________________ शत्रुक्षय-कल्पवृत्ती सुदेप्साऽवक सतीतुल्या दृश्यतेऽसौ नितम्बिनी / तेनाऽस्यां न विधीयेत रागः सोदर ! साम्प्रतम् / / यतः- "सत्यां न क्रियते वाञ्छा रागबुद्धया सुबुद्धिना / सती रुष्टा ददाति स्म दुर्गतिं देहिनामपि // 1 // अप्पउ धूलिहि मेलिउ सयणह दीघउ छार / पगि पगि माथा ढांकण जिणि जोइ परनारि // 2 // " कीचकोऽवग् भगिन्येवं त्वया यदुच्यतेऽधुना / एनां विना मृति मे स्या-त्ततो दुःखं भवेत्तव / / भ्रातुर्मत्यु. मिया प्राह सुदेप्सा सोदरं प्रति / इदानीं त्वत्कृते वाचः बलाद् याचिष्यते च सा / / किश्चिदुक्त्वाऽन्यदा भ्रातृ-समीपं द्रौपदों निशि। सुदेप्सा प्रेषयामास तद्गृहे कामहेतवे / / तामायान्ती निरीक्ष्याशू त्थायाऽवक् कीचकः स्मरी / प्राह प्रिये ! समागच्छा-लिङ्गनं देहि मे तनौ // एतत्तस्य श्रुतिकटु वाक्यमाकर्ण्य पापकम् / द्रौपदी प्राह रे मूढ ! वदैवं त्वं कथं मयि // यतः- "दुर्मन्त्रान् नृपतिविनश्यति यतिः सङ्गात् सुतो लालनात् विप्रोऽनध्ययनात् कुलं कुतनयात् शीलं खलोपासनात् / स्त्री मद्यादनवेक्षगादपि कृषिः स्नेहः प्रवासाश्रयान् मैत्री चाप्रणयात् समृद्धिरनयात त्यागात प्रमादाद्धनम् / / गुप्ताः पञ्च ममाभीष्टा-स्तिष्ठन्तोऽत्र पुरेऽधुना। त्वां जल्पन्तमिति प्रेप-यिष्यन्ति यममन्दिरे / / एपा बहुनरैर्भुक्तेत्यवगेत्य स कीचकः / धृत्वाकेशेषु तां पादैनिजघानातिनिर्दयम् / / ततो सा तादृशी धूलि-लिप्ताङ्गा भूपसंसदि / गत्वा धर्माङ्गजं दृष्ट्वा जल्पन्तीत्यरुदत् भृशम् / / विराटश्मापतौ न्याया-ऽध्वना शासति मेदिनीम् / विगोपितेत्यहं केशाकर्षणात् कीचकेन तु // यतः- " सत्यानृता च परुवा प्रियवादिनी च हिंसा दयालुरपि चार्थपरा वदान्या नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकधा च // 1 // " श्रुत्वेति न यदा भूपोऽ. जल्पत् कङ्कस्तदा जगौ / याह्यत्र पावकोपान्ते स्वं दुःखं जल्प वेगतः // गम्भीरं धर्मसूजल्पं ज्ञात्वा सम्यक् च चेदिजा / रोदं रोदं चिरं तस्याः सभाया निर्ययौ शनैः // भीमोपान्ते समेत्यावक् कीचकस्य कुचेष्टितम् / भीम आचष्ट गच्छ त्वं शिक्षा तस्मै प्रदारयते / / ततः सैरन्धिका भीमो-पान्ते कीचकचेष्टितम् / यावज्जगौ ततः क्रुद्धो भीमोऽवददिदं वचः / / दुर्योधनकृतं चाऽऽगः सेहे मया पुरापि यत् / तद्धर्मसूगिरेदानी ना सहेऽहं च कीचकम् / / गच्छ त्वं तत्र तस्याग्रे वक्तव्यमिति सादरम् / भोः कीचक ! त्वया गम्यं चित्रौकसि दिनात्यये / / अहं तत्रैय दास्यामि भोगशर्म तवाचिरात् / इत्युक्ते कीचकः सोपि हृष्टस्तत्र समेष्यति / / चित्रौकसि त्वया नत्यं तस्मिन् दिनात्यये प्रिये ! / अहं तत्र गमिष्यामि तव स्थाने प्रियोत्तमे ! // भीमोक्ते कृष्णया प्रोक्ते दृष्टात्मा कीचको निशि / वर्यखाद्यानि लात्वाऽगान् चित्रावासे सुखेच्छया / / इतो निवार्य सेरेन्धीं पाञ्चालीवेषभृद्यदा / गजगत्या ययौ भीमं (मः) कीचको मुदितस्तदा / / खाद्येषु रुचिरेवादौ दत्तेपु तेन हर्पितः / बकारिद्युमुजे सद्यो बुककै कविधानतः / यत्र कर्पूरकस्तूरीलवङ्गेलादिवस्तुषु / दत्तेषु तेन भीमस्तु तानि भक्षितवान् दृढम् / / ततः स कीचकस्तस्योपरि दत्ते शयं यदा / तदा भीमो ददत्तस्या-ऽऽलिङ्गं दोया दृढं जगौ // यस्त्वया परनार्या तु रन्तं चिन्तितमात्मना / तस्येदानी फलं प्राणा-पहाराद् दर्शयाम्यहम् / / स्मर देवं कुरु वलं वदन्निति च कीचकम् / हत्वोत्पाटय तदा भार-पट्टाऽधः क्षिप्तवाँस्तकम् / ततो भोमोऽलिखद् वर्णान् भारपट्टे सृजेति च / मयाऽसौ मारितो क्षिप्तो भारपट्टान्तरे लघु / / खल्वाटो दिबसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्छन् देशमनातपं विधिवशाद् बिल्वस्य मूलं गतः / तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः , प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः / / स्वकृत्यं भीम आधाय स्वकं स्थान समीयिवान् / नैव प्रगे स्वसोदय कीचका दहशुहे / / अनालोक्य स्वसोदयं गृहे ते कीचकाः समे। चित्रौकोभारपट्टाधः क्षिप्तं मृतं निरीक्ष्य च //