________________ पाण्डवचरित्रम् हतः स्वसोदरः केन प्रोक्त्वेत्याहतमस्तकाः / रुदन्तो जगदुर्धातः! क गतोऽस्यधुना वद / / युग्मम् / / तदा नृपानुगा मन्त्रि-सामन्ताद्या अनेकशः / तत्रैत्य कीचकं त्यक्त-प्राणं वीक्ष्यावदन्निति / / हत्वाऽमुं कीचकं योऽत्र चिक्षेप पापवान् ध्रुवम् / स एव कर्षयित्वाऽऽशु हन्यते स्वापहारतः।। एवं जल्पपरा भार-पट्टे रक्ताक्षरावलिम् / दृष्ट्वा न वाचयन्त्युच्चैः-स्वरैर्मयेति मारितः / / बिभ्यन् भूपान्न कोऽप्युच्चै-र्वाचयत्यक्षरीवलीम् / तदा तान् नून् शये धृत्वा भीम उच्चैःस्वरं जगौ / / येनासौ निहतस्तेनालेखीति भारपट्टके / मयाऽसौ मारितो रात्रौ कीचकोऽकार्यकृद् ध्रुवम् / / तदा लोका जगुवर्णान् वल्लो वाचितवानसौ / तत्रैत्य सोदरं दृष्ट्वा सुदेप्साऽवग नृपप्रिया / / सैरन्ध्री चित्रशालायां सोदराऽऽकारिता निशि / भोगायाऽगाद्धतो नूनं तया दुष्टाशयाऽचिरात् / / राजाऽऽदेशात्ततस्तत्र नीत्वा कीचकसोदराः। सैरन्ध्रीं सोदरेणाऽमा चेलुः क्षेप्तुं हुताशने // रे रे सैरन्ध्र! पापिष्ठे ! त्वयाऽयं कीचको हतः / भारपट्टान्तरे क्षिप्तोऽलेखि वर्णावली पुनः / / अतस्त्वमबलोऽप्येवं दृश्यसे सबला दृढम् / अस्य हत्यांहसा श्वभ्रे गमिष्यस्योशु दोसिके ! / / हक्कयन्निति तैः सार्धं कीचकैर्वा युतश्चतां / चचाल भूमिभुग् मार्गे तस्य दाहकृते तदा / / वालयित्वा जनान् सर्वान् कीचकभ्रातरोऽखिलाः / वल्लयुक्ता ययुः प्रेत-वने दूरं नदीतटे // रचयित्वा चितां तस्यां क्षिप्त्वा स्वं सोदरं तदा / जगदुः कीचका एषा क्षिप्यतां ज्वलनेऽवमा / / ततस्ते यावता धृत्वा हस्ते कृष्णां बलात् स्वयम् / क्षिपन्ति तावता भीम-स्तामुन्मोच्य जगाविति // दासि ! गच्छ निजे स्थाने-ऽपापिन्या किं त्वयाऽधुना / क्षिप्यन्तेऽग्नौ मयाऽद्यैव पापिनः सन्ति ये च तान् // ततः स मूलमुन्मूल्य तरून् स्फारान् वृकोदरः। अग्नौ प्रक्षिप्य तान् भीमः क्षिपते कीचकान् क्रमात् / / नश्यतः कीचकान् धृत्वा धृत्वा बाढं हुताशने / क्षिपन् भीमो ररक्षकं कीचकं भयविह्वलम् // छित्त्वा तस्य रसज्ञां तु धृत्वा हस्ते वृकोदरः / अभ्येत्य भूपतेः पार्वे जगादेत्युच्चसंरवम् / / स्वभ्रातुः स्नेहतो वह्नौ क्षिप्ते वृद्धे सहोदरे। अपरे सोदरास्तत्र प्रविष्टा भस्मतां श्रिताः // एकस्तु कीचको वह्नौ प्रविशन् मोहतो मया / अरक्षि सोऽपि चिच्छेद जिह्वां दन्तैः स्वयं द्रुतम् / / यतः- " दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः / कोऽयं जनम्य मोहो ये रिपवस्तेषु सुहृदाशा // 1 // " राजाऽवग् भ्रातरो वह्नौ किमु ते प्राविशन् वद / तदेवोत्पाट्य हस्तं स्वं काचकः सोऽझिपत् क्षितौ / / भीमो जगावयं वक्ति भ्रातरो मेऽखिला वसौ। रक्षिता अप्यनेनैव प्रविष्टा बलतस्तदा // अहमेकोऽमुनाऽरक्षि धृत्वा हस्तेन वह्नितः / एषाऽपापात्मिकेत्युक्त्वा सैरन्ध्यमोचि बन्धनात् // पुनर्भीमो जगौ स्वामिन् ! स्थविरः शालकस्तव / भीमेन बलिना केन-चिदेव निहतस्तदा // असौ नितम्बिनी मुग्धा हन्यते येन पापिना / सोऽपि भीमेन मय॑न क्षिप्यते नरकावनौ // भ्रातृमृत्योः सुदेप्सां तु रुदन्तीं प्रत्यवग नृपः / शोको न क्रियते सद्भिः जानद्भिश्च भवस्थितिम् / / धर्मशोकभयाहारनिद्राकामकलिक्रुधः / यावन्मात्रा विधीयन्ते तावन्मात्रा भवन्त्यमी // असौ सैरन्ध्रका मुग्धा वह्नौ क्षेप्तुं मुधेहिता / सतीतुल्या विलोक्येत साम्प्रतं पुण्यभाक् पुनः / / एषा सैरन्ध्रको साध्वी तिष्ठतादात्मनो गृहे / अग्रतो ज्ञास्यते सम्यक् त्वद्भ्रातृहा नरो मया / / ततः सुदेप्सया त्यक्त-कोपया निजवेश्मनि / सैरन्ध्री स्थापिता स्नेह-वाणीदानपुरस्सरम् / / इतः पोण्डुसुतानाम स्थिति विज्ञाय तत्र हि / आगत्य धार्तराष्ट्रस्य पुरः प्रोचुश्चरा इति // राजन् ! पाण्डुसुता भीतास्त्वत्तश्छन्नं क्वचित् स्थिताः / कच्छपा इव