________________ पाण्डवचरित्रम् अगान् मासतपःप्रान्ते भिक्षायै पाण्डवास्पदे / / साक्षात् शान्तरसं साधुं निरीक्ष्य पाण्डुनन्दनाः / हर्षोत्कर्षभरान्नेमुः पञ्चाङ्गप्रणतेस्तदा / / रोमाञ्चं दधतः पाण्डु-पुत्रास्तस्मै मुमुक्षवे / प्रददुः शुद्धमाहारमनुमोदनतत्पराः / / सत्पात्रं महती श्रद्धा काले देयं यथोचितम् / धर्मसाधनसामग्री बहुपुण्यैरवाप्यते / / "केसि च होइ वित्तं चित्तं अन्नेसिमुभयमन्नेसिं / चित्तं वित्तं पत्तं तिन्नि वि केसिं च धन्नाणं / / 1 / / " सैव भमिस्तदेवाम्भः पश्य पात्रविशेषतः / आने मधुरतामेति कटुत्वं निम्बपादपे / नेदुर्दुन्दभयो व्योम्नि पाण्डवानां पुरस्तदा / सुपात्रदानतः पेतु-रष्टौ काञ्चनकोटयः / / तदा शासनदेव्योक्तं भवद्भिः पाण्डुनन्दनः / त्रयोदशममेवाब्दं स्थेयं देशे मनोरमे / / एवं कष्टानि भयांसि सहमाना वने गिरौ। शत्रुञ्जयगिरौ जग्मुश्छन्नं पाण्डुतनूभवाः / / तत्रादौ ऋषभं देवं नत्वाऽर्चित्वा सुमैवरैः / पाण्डुपुत्रा ययुधर्मं श्रोतुं श्रीगुरुसन्निधौ / तदा श्रीगुरवः प्रोचुः शैलेऽस्मिन् जगदुत्तमे / अनन्ता यतयो मुक्तिं ययुः सर्वतमाक्षयात् // अनादितीर्थमेतद्धि सिद्धास्तीथकृतोऽत्र ये / अनन्ता मुनयश्चापि क्षिप्त्वा स्वं कभसञ्चयम् / / ये चात्र पक्षिणः सन्ति क्षुद्रा अन्येऽपि जन्तवः / सिहका अपि सेत्स्यन्ति ते भबैत्रिभिरुत्तमाः / / अभव्या पापिनो जीवा नाऽमुं पश्यति पर्वतम् / भव्याः पश्यन्ति भूयिष्ठ-वारं भूरिसुखाप्तये / / राज्यादि लभ्यते भूरि-वारं तीर्थार्चनादतः / इद तीर्थं सदा सेव्यं भव्यैः कल्याणशर्मदम् || गतेपु तीर्थनाथेषु गते ज्ञाने च भूतले / तारकोऽयं भवाम्भोधन पर्वतः सिद्धिदायकः // सगरश्चक्रभृद्रामो भूरिसाधुसमन्वितः / अस्मिन् शत्रुजये तीर्थ मुक्तिपुर्या समागमत् // श्रुत्वेति तस्य तीर्थस्य सेनां कृत्वा बहून् दिनान् / युधिष्ठिरनृपोऽचाली-न्मत्स्यदेशं प्रति ध्रुवम् // विमृश्य पाण्डवाः स्वस्मिन् स्वस्मिन् वेपमिति व्यधुः / द्विजवेषधरो धर्म-सू नुः कङ्काभिधोऽभवत् / / भीमः सूदोऽभवद् बल्ल-नामदर्जुनः पुनः / बृहन्नटाख्यं नाम दधानो नाटयकोविदः / नकुलोऽश्वाधिभूर्जातो गन्धिकाहो विशारदः / गोविन्दसुतपालाहः सह देवस्तदोऽभवत् // सैरन्ध्याह्वाऽभवत् कृष्ण-दासिका वेषधारिणी। इत्यालोच्याऽभवन् सर्वे स्वस्ववेपधरोस्तदा / पुरीपार्चे पितृवने शमीस्कन्धेऽस्वसञ्चवम् / शवैस्तिरोहितं चक्रुः खं खं पाण्डुतनूभवाः // आदौ विराटभूपस्य स्वाशीर्वादपुरस्सरम् / युधिष्ठिरोऽभवत् सूक्त-कथको विप्रवेपभृत् / / राज्ञो भीमोऽभवत् सूपकारो वल्लाभिधाधरः ! नटरूपधरः पार्थो नाटयकृदर्जुनोऽजनि // अश्वपालोऽभवत् तत्र सहदेवः स्वीयनामभृत् / वैद्यकर्मकरो नित्यं नकुलः समजायत // ब्रह्मवतधरा दासी-रूपभृद्रौपदी तदा / तस्य राज्ञो गृहे दासी जाता राज्ञीनिसेविका // कङ्कद्विजन्मना धर्म-सूनुना स्वस्वकर्मणि / स्थापिता जननी कस्य-चिदावासे च भक्तितः / / उक्तञ्च -"प्राप्तसभा विराटेन नियुक्ताः स्वस्वकर्माणि // सन्मानिताः सुखं तत्र तस्थुस्ते गृप्तवृत्तयः / / 1 / / " प्रातः सर्वे समुत्थाय जननी रहसि स्थिताम् / रहो वृत्त्या प्रणम्यैव जीमन्यम्बु पिबन्ति च / / यतः- " ते धन्या ये सदा माता-पित्रोश्चरणचर्चनम् / कुर्वते नमनं ये तु पोषणं भुवि नो मुदा / / 1 / / " सूदवेषधरो भीमाऽन्यदा मल्लभटान् रणे / हत्वा भूमीपतेर्मानं प्राप्य व्यस्तारयद् यशः / / नृपपत्न्याः सुदेप्सायाः शतं तत्र पडुत्तरम् / बभूवुः सोदरास्तेपु मुख्योऽजनिष्टकीचकः / / सुदेप्सासदनेऽन्येद्यः कृष्णां सद्रूपधारिणीम् / निरीक्ष्य कीचकः कामा-तुरः काममयाचत / / यतः- " दिवा पश्यति नो घूकः काको नक्तं न पश्यति / अपूर्वः कोऽपि कामान्धा दिवा नक्तं न पश्यति ॥शा" विकलयति कलाकुशलं हसति शुचिपण्डितं विडम्बयति / अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः / / द्रौपद्या धिक्कतोऽभ्येत्य सुदेप्सायाः पुरस्तदा / कामामिलापमात्मीयं न्यवेदयत् स कीचकः / /