________________ पाण्डवचरित्रम् सहोदरैस्तदा / चचाल तीर्थसेवार्थे स्वप्रतिज्ञाऽवनाय च // नमस्यन् फाल्गुनो देवान् तीर्थेषु भक्तिपूर्वकम् / वैताढ्यपर्वतेऽनसीन् नाभेयादि जिनेश्वरान् / / इतस्तत्राऽऽगतो व्योम-धरः कश्चित्सदीनवाग् / पृष्टो धनञ्जयेनाऽऽह स्वदुःखमिति तत्पुरः / / वैताट्यस्योत्तरश्रेण्यां मणिचूडाभिधे पुरे / मणिचूडाह्वयो व्योम-गामी बस्यभवद् वरः // चन्द्रचूडपूरादेत्य हेमाङ्गदखगो रिपुः / मणिचूडं निजाद्राज्या-त्याजयामास वेगतः / / उपविष्टः स विद्याभृत् तस्मिन् राज्ये बलोत्कटः / स चाहं भूतले भ्राम्य नत्राऽऽगां नगरे किल / / श्रुत्वैतत्फाल्गुनस्तेन खगेनाऽमा विमानगः। जित्वा हेमाङ्गदं तत्रा-स्थापयत्तं खगं तदा / / क्रमाद्धनञ्जयो भूरि-विद्याधरनिषेवितः / वैताढये शाश्वतान् सार्वान् ननामाऽनघमानसः // महीपतिनभोगाना-मुपकारपरायणः / कुर्वन् धनञ्जयोऽनंसीद् जिनान् श्रीरैवताचले / नत्वा तीर्थङ्करानेकां नारी दृष्ट्वा धनञ्जयः / अप्राक्षीत् त्वं कुतोऽत्राऽऽगाः कस्याऽसि प्रेयसी वद ? / / स्त्री प्राह श्रीपुरे राज्ञः पृथोदुर्गन्धविग्रहाम् / दुर्गन्धाह्वां सुतां सोम. देवोऽथ परिणीतवान् / / तागदौर्भाग्यतो माता-पित्रोद्धेष्याऽभवं त्वहम् / सर्वत्र मान्यते लोकः पुण्यतो न हि पापतः।। ततोऽहं निर्गता तीर्थ-सेवायै दुस्तमश्छिदे / अभ्रमं भूरितोर्थेषु दुर्गन्धोऽगान्न स(त्वङ्गतः। रज्जुग्रहावटोम्मोधि-वहन्यादिभिरहं पुनः / मतुकामा वने यान्त्य-पश्यमेकं मुनिं वरम् / / नतोऽपि स मुनिर्भक्त्या यावज्जल्पति नो मनाग / तावन्मयोदितं कस्मा-न्मुने ! मां न विलोकय / / मुनिः प्राहाहक ध्यानं कर्तुकामोऽस्मि साम्प्रतम् / यतो ध्यानाच्छुभादेव जायन्ते शिवसम्पदः / ममाऽधुना गुरुर्धर्मघोषोऽस्त्यत्र वने वरः / तेन तत्र जित्वा त्वं नम भक्त्या गुरुत्तमम् // ततोऽहं कुलपतेस्तस्याश्रयतः प्रथमं जिनम् / पदौ नत्वाऽहमपृच्छं रोगोऽयं मे कुतोऽभवत् / / मां त्यक्त्वाऽऽदौ पतिर्नष्टो द्वेष्याऽभूवं कथं पितुः। निर्गताऽहमतः पूर्व-कर्मछेदाय दूरतः। अद्य त्वं जगदाधार कृपाकर जगद्धित ! / मिलितोऽसि ममेदानी तेन भाग्यं महत्पुनः // प्राग्भवोपार्जितात्पापा-मोचयित्वा] जगद्गुरो ! // तथा जल्प यथा रोगो याति मे देहतोऽचिरात् // मुनिः प्राह न मे ज्ञानं विद्यतेऽत्र निरत्ययम् / येन विज्ञायते नृणां प्रोगभवादिशुभाशुभे // तथापि याहि सिद्धाद्रि-शृङ्गे रैवतनामनि / गजेन्द्राहूं वरं कुण्डं तत्रास्तीन्द्रविमिर्मितम् / / स्नानं तत्र विधाय त्वं पूजय प्रथमं जिनम् / ततो यास्यति दुर्गन्धः देहतस्तेऽखिलोऽचिरात् / / श्रस्वेत्यहं मुनि नत्वा स्मरन्तो सिद्धपर्वतम् / दिनैः कतिपयैरत्रा-गमं रेवतकाचले / / अर्हच्चैत्येऽहमलभमाना प्रवेशमात्मनः / गजेन्द्रकुण्डतो वारि लात्वा स्नानं व्यधामहम् / / ध्यायन्त्यहं प्रभुं कुण्डे स्नानं तथा तथा व्यधाम् / यथा मे देहतो रोगो दुर्गन्धो विलयं ययौ / / न ज्ञायते मया पूर्व-भवे किं दुःकृतं कृतम् / विना केवलिनं पार्थ ! प्रक्ष्यतेऽतः स साम्प्रतम् / / एवं तस्यां स्वसम्बन्धं कथयन्त्यां सुविस्तरात् / तत्रागात् केवली ताभ्यां ववन्दे भावतः पुनः / / दुर्गन्धाऽवग् मया पापं किं कृतं प्राग्भवे मुने ! / येन मेऽजनि दुर्गन्धो देहे प्राहाऽथ केवली / / पद्मपुर्यां मुकुन्दस्य द्विज त्य पद्मिनी प्रिया / स्वरूपगर्वतो विश्वं तृणवन्मन्यते च सा || एकदा त्वद्गृहे श्वेता-म्बरा भिक्षाकृतेऽगमन् / भिक्षां दत्त्वा त्वयाऽहासि मोटयन्त्या खनासिकाम् / / अमी दुर्गन्धमलिना-म्बरोः स्नानविवर्जिताः / नासिका-नेत्रयोः कुर्यु-दुर्गन्धत्वं ममाधुना / / तेनैव कर्मणा मृत्वा नरके प्रथमे गता। ततश्चाण्डालिका जाता ततश्च ग्रामशूकरा // ततः शून्यभवत् पूति-कर्णा दुर्गन्धविग्रहा / ततो मृत्वा गता श्वभ्रे द्वितीये साधुहीलनात् (निन्दनात् ) / / एवं भ्रान्त्वा भवान् भूरीन् तिष्ठता शेषकर्मणा / दुर्गन्धविग्रहा भूप-पन्यासीत्त्वमिहाऽबले ! / / निन्द्यन्ते न जनाः कैश्चिज्जनः सहितमिच्छुभिः। साधवस्तु विशेषेण हीलिता स्युरशर्मणे / / यतः-" महाप्रतधरा ये तु येच