच्यग्रेण सुतीक्ष्णेन भिद्यते यावती मही / तावन्तों नैव दास्यामि विना युद्धेन केशव ! // कृष्णोऽवग्-पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः / युद्धे विजयसंदेहः प्रधानपुरुषक्षयः // मन्त्रहीनं हतं राज्यं मन्त्रहीनं न मन्दिरम् / मन्त्रहीना हता लक्ष्मीमन्त्रहीनो हतो नृपः / / दु० उवाच-अथ गृद्घोदरे वासो वासो वा हस्तिनापुरे / अथ दुर्योधनो राजा राजा वा पाण्डुनन्दनः / / धृतराष्ट्रो दुर्योधनस्य पुरः प्राह-एषा दिव्या गतिर्वत्स ! लक्ष्मीः कस्य न जायते / अकृतार्थ गते कृत्स्ने सर्वनाशो भविष्यति / / सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः / अर्द्धन कुरुते कार्य सर्वनाशो हि दुस्तरः / / द्वावेतौ मूर्खराजानौ दुर्योधनदशाननौ / गोग्रहं वनभङ्गं च दृष्टवा यौन निवर्तितौ // तदा कृष्णो धृतराष्टस्याग्रे प्राह-एप दर्योधनो राजा मधपिङललोचनः / न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति // हेमन्ते प्रथमे मासे त्रयोदश्यां तिथौ सिते / प्रवृत्तं भारतं युद्धं नक्षत्रे यमदेवते / / दुर्योधनान्तिकेऽभ्येत्य केशवः प्रोक्तवानिति / अधुना पाण्डवा जाता बलिष्ठी नन्दनादिभिः // हिडम्ब-कीचक क्रूर-बक-किर्मीरराक्षसान् / जघान वायुसूर्यत् तच्छतं भावि त्वया पुरा / / अपाये पतितः प्राणा-पहारे त्वं पुरा हि यत् / पार्थेन रक्षितस्तत्र तच किं विस्मृतं तव ? // धर्मपुत्रस्त्वयेदानी विद्यते हितकारकः / तेन कत्तुं न युज्येत युद्धं राज्यं तु दीयते // दुर्योधनोऽगदत् सूची-प्रान्तमात्रां वसुन्धराम् / विना युद्धं न दास्यामि तेभ्यः कृष्णाऽवधारय / / भीष्म-द्रोण-कृपाचार्य-विदुराद्यास्तदाऽ गदन् / स्वभ्रातृभ्यो वितीर्यंत मार्गितं ग्रामपञ्चकम् / / तद्वाक्यस्ताडितोऽत्यन्तं तीक्ष्णबाणैरिवामितः / दुर्योधनोऽज्वलत्क्रोध-वह्निना हृदि दुर्मतिः // भीष्माद्या जगदुः कृष्ण ! गच्छ पाण्डवसन्निधौ / तेभ्यो लबमात्रां मां धार्तराष्ट्रो न दास्यति / / ततः कृष्णः समागत्य पश्चात् पाण्डवसन्निधौ / दुर्योधनो- .: