________________ शत्रुक्षय-कल्पवृत्ती सद्यः प्रपेदे बान्धवैः समम् // ज्ञात्वेतो विदुरो मूह-चेता दुष्टं छलं रहः / दुर्योधनकृतं पाण्डुपुत्रे भ्योऽज्ञापयत्तदा / / मा विश्वस्व रिपोस्तस्य दुर्योधनस्य कुत्रचित् / इन्द्रप्रस्थपुरीदानाद् भक्तिमद्वचनश्रुतेः / / वेश्याकानपतिश्चौर-नीरमार्जारमर्कटाः / जातवेदा कलादाश्च न विश्वस्या इमे क्वचित् / / शकटं पञ्च हस्तेन दश हस्तेन वाजिनम् / हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम् // तत्र दुर्योधनो विप्र-पार्वाज जतुनिकेतनम् / कृत्रिमं कारयामास भवतां मृत्युहेतवे / / फाल्गुनस्य चतुर्दश्यां कृष्णायां च महानिशि / सुप्तस्य ते कुटुम्बेन युक्तस्य धर्मनन्दन ! / / विप्रो दुर्योधनादेशा-द्रहो लाक्षानिकेतनम् / ज्वालयित्वा यमावासं भवतः प्रेषयिष्यति // इत्याकर्ण्य जगौ भीमो भो ! भ्रातस्ते द्विषीदशि / क्षमा नहीक्ष्यते किन्तु प्रेष्यते स यमालयम् / / यद्यादेशं ददस्व त्वं मह्यं सम्प्रति सोदर ! / तदाऽहं गदया हत्वा तं नेष्यामि यमा. लयम् / / धर्मपुत्रो जगौ यद्यत् कूटं रिपुः करिष्यति / तत्तस्य मस्तके तस्मात् पापादेव पतिष्यति / / यतः" अत्युग्रपुण्यपापानामिहैव फलमाप्यते / त्रिभिर्मासस्त्रिभिः पक्ष-सिभिर्वत्रिभिर्दिनैः // 1 // " शिष्याणां हि गुरुः शास्ता शास्ता राजा दुरात्मनाम् / अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः / / जठराग्निः पचत्यन्नं फलं कालेन पच्यते / कुमन्त्रैः पच्यते राजा पापी पापेन पच्यते / / इत्यादि वचना. म्भोभि-भीमं क्रोधाग्नितापितम् / धर्मसूः शमयामास मेघो दावं यथाम्बुना // विदुरेण कलाविद्भिः सुरंगा जतुसद्मनि / कारिता छन्नमहाय यथा कोऽपि न वेत्त्यरिः / / विप्रेण प्रोणिता वाक्यैः पाण्डवा अतुसद्मनि / वासिता द्रौपदी कुन्ती-युता कूटात्मना तदा // विदुरोक्तदिनेऽकस्मात् तत्रैका ज्यायसी वशो // पञ्चपुत्रयुता वध्व-कया युक्तो समागमत् / / भ्रान्त्वा पुरान्तरे सायं युधिष्ठिरगृहान्तिके / एकस्मिन् पार्वतः सुप्ताः श्रान्तदेहाः सुनिर्भरम् / / तस्मिन् गृहेऽनले दत्ते वाडवेन रहो निशि / शल्यारिनिर्ययौ भ्रात्रा-दिकयुक्तः सुरङ्गया / / युधिष्ठिरो बहिः पुर्याः निर्यान् पश्चात् स्वमन्दिरम् / ज्वलद् दृष्टवा जगौ भ्रातृ-मात्रादीनां पुरस्त्विति / / भाग्ययोगादिदं विघ्न-मकस्माद्विलयं गतम् / तेन पुण्यं विशेषेण क्रियता सकलैरपि // यतः- “वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा / सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्योनि पुराकृतानि / / 1 / / व्यसनशतगतानां क्लेशरोगाऽऽतुराणां, मरणभयहतानां दुःख शोकार्दितानाम् / जगति बहुविधानां व्याकुलानां जनानां, शरणमशरणानां नित्यमेको हि धर्मः / / 2 / / भग्गं न जाइ घडणं दुज्जणहिययं कुलालभंडं व / सयखंडो वि घडिज्जइ कंचणकलसो सुअणचित्तं // 3 // दुज्जणजण वब्बुलवन जइ सिंचाइ अमीएण / तोइ कंटा भगणा जातिहांतणइ गुणेण / / 4 / " अधुना गम्यते तत्र वने शैले वा गह्वरे / यत्र कोऽप्यात्मनो नैव स्थितिं ज्ञास्यत्यरिर्मनाग // इतस्तत्रत्यमनुजा दृष्टवा नृन् पश्च सुन्दरान् / द्वे स्त्रियौ दग्धदेहाश्च प्रोचुरेवं परस्परम् / / पापी दुर्योधनश्छन्नं प्रेष्य विप्रपुरोधसम् / पाण्डवान् भस्मसाच्चक्रे लाक्षागेहाग्निदानतः / / ततस्ते मनुजा विप्र-माहत्य यष्टिमुष्टिमिः / प्रेषयामासुरहाय यमस्य सदने ध्रुवम् / / यतः- " अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह / अप्रियः सम्प्रयोगश्च सर्व पापविजृम्भितम् / / 1 / / " इतो दुर्योधनः पाण्डु-पुत्रान् विप्रसमन्वितान् / गतान् यमगेहे मत्वा प्रेतकर्म व्यवान्मुदा / / ततो दुर्योधनः प्राप्य राज्यं निष्कङ्टकं किल / निर्भयः सोदरान् सर्वान् मानयामास सादरम् / / यतः- "न श्रीः कुलकमायाता शासनलिखिता न वा / खड़गेनाक्रम्य भुञ्जीत वीरभोग्या वसुन्धरा / / 1 / नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः / विक्रमार्जितसत्त्वस्य खयमेव मृगेन्द्रता / / 2 / / " इतो गुहाद्रिमध्ये तु चलन्तः पाण्डुनन्दनाः। विश्रामं न ललुः स्वीय-स्थिति