________________ 14 शत्रुनय-कल्पवृत्ती परिक्खा दाणपरिक्खा य दुक्काले / / 3 // " चलन् युधिष्ठिरश्चक्र-नगरे देवशर्मणः / द्विजस्य सदने तस्थौ नेतुं कालं प्रतिज्ञितम् / / धर्मसू नुर्जगौ तत्र स्थितां हिडम्बिकां प्रति / सोढव्यं द्वादशाब्दानि दुःखमस्माभिरन्वहम् // तेन त्वं स्वगृहे गच्छ यतो दुःखं न ते भवेत् / हिडम्बाऽवक् कथं यामि युष्मान्मुक्त्वेह साम्प्रतम् // गच्छेति धर्मपुत्रोक्ते गर्भ भीमसमुद्भवम् / कुन्त्यै निवेद्य गच्छन्ती जजल्पेति हिडम्बिका / / समये स्मरणीयाहं भवत्यादिभिरजसो / कुन्त्याऽऽचष्ट व्रज स्वच्छे ! गर्भः पोष्यः सुभोजनैः।।वातलैश्च भवेद्गर्भः कुब्जान्धखञ्जवामनः / पित्तलैः स्खलतिः पिङ्गुः श्वित्री पाण्डुः कफात्मभिः / / ततो नत्वा पदौ श्वश्रूपोञ्चाल्योश्च यथाक्रमम् / हिडम्बा जनकावासे जगामाऽनघमानसी // यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया / धन्यास्ते त्रितये येषां विसंवादो न विद्यते / तत्रान्यदा भृशं देव-शर्मपत्नी शिवाभिधाम् / रुदन्तीं वीक्ष्य पप्रच्छ भीमः किं रुद्यते त्वया ? // सा प्राहाऽत्र पुरे पूर्व बकाख्यो राक्षसाधमः / पुरीप्रमां शिलां धृत्वा करेऽगानगरोपरि // बकोऽवग् नगरीमेनां चूर्णीकुर्वेऽधुनाऽनया। भयत्रस्तस्ततो राजा तस्मै चक्रे बलिं बहु // अमेध्यमध्ये कीटम्य सुरेन्द्रस्य सुरालये / समाना जीविताऽऽकाङ्क्षा समं मृत्युभयं द्वयोः // प्रादुर्भूय स यक्षोऽवक् पुरेऽत्राहं द्विजोऽभवम् / दत्त्वा स्तन्यकलङ्क मे हतोऽहं चौरदण्डतः / / मृत्वाऽहं राक्षसोऽभूवं बकाख्यो राक्षसालये / ज्ञाता मया मृतिः पूर्व-भवे स्यान्नृपलोकतः / / ततोऽहं कुपितो हन्तु-मनाः (गां)सर्वान् पुरीजनान् / राजाऽवग् राक्षसेदानी याचस्व चित्तचिन्तितम् / / बकोऽवग् यदि मह्यं त्व-मेकं मयं प्रगे प्रगे। ददस्वाऽहं शिलां पश्चात् कुर्वे तदाऽन्यथा न हि / / ततो भूपः प्रजाः सर्वा आकार्य नगरीनृणाम् / नामालङ्कृतपत्राणि कुम्भे चिक्षेप वेगतः // राजाऽवग यस्य पत्रं तु निःसरिष्यति कुम्भतः / सोऽस्मै बलिकृते यातु व्यवस्थेति कृता जनैः / / यतः- अन्यस्मोदपि लब्धोष्मो नीचः प्रायेण दुःसहो भवति / न तपति रविरिह ताग याहगयं वालुकानिकरः / / अद्याऽस्मत्पत्रमायातं तेन मे नन्दनो ह्यसौ। तत्र गतो बकेनैष स्फास्यते तेन रोदिमि // वायुपुत्रो जगौ मातः ! छिद्यते न हि रोदनात् / धाष्टयं च क्रियतेऽत्रैव व्यसने ह्युत्तमैजनैः // यतः-" दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः / कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदोशा // 1 // पुत्रो मे भ्राता मे स्वजनो मे गृहकलत्रवगों मे। इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति // 2 // " ब्रह्मपुरन्दरदिनकररुद्राः सुरगिरिसरितः सप्त समुद्राः / नष्टो यत्र विचित्रापायः स्थास्यति तत्र कथं ननु कायः ? / / विप्रपत्नी जगौ वत्स ! त्वया सत्यमुदीरितम् / अपत्येषु भवेन्मोहः पशूनामपि सर्वतः / / श्रुत्वैतद् ध्यातवान भीमो रक्षामि यद्यमुं नरम् / तदा मे जीवनं श्लाघ्यं फलं च जायते ध्रुवम् / / यतः-" हेमधेनुधरादीनां दातारः सुलभा भुवि / दुर्लभः सर्वजीवानां यः प्राणिष्वभयप्रदः // 1 // " धिग् बलं धिक् शरीरं च धिक चात्र नरवैभवम् / धिग् जन्म धिग् मतिं तस्य यो जीयं न हि रक्षति / / जन्तुः स्वयं विपद्येत रोगशस्त्राग्निमिर्जलैः / स च देहं परप्राण-त्राणायादिक्ष्यते सुधीः // ध्यात्वेति प्रोक्तवान् भीमः कौणपतृप्तिहेतवे / अद्याहं च गमिष्यामि त्वं तिष्ठ निजसद्मनि // विप्रः प्राह समानेऽपि नृत्वेऽमुष्माच राक्षसात् / त्वां भक्षयाम्यहं कोऽत्र नयोऽहं याम्यतो न हि / / ततो बलाद् द्विजं भीमो निपिथ्य तत्कराद् बलिम् / आदाय रक्षसस्तृप्ति-हेतवे तत्र जग्मिवान् // वध्यस्थाने बलिं मुक्त्वो निभयो वायुनन्दनः। तस्थौ यावद्विधातुं तू-पकारं करुणापरः।। यतः-"पोत्रार्थ भोजनं येषां दानार्थं च धनार्जनम् / धर्मार्थं जीवितं येषां ते नराः स्वगंगामिनः // 1 // " इतः क्षुधातुरो भोक्तुं स्वभक्ष्यं कौणपस्तदा / समायातः शिलापृष्ठे