________________ বাসি। जाननमीतितः / / यतः-"सव्वे जीवा वि इच्छन्ति जीवियं न मरिज्जिङ / तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं // 1 // " दुर्भगोत्करकण्टक-मुखव्याप्तमहीतले / दुःखितेन चलन्ति स्म पाण्डुपुत्रा वने सदा // ताहगमार्गे तु पाञ्चाली-कुन्यौ न क्रमितुं क्षमे / यदा तदा सद्यो भीमो वहते स्म श्रमच्छिदे / / मातृपल्यौ वहन् भीमः स्कन्धेऽतिक्रम्य यामिनीम् / प्रातः प्राप वनं भीमाऽ-भिधं धरणिमण्डनम् / / तृषितान् भ्रातृपित्रादीन् मत्वा तत्र विमुच्य च / जलाय दृतिमादाया-चालीद्धीमो वराशयः / / उल्लङ्घय काननं पद्मा-करे भीमो गतो द्रुतम् / भृत्वाऽम्बुना इतिं पश्चा-द्वलितस्त्वरितं तदा / / रे मर्त्य ! त्वं क्षणं तिष्ठ जल्पन्तीमिति भामिनीम् / आयान्तीं पृष्ठितो दृष्ट्वा भीमस्तत्र विभीः स्थितः / / तावद्भयाच्च भेतव्यं यावद्भयमनागतम् / आगतं तु भयं दृष्ट्वा प्रहर्तव्यमशङ्कितैः / / भीमं दृष्ट्वा वृषस्यन्ती तस्य रूपेण मोहिता / प्राहाऽत्र कानने रक्षो हिडम्बो विद्यते बली // हिडम्बिकाभिधा तस्य भगिन्यहं कुमारिका / नृगन्धात्त्वमिहायातं ज्ञात्वा ग्रसितुमिच्छति // भ्रात्राऽहं प्रेषिता दृष्ट्वा त्वामहं मोहिता सती / वाञ्छामि वरितुं तेन वृणु मां नरपुङ्गव ! // नो चेन्मत्सोदरोऽत्रैत्य हिडम्बस्त्वां हनिष्यति / भीमोऽवक् सोदराः सन्ति चत्वारोऽम्बाप्रिये च मे // तेषामनुज्ञया पत्नी वरिष्याम्यन्यथा न हि / तयोः प्रजल्पतारेवं तत्र हिडम्ब ईयिवान् / / यावद्भीमं निहन्तुं तु दधाव राक्षसः स च / तावद्भीमस्तरं मूलादुन्मूल्य हन्तुमुत्थितः // क्षणं भूमौ क्षणं व्योम्नि द्वावेव च परस्परम् / अस्त्रवृक्षादिभियुद्धं कुर्वाते स्मातिदारुणम् / / अन्योऽन्यमंह्रिसङ्घट्टा-त्तयोर्दारुणरूपयोः। चकम्पे साम्बुधिभूमिः कम्पयत्यब(च)लानपि // क्षणं दृढप्रहारेण रक्षसा भीममाहतम् / दृष्ट्वा कुन्त्याः पुरः प्राह हिडम्बा भीमचेष्टितम् // ततः कुन्तीनिदेशेन खड्गपाणियुधिष्ठिरः / अधावत रिपुं हन्तुं भीमस्य चान्तिके ययौ // युधिष्ठिरं समोयान्तं भीमो नत्वा सुभक्तितः / तथा मुष्टया न्यहन् शत्रु यथाऽगाद्यममन्दिरम् / / यतः-" श्रियमनुभवन्ति धीरा न भीरवः किमपि पश्य शस्त्रहतः / कर्णः स्वर्णालङ्कतिर-अनरेखाङ्कितं चक्षुः // 1 // खेडि म खूटो टालि खूटा विणु सिखइ नही / साहसि हुतउ हल वहइ देवह तणइ कपालि // 2 // " ततो हिडम्बिका भीम-पृष्ठिं न मुञ्चते क्षणम् / वक्तीति च वृणुष्व त्वं मामुद्वाहप्रयोगतः // यतः-"रागी बध्नाति कर्माणि वीतरागो विमुच्यते / जना जिनोपदेशोऽयं संक्षेपाबन्धमोक्षयोः // 1 // " संगद्वेषौ यदिस्यातां तपसा किं प्रयोजनम् ? / तावेव यदि न स्यातां तपसा किं प्रयोजनम् ? / मुखे पुरीषप्रक्षेपं तथा पाषाणपेषणम् / एकेन्द्रियापि सहते मतिष्का रागदोषतः // रागोऽयं दोपपोषाय चेतनारहितेष्वपि / मञ्जिष्टा कुट्टनस्थान-भ्रंशतापसहा भृशम् / / तेषां यातां पथि स्कन्धे कुन्तां च याज्ञसेनिकाम् / कृत्वा हिडम्बिकाऽचालीत् कुर्वाणा विनयं तयोः / / एकदा द्रौपदी भ्रष्टा मार्गाद् युधिष्ठिरादिभिः / विलोकिताऽपि न यदा लब्धा दुःखं तदाऽभवद् / / ततो हिडम्बिको गत्वा विलोक्य काननेऽभितः / द्रौपदीमनयद् हृष्टास्तदा पाण्डुसुतादयः / / स्वस्मिन् भक्त-कुटुम्बस्य मत्वा हिडम्बिकां तदा / अनुमत्या प्रसूपत्न्यौ भीमस्तां परिणीतवान् // तदम्रिक्षालनादीनि कृयान्येव हिडम्बिका / कुर्वाणाऽरञ्जयत् श्वश्रू-ज्येष्ठादींश्च यथोचितम् / / यतः- " अमृतं शिशिरे वहि-रमृतं क्षीरभोजनम् / अमृतं राजसन्मान-ममृतं प्रियदर्शनम् // 1 // जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते / गुणाधिके पुंसि नरोऽनुरज्यते गुणानुरागप्रभवा हि सम्पदः // 2 // विणए सिस्सपरिक्खा सुहडपरिक्खा य होइ संगामे / वसणे मित्त