________________ 42 शत्रुअय-कल्पवृत्ती पाथोधौ मैनिकेभ्यो निरन्तरम् // ततो दुर्योधनोऽप्राक्षीत् वयं नैमित्तिकं रहः / कुत्र सन्त्यधुना पाण्डुपुत्रा ग्रामे वने गिरौ / नैमित्तिको जगौ यत्र धान्यं वप्तं नारक्षितौ / गृह्यते सप्त वर्षाणि सुखिन्यः स्युः प्रजाः सदा // उक्तञ्च-" नाऽनयो यत्र नो भीति-यंत्र नो रोगसम्मवः / लक्ष्यन्ते पाण्डवास्तत्र स्वयमर्हद्विहारवत् // तत्र देशेऽधुना सन्ति पाण्डवा निर्भया नृप ! / ततो दुर्योधनो द्रव्यं वितीर्य विससर्ज तम् / / तदा चरा जगुर्मत्स्य-देशो नैमित्तिकोदितः। विद्यते तेन ते तत्र सम्भाव्यन्तेऽधुना नृप!॥ कथं तत्र स्थिता ज्ञेयास्ते च पाण्डुनृपाङ्गजाः / इत्युक्ते धार्तराष्ट्रेण सुशर्मा छलवान् जगौ // कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् / शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुञ्च मायाम् // 1 // " गम्यते तत्र देशे तु गोकुलं दक्षिणे स्थितम् / वाल. यिष्याम्यहं चादौ यदा पाण्डुसुतास्तदा // एष्यन्ति सुरभीः पश्चात् सद्यो वालयितुं नृप ! / त्वमप्युत्तर. दिग्भागे चरन्तीर्गाश्च वालय // विचार्येति तदा गङ्गा-पुत्रादिभिः सहास्फुटम् / दुर्योधनोऽचलज्ज्ञातुं पाण्डवस्थितिमञ्जसा // आदौ सुशर्मभूपालो गत्वा याम्यदिशि स्थिताः / यदा गा वालयामास तदा गोपारवोऽभवत् // गोपै!हरणोदन्ते प्रोक्ते विराटभूपतिः / चचाल तूर्यशङ्खादि(सि)-पुत्रयुग् याम्यदिग् तटे // विना पार्थं तदा धर्म-पुत्रो भीमादिभिः समम् / विप्रादिवेषभृद्वाल-यितुं गाश्चाचलत्तदा // सन्नद्धः शिविरो राजा-भिवेष्टयन् रिपुं द्रुतम् / विदधे व्याकुलं तीक्ष्ण-बाणधोरणीमोचनात् // विराटराट् सहस्रांशु-वैरितामससन्ततिम् / सपदि ध्वंसयामास तीक्ष्णबाणगभस्तिभिः // हतं सैन्यं त्रिगर्तेशो ज्ञात्वा सन्नह्य तत्क्षणात् / ध्वनयन् कार्मुकं वैरि-चक्रं हन्तुमधावत // त्रिगतशे शरश्रेणी वर्षत्याषाढमेघवत् / नष्टं वैरिबलं तस्य भूप एक स्थिरोऽभवत् / / शतेषु जायते शूरः सहस्रेषु च पण्डितः। वक्ता शतसहस्रेषु दाता भवति वा न वा / / सुशर्मा विशिखश्रेण्या वर्षन् कुर्वन् तमोऽभितः। निरखं विरथं कृत्वा बबन्धमत्स्यभूपतिम् / / मत्स्यभूपं रथे क्षिप्त्वा यदाऽचालीत् सुशर्मराट् / तदा न कोऽपि शक्तोऽभू-ज्जेतुं वैरिवलं मनाग् // ततो युधिष्ठिरो भ्रातृ-युतः सन्नह्य तत्क्षणात् / त्रिगर्तेशं नृपं हन्तु-मधावतातिवेगतः / / समूलान् पादपान् भूरी-नुत्पाट थ नन् रिपून बहून् / ययौ युधिष्ठिरादेशा-भीमो हन्तुं द्विषान्तिके / / त्रिगर्त्तनगराधीशं मत्स्याङ्गुलिप्रदानतः / मुक्त्वा भीमो जगौ न्याय-मार्गः सद्भिश्च सेव्यते / / यत :-" रेवा हा मग्गेण वह मत उनमूलि पलास / कल्ले जलहर थक्कसि कवण पराइ आस // 1 // रे कारिल्लि हयासे ! चडिआ निम्बंमि पायवे पउरे / अहवा तुझ न दोसो सरिसा सरिसेहि रज्जति / / 2 / / " एवं प्रोक्त्वा सुशर्माणं मुक्त्वा गा निखिला लघु / वालयित्वाऽनयद् भीमो मत्स्येशं शिबिरे निजे // हृष्टो भूपस्तदो तं च सन्मान्याऽऽसनदानतः। तत्रोवास निशीथिन्यां कुर्वन्नानोत्सवं वरम् / / इति दक्षिण गोग्रहः / इत उत्तरदिग्भागाद् दुर्योधननृपोऽर्जुनीः / अवालयद्यदा गोपा बुंबारवं व्यधुस्तदा // गोपाऽऽस्याद् धेनुहरणं श्रुत्वोत्तरो नृपाङ्गभूः। उवाच जननीयाम्योः पुरः प्रस्फोरयद् वचः // यद्यद्य सारथियों जायते कोऽपि मे नरः। तदोऽहं वैरिणो हत्वा वालयिष्यामि गाः समाः / / श्रुत्वा तद्वचनं कृष्णो-त्तरं प्रति जगावदः / तव स्वसुः कलाचार्यों विद्यतेऽत्र बृहन्नटः / / पार्थस्य सारथिः सोऽभूद् विद्विषां मर्दने क्षणे(मः)। तवापि सारथियों भविष्यति रणाङ्गणे / / उत्तरः स्वानुजोवाण्या बलाद् बृहन्नटं तदा / धारयामास सारथ्यं कर्म बहुप्रयत्नतः // पार्थः परिदधत् वर्म व्यत्ययेन तदा दूतम् / हास. यंश्वावलावर्ग रथमध्यास्त सादरम् / गच्छन्तमुत्तरं प्रोचु-भगिन्यः सोदरं व्रज / जित्वाऽरीन् वरवस्त्राणि