________________ पाण्डवचरित्रम् - पुनः // यद्यकशो वने तिष्ठन् ज्ञाम्यते वैरिणा क्वचित् / स एव द्वादशाब्दानि तिष्ठेत् स्वभ्रातृसंयुतः // दुर्योधनः प्रलोभ्येति सभायां धर्मनन्दनम् / ट्रातकोडाकृतेऽनैषी-च्छलछापरायणः / / ततो धर्मसुतो चूतं दीव्यन् कौरवसू नुना। आदौ सभां पणीचक्रे जेतुकामः सुयोधनम् / / दुर्योधनस्तदा धर्म-नन्दनेन समं छलात / आदौ सभामजैषीच्च ततस्ताा स्ततो गजान // जयाशयो तदा धर्म-पत्रोऽयं कृतवान् पणम् / ततः कोशपुरग्रामा-दीनि हारयति स्म स || द्यूतं सर्वापदां धाम तं दीव्यन्ति दुर्धियः / द्यूतेन कुलमालिन्यं द्यूताय इलाध्यतेऽधमः / / " करघट्टा नह पंडुरा सज्जन दुजण हूअ / सूना देउळ सेवीइ तुज्झ पसाइ जूअ ! / / राज्यादिकेऽखिले धर्म-पुत्रेण हारिते सति / पणोकृता च पाञ्चाली हारिता सा मृगेक्षणा / / नश्यन्ती द्रौपदी दुष्ट-बुद्ध या दुर्योधनेन तु / आनायिता सभामध्ये गाङ्गेयादौ प्रपश्यति / / दुर्योधनेन पाञ्चाल्योः शाटी सेवकपार्वतः / अपाचक्रे यदा नव्या तदाऽऽगादपरा पुनः / / एवं दुर्योधनस्तस्याः शाटीमेकं शतं क्रमात / कर्पयामास शीलेन नव्या नव्या तदाऽगमत् // यतः-" शीलं नाम कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति चित्तमनघं शीलं सुगत्यावहम् / शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपावनं. शीलं नियंतिहेतरेव परमं शीलं तु कल्पद्रमः // 1 // " हन्तुं दुर्योधन भीमो गदया यावदुत्थितः / तावद्धर्मतनुजेन निषिद्धोऽस्थानिजे पदे / / दुर्योधनो जगौ मुञ्चे तदाऽहं द्रौपदीमिमाम् / यदा यूयं वनेऽस्थास्त वर्षाणि द्वादशाचिरात् / / एक वर्षं च कान्तारे रहसि स्थेयमेव तु / ततस्ते पाण्डवाः स्वीय-प्रतिज्ञां कर्तुमुद्यताः / / पश्यत्सु लोकगाङ्गेय-मुखेषु भूरिपु स्फुटम् / भीमोऽवग् धार्तराष्ट्रेन यचक्रेऽथ वरं न तत् / / दुर्योधनं प्रति प्राह गङ्गानन्दन उच्चकैः / द्रौपदी भवताऽमूष्याऽधुना विगोपिता खलु / / उत्तिष्ठन्तो निहन्तुं त्वां भीमाद्याः सोदराः समे / वायन्ते धर्मपुत्रेण तेन तिष्ठन्ति ते पुनः / / गागोय-पाण्डु-प्रभृतीन् स्वजनान् जनता अपि / मुत्कलाप्याऽचलद्धर्म-पुत्रः सबान्धवो वने / गल्वा द्वारवतीपुर्या मुत्कलाय स्वसोदरात् / कौन्ती च द्रौपदी सार्द्ध चलितुं चेच्छतो हि ते / / ततः कुन्ती च पाञ्चाली वार्यमाणे अपि स्फुटम् / चेलतुर्वने वासाय पुत्रकान्तसमन्वितौ / / लोका जगुस्तदेवं च युधिष्ठिरस्य भूपतेः / सत्यप्रतिज्ञता वन-रेखावद् दृश्यतेऽधुना / / यतः- " सकृजल्पन्ति राजानः सकृज्जल्पन्ति साधवः / सकृत्कन्या प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् / / 1 / / " पाण्डवानां वने यातां मिलित्वा हरिरूचिवान् / स्वपूर्या यूयमायात दास्यते स्थानमेव च / / एष दुर्योधनः कूट-कपटानां निकेतनम् / करिष्यति छलं हन्तुं युष्माकं वसतां वने / / यतः- " एष दुर्योधनो राजा मधुपिङ्गललोचनः / न केवलकुलस्यान्तं अत्रियान्तं करिष्यति / / 1 / / " षष्टिमिनके दोषा अशीतिमधुपिङ्गले / शतं टुण्टमुण्टे च कोणे अन्तो न विद्यते / पाण्डवाः प्रोचुरस्माकं प्रतिज्ञामवतां निजाम् / भूयान्मृत्युरऽथ श्रीर्वा दारिद्य वा शिवेन्दिरा / / कृष्णोऽवक चलतेदानी हस्तिनागपुरे वरे / शत्रून् हत्वा ददे राज्यं युष्मभ्यं पाण्डवा ! द्रुतम् / / पाण्डवैरूचिरे नीत्वा त्रयोदश समा वने / हनिष्यामो वयं शत्रून् युक्ताः सहायिना त्वया // इत्युक्ते पाण्डवैः कृष्णो विसृष्टः स्नेहपूर्वकम् / सुभद्रां भगिनी नीत्वा स्वपुरी समुपागमत् / / पाण्डवानां वने यातां दुर्योधनपुरोहितः। एत्येति पाण्डवान् प्राह लसद्विनयपूर्वकम् / / मन्मुखाद् धृतराष्ट्राङ्ग-जन्मनेति निवेदितम् / धर्मसूनोमया मौढ्या-दवज्ञा विहितो खलु / / ज्येष्ठो भ्राता तु लोकानां मान्य एवास्ति सर्वतः / मया स एव तु भ्राता वञ्चितो दुष्टबुद्धिना / / कृत्वा मयि कृपागार-परेण भवता द्रुतम् / इन्द्रप्रस्थपुरे राज्य कर्त्तव्यं रक्षता प्रजाः / / श्रुत्वैतत्सरल स्वान्तो धर्मसू नुः सुधर्मधीः / दुर्योधनोदितं