________________ पाण्डेवचरित्रम् त्वमत्रानयताद् द्रुतम् // तैर्वस्वस्त्रवनिताः करिष्यन्ते मनोहराः। अस्माभिर्नर्मणे बाल-क्रीडापराभिरादरात्॥ हसत्सु स्त्रीजनेपूच्चै-रुत्तरश्च बृहन्नटम् / विधाय सारथिं हन्तुं विद्विषोऽचलदञ्जसा // गच्छन् मार्गे श्मशानद्रु-स्थितान्यस्त्राणि वेगतः। आदायाऽथ रथे तस्मि-न्नुपविष्टो बृहन्नटः / / अग्रे महत्तरां सेनां दृष्ट्वा कम्पभृदुत्तरः / रथादुत्तीर्य नश्यन् स धृतः सारथिना जगौ // दृश्यतेऽग्रे महचक्रं तेन युद्धं तु दुष्करम् / वालय स्यन्दनं पश्चा-नागच्छाम्यग्रतोऽधुना / / बृहन्नटो जगौ स्फूर्तिः प्रोक्ता स्वभगिनीपुरः / निर्गतस्त्वं कथं पश्चाद् व्रज हत्वा रिपून विना // यतः-" चलति कुलाचलचक्रं मर्यादामधिपतन्ति जलनिधयः / प्रतिपन्नममलमनसां तथापि न चलति युगान्तेऽपि // 1 // " रणारम्भप्रणयिणां क्षत्रियाणां रिपुग्रहे / जीवितं राज्यलाभाय कीर्तिलाभाय पञ्चता // एतेषां वैरिणां सेना-डम्बराभ्रविभूषिता / ममाग्रे त्वरितं दूरं गमिष्यति न संशयः॥ यतः- “दुद्द(दद्द) ररडियं महिषीण कडक्खयं सेवडाण मंतणयं खमणाण य वक्खाणं साडंबरो निष्फलो चेव // 1 // " कुमारोऽवग् मृते कीर्ति-फलं कोऽत्र निरीक्ष्यते / दृश्यते त्वधुना मृत्यु-र्गतस्य मम संगरे / अर्जुनोऽवग् जगत्यस्मिन् सुयशः सारमुच्यते / नश्यद्भिर्न हि शक्येत वैरिणोऽस्य समीपतः // यतः- " देवोऽपि शङ्कते तेभ्यः कृत्वा विघ्नानि खिद्यते / विघ्नैरस्खलितोत्साहाः प्रारब्धं ये त्यजन्ति न // 1 // " स्वस्थीकृत्योत्तरं पार्थः प्राह त्वं सारथिर्भव / अहं तु वैरिणो जित्वा वालयिष्याम्यर्जुनीः क्षणात् / / वैरिदृग्गोचरं गत्वा वादयन् शङ्खमर्जुनः। यदा तदाऽभवन् सर्वे प्रत्यक्षा वैरिणोऽग्रतः // पार्थो जगावयं गङ्गा-सुतः शक्रसमो बलात् / अयं दुर्योधनो राजा पाण्डवानां रिपुदृढम् / / पाण्डोः सहोदरो ह्येषो विदुरो विदुराग्रणीः। पाण्डवानां गुरुद्रोणो-ऽश्वस्थामाऽयं बली ध्रुवम् / / अयं कर्णो रवेः पुत्रो दानी मानी महाबलः / अयं सुयोधनो भ्राता दुर्योधनस्य दीप्तिमान् // तस्येत्यादि रिपून् भूरीन् दर्शयन्नर्जुनो जगौ / यदीच्छास्ति ततो याहि वस्त्रादिग्रहणेऽधुना // तदैकेन शरेणैव सर्वान् सुप्तान करोम्यहम् / इषुणैकेन सर्वेषां शिर्षाणि मुण्डयामि च // इतो गङ्गाङ्गजः श्रुत्वा शङ्खस्वानं जगावदः / भो दुर्योधन ! वामाक्षी-वेषभृत् फाल्गुनो ह्ययम् // कृत्वा सन्धानमधुना राज्यमद्याऽस्य दीयते / नो चेदयं रिपून प्राप्त-समये च हनिष्यति / / श्रुत्वैतद्गोकुलं लात्वा यावद् दुर्योधनो नृपः / याति तावद्रथं पार्थो- प्रेरयद्वैरिणः प्रति / / अर्जुनोऽपूरयच्छङ्ख तथा यथा तदा रयात् / स्वयं व्याधुटिता गावः उत्पुच्छाः स्वपुरं प्रति // अर्जुनोऽवक त्वया गावो हरता स्वकुलेऽमले / कलङ्कः स्थापितो धार्त्त-राष्ट्रेण नश्यताऽधुना // यतः- " सम्यग शोचेन हीनं क्षुतविवशतनु मुक्तकेशं हसन्तं निष्ठिवन्तं रुदन्तं मदनपरवशं जृम्ममाणं स्खलन्तं / भ्रातभ्रातं विवस्त्रं परिकलितरुषं लङ्घितोच्छिष्ट ध्यानं छिद्रं लब्ध्वा विशन्ति ध्रुवमिह पुरुषं प्रायसो दुष्टदोषाः // 1 // " शात्रवे मिलिते गन्तुं शक्यते किमु वैरिभिः ? / तिष्ठ क्षणं कुरुष्व त्वं रणं बलं प्रदर्शय / / उक्त्वेति फाल्गुनो बाण-धोरणीममुचत्तथा / यथाऽभून्मण्डपोऽरीणा-मुपरि क्षणतोऽभितः॥ ततः सम्मोहनास्त्रेण मुक्तेन फाल्गुनस्तदा / निद्रापितोः कृता भूमौ पतिताः शत्रवोऽखिलाः।। विना भीष्मं द्विषोऽशेषा निश्चेष्टी अभवन् यदा / तदेति शक्रतनयः प्रोवाचेत्युत्तरं प्रति / / दुर्योधनस्य नीलानि वस्त्राणि त्वं विलोकय / पीतान्या विचित्राण्य-न्येषां च मत्स्यनन्दन ! // विलोक्यते दुकूलादि त्वदगिन्याः कृते ध्रुवम् / तत्त्वं गृहाण निःशङ्को यतः सुप्ता द्विषो ह्यमी // केषाञ्चिदुत्तरो दिव्यदकलानि शिरोमणिम् / असिपुत्रीमसिं लात्वाऽऽरूढवान् स्यन्दनं निजम् / अर्जुनो स्वर्नदीपुत्रं नत्वा विनयपूर्वकम् / निद्रोन्मोचकं बाणं मुमुचोपरि विद्विषाम् // यतः- " जितेन्द्रियत्वं विनयस्य कारणं