________________ शत्रुञ्जय-कल्पवृत्ती मिथ्यात्वनाशकाः / येऽहन्मतनभस्सूर्या निन्द्यास्ते मुनयः कथम् ? // 1 // बंदिज्जमाणा न समुक्कसंति हीलिजमाणा न समुज्जलंति / दंतेण चित्तेण चरंति धीरा मुणी समुग्धोइअगगदोसा // 2 // तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो। सयणे अ जणे य समो समो य माणावमाणेसु // 3 // नत्थि अ से कोइ वेसो पिओ व सव्वेसु चेव जीवेसु / एएण होइ समणो एसो अन्नो वि पज्जाओ।।४।।" अस्य तीर्थस्य सेवां त्वं तथा कुरु निरन्तरम् / यथा स्यात्ते क्षयोऽशेष-कर्मणां शिवशर्मदः / / दुर्गन्धापि ततस्तीर्थ-सेवां चक्रे तथाऽऽदरात् / तथा स्तोकभवात्तम्या मुक्तिश्रीर्जायते तथा / / अर्जुनोऽपि गुरुं नत्वा धन्यमन्यः सुवासनः / मणिचूडयुतस्तीर्थ तत्रास्थाद्वासरत्रयम् / / ततोऽर्जुनो ययौ द्वार-वत्यां शोभन वासरे / सुभद्रां कृष्णभगिनों परिणीन्ये लसदुत्सत्रम् / / यतः- " सतां पथा प्रवृत्तस्य तेजोवृद्धी रविरिव / यदृच्छयाऽतु वृत्तस्य रूपनाशोऽस्ति वायुवत् / / 1 / / " अष्टापदाद्रिमुख्येषु तीर्थषु तीर्थनायकान् / नमन् द्वादश वर्षाणि पूर्णीचके धनञ्जयः / / पूर्णीकृत्य प्रतिज्ञां तां पार्थो भूरिखगान्वितः / आच्छादयन्नभो भूरिविमानैः स्वपुरेऽगमत् / / सवधूकं सुतं पार्थ-मालिङ्गय पाण्डुभूपतिः / आनिन्ये मन्दिरे स्वीये प्रवेशोत्सवपूर्वकम् / / कस्यचिद्वदना जामि प्रभावती निजां तदा / हृतां विद्याभृता ज्ञात्वा मणिचूडोऽतिदुःख्यभूत्।। तदानीं मणिचूडेन समं पार्थो नभोऽध्वना / गत्वा जित्वा रिपुं पश्वा न्निन्ये प्रभावती रयात् / / पाण्डुयुधिष्ठिरं राज्ये योग्यं ज्ञात्वा क्रमादथ। स्वपट्टेऽस्थापयत्पुत्रा-नन्यान् युवपदे पुनः / / चत्वारः सोदरा भीम-मुख्या भ्रातृनिदेशतः। विद्विषो ग्राहयामासू राज्यं भ्रातुः सुभक्तितः / / भ्रातृणामपि पञ्चानां पाञ्चालीगर्भसम्भवाः / अभूवन् बलिनः पञ्च पञ्चास्या इव नन्दनाः / / आखण्डलसभातुल्यां सभां विद्याबलान्नवाम् / मणिचडो व्यधात्तत्र प्रीत्या पार्थस्य तत्क्षणात् / / तत्र धर्मसुतो राजा चतुर्भिः सोदरैः समम् / उपविष्टो. विराजेत वासवस्त्रिदशैरिव / / तत्र धङ्गिजः शान्ति-नाथस्य बहुरेव्ययात् / प्रासादं कारयामोस जाम्बूनदमयं वरम् || कल्याणकत्रयं यत्र श्रीशान्तेरहतोऽभवत् / तत्तीर्थं शिवदं नृणां हस्तिनागाभिधं पुरम् / / सभायां प्रविशंस्तस्यां दुर्योधनमहीपतिः / अजलेऽपि जलभ्रान्त्या प्रोच्चैश्चक्रे वरं पदोः / / कचित्तजोभ्रमाद्रच्छन् भित्तावास्फलितो दृढम् / दुर्योधनोऽथ भीभेन हसितोऽतीव लज्जितः / / अन्तः ऋद्धो बहि शीत-स्वभावो धार्त धृत राष्ट्रजः / दुर्योधनो जगौ मृव्यो वाण्या पाण्डुसुतान् प्रति / / यतः- " मुखं पद्मदलाकारं वाचा चन्दनशीतला / ह्रदयं कर्तरीतुल्यं त्रिविधं धूतलक्षणम् / / दानशोण्डायिते धर्म-पुत्रे र्थिभ्यो निरन्तरम् / दुर्योधनोऽतिदूनोऽभू-त्तस्य श्रुत्वा यशोभरम् / शान्तिनाथप्रतिष्ठाया उत्सवे धर्मसूनुना / सन्मानितोऽपि वस्त्राद्य-दुर्योधनोऽभवत् सरुड् / / यतः- वृश्चिकानां भुजङ्गानां दुर्जनानां च वेधसा॥ विभज्य नियतं न्यस्तं विषं पुच्छे मुखे हृदि / / 1 / / दध्यौ दुर्योधनः पाण्डु-पुत्रा एते बलोत्कटाः / आवाल्यादपि ते तु सर्वे) मया प्रेष्या यमालयम् / / रामकृष्ण वलेनैतै गर्वं तन्वन्ति पाण्डवाः / दर्शयिष्याम्यहं तस्य फलं राज्यापहारतः।। विचिन्त्येति पुरीमैत्या-चीकरद् रुचिरां सभाम् / प्रापाऽक्षं जैत्रकं देवी-माराध्यधात(धृत)राष्ट्रजः / / दुर्योधनः सभां दृष्टुं सेवकान् प्रेष्य पाण्डवान् / अकारयंस्ततस्तेऽपि सभां वीक्ष्य मुदं व्यधुः / / यतः- “यः परप्रीतिमोधातुं भस्मतामपि गच्छति / विवेकमानिना पश्य धात्रा सोऽप्यगुरुः कृतः // 1 / / पिबन्ति नयः स्वयमेव नाम्बु स्वदन्ति न स्वादुफलानि वृक्षाः / पयोमुचां किं कचिदस्ति शस्य परोपकारायसतां विभूतिः॥२॥" दुर्योधनो जगौ रात-क्रीडाऽऽत्राभ्यां विधीयते / पाण्डवा जगदुर्शत-क्रीडाऽ. श्रेष विधीयताम् / / राज्यं हारयते यस्तु स एव कानने रहः। तिष्ठति द्वादशाब्दानि तस्य राज्यं ततः