________________ शत्रुञ्जय-कल्पवृत्ती स्थितो लये // स्थिरो मेरुरिव श्वासोच्छवासहीनो धनञ्जयः / विद्यां सस्मार सद्भक्त्या ध्यानस्थः कमलासनः / / भूतप्रेतहरिव्याघ्र-शाकिन्याद्या अनेकशः / शेकुश्चोलयितुं पार्थं न ध्यानलीनमानसम् / / समयेऽथ समा विद्या-देव्यः सन्तुष्टमानसाः / जगदुर्वत्स ! याचस्व वाञ्छितं वरमञ्जसा / / " दृष्ट्वान्नं सविषं चकोरविहगो धत्ते विरागं दृशोहँसः कूजति सारिका च वमति क्रोशत्यजस्रं शुकः / विष्ठां मुञ्चति मर्कटः परभृतो मन्दध्वनिर्माद्यति, क्रोञ्चो रौति च कुर्कुटोऽपि नकुलः संहृष्टरोमा भवेत् / / 1 / / " पार्थः प्राह मनोभीष्टदायिनीम् व्योमगामिनीम् / वैरिजैत्रों धनुर्विद्या-मसङ्खयशरवर्षिणीम् / / चञ्चत्कलाप्रदा विद्यां सौभाग्योदयदायिनीम् / भवन्त्यो यदि तुष्टाः स्म तदैता दत्त मेऽधुना / / एवं चानेकशी विद्या दत्त्वा पार्थाय भाग्यतः। विद्यादेव्यो ययुः स्वीय-स्थानके हृष्टमानसाः॥ ततोऽर्जुनोऽचलद्याव-त्तावच्छबर एककः। पार्थस्याभिमुखं मुञ्च-नाययौ शरधोरणीम् / / पार्थोऽपि लीलया मुञ्चन्' बाणान् तच्छरधोरणीम् / शतखण्डां व्यधात्काँश्चित् कॉश्चिच मण्डपं पुनः / / भिल्लमुक्तान् शरान् पश्चा-न्मुखान् कृत्वा निजः शरैः। तथा चिक्षेप पार्थस्तं प्रति सोढा यथा न सः / / भिल्लमुक्तान शरान् वह्नि-बाणेर्धनञ्जयस्तदा / भस्मीकृत्य मरुद्बाणे-रुडयामास खे क्षणात् // अदृशीभूय भिल्लोऽथ भिल्ल्या रूपं विधाय स / आगत्य फाल्गुनं प्राह मुञ्चन्ती सा कटाक्षकान् // अहमत्र निराधारा कुमारी वनवासिनी / वाञ्छन्ती रमणं भोग्या-दवश्यं त्वं स्मरोपमम् // उद्वाह्य मां कुमारी त्वं यदि तिष्ठसेि साम्प्रतम् / तदाऽऽवयोर्जनुः सद्यः कृतार्थं जायतेऽखिलम् / / इत्यादि बहुशो रूपैभिल्लेन विहितैर्यदा / नैवाचालीन्मनाग् पार्थ-स्तावद्देवोऽभवत् स च / / जगाद स सुरोऽहं त्वा-मिह चालयितुं त्वगाम् / मेरुवच्चलितो न त्वं मनसो धीरमानसः / / यतः-"वहिस्तस्य जलायते जलनिधिः कुल्यायते तत् क्षणात् , मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते / व्यालो माल्यगणायते विषरसः पीयूषवर्षायते, यस्याङ्गेऽखिललोकबल्लभतमं शीलं समुन्मीलति // 1 // " तुष्टोऽथ स सुरश्चापं गाण्डीवं जयदायकम् / दत्त्वाऽर्जुनाय सत्सत्त्व-शालिनेऽथ तिरोऽभवत् // प्राप्तविद्योऽर्जुनश्वापं गाण्डीवं स्वशये करन् / अभ्येत्य भ्रातृमात्रादीन् यथायोगं ननाम सः / यतः-" विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् / अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् // 1 // " अन्येशुद्रौपदी पुष्पं वयं पतितमम्बरात् / दृष्ट्वा भीमपुरोऽप्राक्षीत् पुष्पमीदृक्षमानय / / गच्छन् भीमोऽथ पुष्पार्थ पश्यन्नेकं सरोवरम् | तन्मध्ये वरपुष्पाणि ददर्शाऽनिलनन्दनः / / इतोऽप्रेक्ष्य मरुत्पुत्रं धर्मस्वादिसहोदराः / दुःखिनो लोकयामोसु-र्न दृष्टस्तैः स वायुभूः // ततः कुन्त्या स्मृता चित्ते स्नुषा हिडम्बिकाभिधा / समेत्यावगहं कस्मै-श्चिदर्थं सस्मरे त्वया // कुन्त्यवक् ते पतिर्भीमः कुसुमार्थमितो गतः। नायात्तेन मया ध्याता तज्ज्ञप्तिहेतवेऽधुना // ततो हिडम्बिका स्कन्धे कृत्वा धर्मसुतादिकान् / भीमोपान्ते विमुच्यागात स्वीयतातनिकेतने // भीमः पद्माकरे याव-दविशत् पद्महेतवे / तावद् गगोचराद यातः सर्वेषां पश्यतां तदा // तत्पृष्ठौ धर्मसूर्यात-स्तत्पृष्ठे च धनञ्जयः / तत्पृष्ठे सहदेवश्च तत्पृष्ठे नकुलोऽपि च / / सर्वेष्वदृश्यभूतेषु कुन्ती च द्रुपदात्मजा / दुःखिन्यौ विग्रहोत्सर्ग स्थिते सुध्यानतत्परे / यतः-कारणात प्रियतामेति द्वेष्यो भवति कारणात् / स्वार्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित्प्रियः // मोहबद्धा जना एते लभन्ते दुःखसन्ततिम् / मोहमुक्तास्तु जायन्ते सुखभाजो निरन्तरम् // इतः खगो प्रजन् कुन्त्याः शीर्षाध्वं यानमात्मनः / स्थितं मत्वा मनः कुन्त्या जज्ञौ स गगनाध्वगः // कुन्त्यो ध्यानबलाद् व्योमपरस्तत्र सरोवरे / गत्वाऽनैषीत् सुतान् सर्वान् कुन्त्याः पार्वे द्रुतं किल / पारयित्वा तत्सर्ग कुन्त्या.