________________ पाण्डवचरित्रम् विशाले क्रूररूपभृत् // शिलासुप्तं महाकायं नरं वीक्ष्य स कौणपः / दध्यौ मे सकुटुम्बस्या-नेन तृप्तिर्भविष्यति / / खण्डं खण्डं तनुं तस्य यावदत्ति स राक्षसः / तावदुत्थाय तं हन्तुं वृक्षं लात्वा जगावदः / / लोकभक्षगजं पापं रे कौणप ! त्वया कृतम् / स्मरेष्टं देवतं हन्तुं त्वामहं समुपागमम् / / मुष्टिमुष्टि मिथो युद्धं वृक्षोवृक्षि परस्परम् / भीमराक्षसयोर्जातं रामरावणयोरिव // उत्पाटय राक्षसं छत्र-वत्कृत्वा मस्तके निजे / भीम आस्फोटयामास शिलाया उपरि दृढम् / / पुनर्भीमः करे कृत्वा तं जगौ स्मर देवतम् / कौणपोऽवग् मुधा भीम ! कुर्वन्नेवं मरिष्यति / / ततो भीमस्तथा मुष्टया हतवान् कौणपं हृदि / यथा मुक्तोऽसुभिः सद्यो जगाम स यमालयम् // वृकोदरेण निहतं कौणपं तं महीपतिः / सप्रजः कारयामास पुरीमध्ये सदुत्सवम् / / समेत्य सकला लोका हर्षिताः स्वस्वमन्दिरात / भीमं प्रबर्द्धयामासु-र्जनजीवितदायकम् / / भीमेन निहतं यातु-धानं मनुजाननात् / ज्ञात्वा दुर्योधनश्चक्रे विषादं रिपुजीवनात् / / पुनदुर्योधनः सार्द्ध मन्त्रिभिः पाण्डवान् द्रुतम् / हन्तुं न्यमन्त्रयच्छन्नं पापाः स्युर्यत ईदृशाः / / यतः-" पापी रूपविवर्जितः स पिशुनो यो नारको नाऽभवत् , तिर्यग्योनिसमागतश्च कपटी नित्यं बुभुक्षातुरः। मानी ज्ञानविवेकबुद्धिकलितो यो मर्त्यलोकागतो, यस्तु स्वर्गपरिच्युतः स सुभगः प्राज्ञः कविश्रीयुतः // 1 / / " विज्ञाय चिन्तितं धार्त-राष्ट्रस्य विदुरो रहः / चरमप्रेषयत् पार्श्व पाण्डवानां कृपात्मनाम् / / चरो द्वैतवने गत्वा नत्वा पाण्डुसुतान् जगौ। ज्ञापितं विदुरेणेति न विश्वस्यं रिपोमनाग // आयुषो राजचित्तस्य पिशुनस्य धनस्य च / खलस्नेहस्य देहस्य नास्ति कालो विकुर्वतः / / यतः-" आहिवाहिविमुक्कस्स नीसोस ऊसास एगगो। पाणु सत्त इमो थोवो सो वि सत्तगुणो लवो / / 1 / / लवसत्तहत्तरीए होइ मुहुत्तो इमम्मि ऊसासा / 3773 सगतीससयतिहुत्तर तीसगुणा ते अहोरत्ते / / लक्खं तेरससहसा नउय सया एगमासम्मि, लक्खा इगतीस य तदा तीससहस्सा मुणेअव्वा // " तदाऽवग् द्रौपदी कान्तान् युष्माकं दोर्बलेन किम् / यस्मिन् सत्यपि कुर्वन्ति विद्विषो वः पराभवम् / / तबलं यातु पातालं यस्मिन् रिपोः पराभवः / तद्विद्या यातु पातालं यया न क्रियते वृषम् / / तद्धनं यातु पातालं यन्न धर्मे समेत्यहो ? / तन्मनो यातु पातालं येन न ध्यायते जिनः / / तदा भीमादयः सर्वे सोदरा ज्येष्ठसोदरम् / उत्थाय स्फालयन्तो दो-युगं प्रोचुरिति ध्रुवम् / / एवंविधे रिपो दुष्टे यदि तेऽस्ति क्षमा दृढम् / तदा दत्से न तान् हन्तुं किमादेशं च साम्प्रतम् ? / / युधिष्ठिरो जगो पूर्व प्रतिज्ञा स्वां स्वयं कृताम् / पूर्णीभूय च हन्तव्यो भवद्भिः स ततो रिपुः // इति ज्येष्ठवचः श्रुत्वा सर्व भीमादयस्तदा / प्रसन्नीभय शुश्रूषां चक्रे भ्रातुर्दिवानिशम् / / यतः-" विवेकः सह सम्पत्त्या विनयो विद्यया सह / प्रभुत्वं प्रशमोपेतं चिह्नमेतन्महात्मनाम् / / 1 / / यथा यथा परां कोटिं गुणः समधिरोहति / सन्तः कोदण्डधर्माणो विनमन्ति तथा तथा / / 2 / / जो गुणवंतओ सो नमइ निग्गुण घट्टओ थाइ / अवसि नमंता गुण चढइ धणुह कहतओ जाइ / / 3 // " विसृज्य तं चरं सर्वे धर्मस्वाद्याः सहोदराः / चलन्तः काननं धर्म-ध्यानं न मुमुचे मनाग् / / यतः-" धर्मादधिगतैश्वर्यो धर्ममेव निहन्ति यः / कथं शुभगतिर्भावी स्वस्वामिद्रोहकारकः ? // 1 // " यस्य त्रिवर्गशून्यस्य दिनान्यायान्ति यान्ति च / स लोहकारभस्नेव श्वसन्नपि न जीवति // गन्धमादनभूमिधे गत्वाथ धर्मपन्दनम् / तस्थौ यावत्तदा पार्थः प्राहेति शिल्यरि प्रति // इन्द्रकीले नगे यामि विद्या साधयितुं वराम् / ततोऽवग् धर्मसूः पार्थ ! गच्छ विद्या प्रसाधय // प्रणम्य मातरं ज्येष्ठ-भ्रातरं भक्तिपूर्वकम् / विद्यां साधयितुं पार्थ इन्द्रकिलाचले ययौ // तत्र नत्वो युगादीशं पार्थः पवित्रविग्रहः / साधितुं मणिचूडेन दत्तां विद्या