________________ 44 शत्रुञ्जय-कल्पवृत्ती गुणप्रकर्षों विनयादवाप्यते / गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः // 1 // " दर्शयित्वा निजं देहं दुर्योधनाय फाल्गुनः / ययौ विराटनगरो-पान्ते चोत्तरसंयुतः / याम्युत्तरदिगायातौ वैरिणौ लजितौ स्वयम् / ययतुः स्वपुरे ज्ञात-पाण्डुभूपाङ्गजस्थिती / / इतो भीमस्य सान्निध्याज जित्वा शत्रून् क्षणादपि / सूत्सवं स्वपुरीमध्ये विराटः समुपागमत् / / अर्जुनोऽवग् मया यद् यत् कृतं चोपरि विद्विषाम् / तत्तत्त्वया पितुः पार्वेऽकथ्यं दिनत्रयावधि / / यौवनेऽपि प्रशान्ता ये ये च हृष्यन्ति याचिताः / वर्णिता ये च लज्जन्ति ते नरा जगदत्तमाः // उत्तरं वैरिणं हन्तुं यातं मत्वा महीपतिः / सन्नह्य यावताऽचाली-द्रिपुसैन्यवधेच्छया / / तावदेको नरोऽभ्येत्य जगौ ते भूप ! नन्दनः / विजित्य विद्विषोऽशेषा-नुद्याने समुपागमत् / / तदा कङ्कोऽगदद्यस्य सारथिः स्याद् बृहन्नटः / तस्य हस्ते समायाति जयश्रीवैरिणां वधात् / / इतोऽकस्मादवारुह्य रथादुत्तरनन्दनः / नत्वा तातं जगौ सर्वे वैरिणो विजिता मया / उत्तरो विद्विषोऽशेषान् जित्वा यदाऽऽगमद् गृहे / तदा नरेश्वरोऽकार्षी-नन्दनस्य जयोत्सवम् / / चतुर्थेऽह्नि कृताप्तार्चा-क्षुद्रदेवोल्लसद्वलिः / युधिष्ठिरः स्ववेषाढ्यो भीमादिभ्रातृसेवितः // यावदायाति भूपाल-सभायां मदनोपमः / तावत्तान् पाण्डवान् ज्ञात्वो-त्तस्थौ विराटभूपतिः॥ युग्मम् / / विराटः स्वासनारूढं कृत्वा युधिष्ठिरं बलात् / नत्वाऽवगपराधं यत् कृतं तत् क्षम्यतां मम / / युधिष्ठिरो जगौ युष्मत्पार्वेऽस्माभिः सुखं स्थितम् / प्रतिज्ञा पूरिता चात्र पुर्या प्रसादतस्तव // यतः-“गुणदोषसमाहारे गुणान् गृहन्ति साधवः / क्षीरनीरसमाहारे हंसाः क्षीरमिवामलम् // 1 // " स्वगुणं परदोष वा वक्तं याचयितुं परम् / अर्थिनं च निराकर्तुं सतां जिह्वा जडायते / / स्वश्लाघो परनिन्दा च मत्सरो महतां गुणे / असम्बद्धप्रलापित्व-मात्मानं पातयत्यधः / / विराटोऽवगिदं राज्य-मिभाश्वादिविभूषितम् / अङ्गीकुरु प्रसद्येह धर्मसूनो युधिष्ठिर ! // प्राह धर्मसुतो मत्स्य-भूपते ! सू नुना समम् / राज्यं कुरु चिरं देशा-न्तरेऽस्माभिर्गमिष्यते / / ततो विराटभूपालः प्राह धङ्गिजं प्रति / कियन्तो दिवसो अत्र स्थातव्यं सुखतः खलु / / अथाऽऽययौ हरिभर-वत्या मत्स्यपुरे वरे / मिलितुं पाण्डवानां तु समागादभिमन्युयुग / / विराटः केशवं सुष्ठ-भक्तपानादिदानतः / भक्त्या गौरवयाञ्चक्रे वर्यवत्रपदानतः // तदा विराटभूपाल उत्तरां निजनन्दिनीम् / वरोत्सवं वितन्धानः प्रददावभिमन्यवे / / कृष्णो विराटभूपालं पृष्ट्वा पाण्डुतनूभवान् / समातृकान् निनाय स्वा नगरी लसदुत्सवम् / / यादवानां कनीः कम्रा-श्वतस्रो रुचिरोत्सवम् / चत्वारः पाण्डुतनयाः पर्यणेषुः शुभेऽहनि / अन्येधुर्यादवाः सर्वे पाण्डवा भूपतीन् प्रति / सत्यवाग्भिश्च युष्माभिः सर्वं सेहेऽरिचेष्टितम् / प्रतिज्ञा पूरितेदानीं तेन युष्माभिरञ्जसा / छेद्याः कण्टकिनः सर्वे धात राष्ट्रादयो रयात् // धर्मसूः प्रोक्तवान् को हि लक्ष्मीलवकृते नरः / हन्ति स्वबान्धवान् प्राह भीमो धर्मसुतं प्रति / युष्मद्वचनतोऽस्माभि-वर्द्धमाना द्विषोऽखिलाः / सेहिरे न विदानी ते छिद्यन्ते पादपा इव / / आयुषो राजचित्तस्य पिशुनस्य धनस्य च / खलस्नेहस्य देहस्य नास्ति कालो विकुर्वतः // अर्जुनोऽपि जगौ राज्य-मात्मीयं धार्तराष्ट्रजः / स्वयं न दास्यते चेद्धि हन्तव्योऽसौ तदा मया // नकुलः सहदेवश्च प्रोचतः को हि मानवः / राज्ये सति निजेऽन्येषां लक्ष्मी भुङ्क्ते युधिष्ठिर ! / समुद्रविजयश्रीश-पाण्डवानां निदेशतः / इतो विजयनामाऽगात् हस्तिनागपुरं परम् // दुर्योधनसभायां तु भीष्मादिषु नृपेष्वथ / उपविष्टेषु नृपं नत्वा विजयः प्रोक्तवानिति / / द्वारकाया अहं कंस-द्विषाऽत्र प्रेषितोऽधुना / कृष्णोक्तं त्वं महीपालाऽऽकर्णयाननतो मम / / पालयित्वा प्रतिज्ञां स्वां पाण्डवा आगता इह / याचन्ते भवतः पार्वे