________________ शत्रुञ्जय-कल्पवृत्ती निमन्त्रिते तस्मिन् जामातरि निजालये / अर्जुनोऽभोजयत्तं च रसवत्याऽथ दिव्यया // पाण्डवान् वञ्चयित्वाऽऽदौ छलजल्पनतत्परः / पाञ्चाली स्यन्दनारूढां कृत्वाऽचालीदराशयः / / द्रौपदीहरणोदन्तं श्रुत्वा भीमार्जुनौ तदा / तं हन्तुं व्रजतो ज्ञात्वा कुन्त्यवक् तनयौ प्रति / / भवद्भयां द्रौपदी वाल्या कुर्वद्भ्यां समरं तथा / यथा म्रियति जामाता नैवेदानी जयद्रथः / / शैले शैले न माणिक्यं मौक्तिकं न गजे गजे / साधवो न हि सर्वत्र चन्दनं न वने वने / अयं निजः परो वेति गणना लघुचेतसाम् / उदारचरितानां तु वसुधैव कुटुम्बकम् / / प्रतिपद्य वचो मातुर्भीमश्वेतहयावपि / पत्नी वालयितुं नत्वा मातरं चेलतु तम् / / यतः-" शृण्वन्ति पितुरादेशं ते केऽपि विरलाः सुताः। आदिष्टं यदि कुर्वन्ति सर्वं ते यदि पञ्चषाः / / 1 / / " ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः / तन्मित्रं यत्र विश्वासः सा भार्या यत्र निवृतिः / / जयद्रथस्य छत्रादि छिन्दन् धनञ्जयोऽभितः / न जघान रिपुं मातुः स्मरन् वाणी निजे हृदि / / गदया चूर्णयंस्तम्य रथं मौलिं तदा दृढम् / न जघान मरुत्पुत्रो रिपुं जयद्रथं मनाम् / / जयद्रथशिरः पाशों मुण्डयन् विशिखैस्तदा / भापयामास भूपालं दृढं जयद्रथं ध्रुवम् // भीमेन गदया चूर्णी-कृते पर्पटवदथे / पलायनपरस्वान्तो जातो जयद्रथस्तदा // मुक्त्वाऽथ द्रौपदी नष्टो यदा जयद्रथो नृपः / तदानीं गेहिनी लात्वा मात्रन्ते तो समीयतुः // भीमोऽर्जुनश्च पाञ्चाली नत्वा मातुः क्रमद्वयम् / मानसं मोदयामासुः स्वस्वस्नेहप्रदर्शनात् // अन्यदा नारदोऽभ्येत्य पाण्डवानां पुरो जगौ / युष्माभिमोचितो वैरी युष्मासु वहते रुषम् / / अशक्तो वो निहन्तुं स कपटेन धृतराष्ट्रजः / पृच्छं पृच्छं रहो लोका-नार राधामरी वराम् / / तयोक्तं भवता मुक्ता विशिखाः शात्रवान् प्रति / अनिष्फला भविष्यन्ति नक्ष्यन्ति चारयः क्षणात् / / मया तु भवतां धर्म-शालिनां पुरतोऽधुना / उक्तं हितकृते शत्रोः स्वरूपं द्रोहकृद् ध्रुवम् // चैत्रशुक्लाष्टमीघस्र सुरी सैव वरप्रदा / युष्माकं विनमाधातु-मायास्यति दुराशया / / यतः-"न विश्वसेत् कृष्णसर्पस्य खड्गहस्तस्य वैरिणः / आचाराच्चलितस्यापि स्त्रीचरित्रं न विश्वसेत् / / 1 // " प्रणतो विनयात् पाण्डु-नन्दनैर्नारदो मुनिः / हृष्टो व्योमाध्वना नन्तुं ययौ शाश्वततीर्थपान् / / . चैत्रमासे समा. याते धर्मसू नुकुटुम्बकः / कायोत्सर्ग स्थितो ध्याय-नमस्कारान्पुनः पुनः / / यत्नः कामार्थयशा कृतोऽपि विफलो भवेत् / धर्मकर्मसमारम्भ-सङ्कल्पोऽपि न निष्फलः / / एवं वितन्वतस्तस्य ध्यानं सप्त दिना गताः / अष्टमेऽह्नि सूरी सापि दुर्योधनवशीकृता / / आगत्य धर्मजं सर्व-कुटुम्बेन समन्वितम् / प्रणम्य नृत्यमाधाय जगादोच्चःस्वरं तदा / / युग्मम / / दयोधनगिरा युष्मान हन्तुं यावदिहागमम / तावदिन्दानगो देवः क्रौञ्चबन्धं बबन्ध माम् / / कुशाघातस्तथा मेऽङ्ग-मताडयत्सुरः स च / यथा प्राणात्ययकरा वेदनाऽजनि विग्रहे / / मारैर्नवनवैर्यामं यामं प्रति निरन्तरम् / तथाऽहं ताडिताऽत्यन्तं तेन तत्र सुधाभुजा / / यथा ध्यातं मया दुःखा-दस्मात्प्राणात्ययप्रदात् / छुटिष्यतेऽधुनो चेद्धि सेव्यो धर्मसुतस्तदा / / अथावक् स सुरः पाण्डु-नन्दनान् न्यायगामिनः / हन्तुं यास्यसि हन्तव्या मया त्वं च तदा द्रुतम् / / मयोक्तं न मया पाण्डु-पुत्राणां धर्मशालिनाम् / विघ्नं नैव विधातव्यं तेषां सेवनमेव च / / ततोऽहं भवतां पार्वे समेत्य मर्तनं वरम् / अकार्षमग्रतः कार्यों न विश्वासो रिपोस्त्वया // एवं प्रोक्त्वो प्रयातायां तस्यां देव्यां निजास्पदे पारणं विदधुः पाण्डु-पुत्रा मोनादिसंयुताः // ततो गतान्तरायास्ते पाण्डुपुत्रा विशेषतः। सर्वविद्धधानकरण-तत्परा अभवन् भृशम् / / यतः-" महिषविषण्णो मशकः शशकः शैले पिपीलिका पङ्के। सच्चरिते गुणिजने पिशुनः कुपितोऽपि किं कुरुते ? // 1 // " मध्याह्नेऽन्यदा ध्याने निष्पन्ने कोऽपि- संयतः /