________________ पाण्डवचरित्रम् ऽऽलिङ्गथ स्वनन्दनान् / पप्रच्छ मे सुता अत्रा-नीताः स्थानात्कुतो वद // खगोऽवग् निर्जरं ह्येक-माराध्य कृत्रिमं सरः। कारयित्वा सुमाऽऽदान-व्याजाद् दुर्योधनो नृपः।। बन्धयामास ते पुत्रान् क्रौञ्चबन्धं सरोवरे। नेतुं यमगृहं सद्यः स पापी दुष्टमानसः // युग्मम् / / स्थाप्यते महतां पङ्क्तौ कचिन्नीचोऽपि कार्यतः / स्थैर्याय स्थाप्यतेऽङ्गारः कर्पूरसमकक्षया / / खलानां कण्टकानां च द्विविधैव प्रतिक्रिया / उपानद् - मुखभङ्गो वा दूरतो वा विसर्जनम् / / दुजणजण बबूलवण जइ सिंचह अमीएण / तोइज कंठा फाडण जातिहां तिणई गुणेग / / बन्धान्मोचयित्वाशु भवत्या नन्दनाः समे / मया ह्यत्र समानीताः धर्मस्यैव प्रभावतः / / शङ्खचूडादिकव्योम-भृतां तव तनूभवाः / राज्यादिवालनाच्चक्रु-रुपकारं कृपापराः // यतः- “तुष्यन्ति भोजनैर्विप्रा मयूरा घनगर्जितैः / साधवः परसम्पत्त्या खलाः परविपत्तिषु // 1 // " नालिकेरसमाकारा दृश्यन्ते केऽपि सज्जनाः / अन्ये तु बदराकारा बहिरेव मनोरमाः // भीमोऽवक् सर्वभ्रातृणां पुरस्तादिति सादरम् / यथाऽऽदेशो भवेद् वो मे हन्मि दुर्योधनं तदा / / कुन्ती जगौ सदा धर्म-मार्गे तु चलतां नृणाम् / कल्याणं जायते नूनं क्षीयन्ते वैरिणः स्वयम् / / यतः- “राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपताम् / पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः // 1 // " क्रमतोऽथ महीं पाण्डु-नन्दनानागतान् रहः / द्वैतवने निशम्याऽगात् तत्र दुर्योधनोऽधमः / / तत्र सरस्तटे सैन्यं न्यस्य दुर्योधनो नृपः / विघ्नं पाण्डुसतानां तु कर्तकामः स्थितः प्रगे // स्नेहेन भतिदानेन कृतः स्वच्छोऽपि दुर्जनः / दर्पणश्चान्तिके तिष्ठन करोत्येकमपि द्विधा / सरसि प्रविशन् चित्रा-ङ्गदेन व्योमगेन तु / निषिद्धोऽपि मदोन्मत्तः प्राविशद्धार्त्तराष्ट्रजः // ततश्चित्राङ्गदः क्रुद्धो दुर्योधनं दुराशयम् / अहार्षीत्सानुजं सार-परिवारसमन्वितः // तदा हृतं पति मत्वा खगेनान्तःपुरोजनः / क्रन्दन् युधिष्ठिरं भर्तृ-भिक्षामयाचताऽऽदरात् / / धृतराष्ट्रसुतैश्चक्रेडपराधोऽत्र यदि त्वयि / तथापि त्वं कृपां तेषु कुरुष्व ते यतोऽनुजाः // यतः -"सुजनो न याति विकृति परहितनिरतो विनाशकालेऽपि / छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य // 1 // " धर्मस्वं धार्तराष्ट्रस्य मोचनायेप्सितं तदा / निषिध्य फाल्गुनोऽचालीज्जेतुं विद्याधरं रिपुम् / / अर्जुनो लोहनाराचान् मुञ्चन् पयांसि मेघवत् / गतास्त्रं वैरिणं चक्रे छिस्वा शस्त्राणि तस्य तु // वशीकृत्य क्षणाच्छ नीत्वा दुर्योधनं नृपम् / एत्य धर्मसुतोपान्ते-ऽनंसीत्पार्थः सुभक्तितः / / पार्थेन मोचितः स्वं तु ज्ञात्वा दृष्ट्वा घृषाङ्गजम् / धर्मसूपदयोर्युग्मं भक्त्या दुर्योधनोऽनमत् / तदा धर्मसुतश्वेत-हययोश्चरणद्वयीम् / नमतः खेचरान् भूरीन् सबलान् मेदिनीपतीन् / / भक्तितो नमतो वीक्ष्य स्वस्मिन्निर्बलतां पुनः / दुर्योधनोऽभवत्क्रुद्धो हृदि वक्त्रे प्रसन्नजुट / / यतः-' राई-सरिसवमित्ताणि परछिहाणि अ पासई / अप्पणो बिल्लमिताणि पासंतोवि न पासइ / / 1 // " अन्तःशल्यमिवात्यन्तं मन्यमानो रिपून् हृदि / दुर्योधनो निहन्तुं तान् पाण्डुपुत्रान् समीहते / / दध्यौ युधिष्ठिरो दुर्यो-धनेऽपि शात्रवे मया / उपकारः कृतो यश्च मन्ये तद्भाग्यमेव मे यतः-“दुर्जनजनसन्तप्तो यः साधुः साधुरेव स विशेषात् / अपि पावकसन्तप्तः खण्डः स्योच्छार्करो मधुरः // 1 // " व्रजति विरसत्वमितरः सत्यं परिमिलितसुन्दराः सन्तः / यान्ति तिलाः खलभावं स्निग्धः पयसो विकारोऽपि // नत्वा युधिष्ठिरं चेतो विना दुर्योधनोऽचलत् / यावत्तोवच्च गाङ्गेयविदुरावूचतुश्च तम् // पार्थतेजस्त्वया दृष्टं स्वस्मिन्निर्बलतां पुनः / अतः सन्धेहि तैः पाण्डु-नन्दनः सह शीघ्रतः // गाङ्गेयविदुरप्रोक्तं हितं तथ्यमपि स्फुटम् / तस्य दुर्योधनस्यासी-हौषरक्षेत्रवापवत् / / प्रेषितो धार्तराष्ट्रेण रहो जयद्रथो नृपः / दुःशिल्यापतिरायासीत् युधिष्ठिरान्तिकेऽन्यवा // कुन्त्या