________________ शत्रुञ्जय-कल्पवृत्ती रोदनतत्पराम् / पुत्री पप्रच्छ जननी किं त्वया रुद्यते सुते ! / / सुताऽवग् मां पतिर्मुक्त्वा गतो मातः ! क्वचिद् ध्रुवम् / माताऽवग् मा रुदः पुत्रि ! पतिस्तेऽत्र समेष्यति / / विलोकितो यदा नैव लब्धः स सागरः कचित् / तदाऽन्यस्मै वरायाऽथ सा ददे जनकेन हि / / सोऽपि मुक्त्वा प्रियां कान्तः पूर्वकान्तपदाशु च / ययौ दूरेऽथ सोऽन्यस्मै वराय प्रददे रहः / / सोऽपि ज्वलदङ्गार-तुल्याङ्गस्पर्शतस्तदा / रात्री विमुच्य तां कन्यां दूरतोऽनशदञ्जसा / / अनाज्यं भोज्यमप्राज्यं विप्रयोगश्च प्रियः सह / अप्रियः सम्प्रयोगश्च सर्व पापविजृम्भितम् / / क्रमात्पुत्र्यास्तनुस्पर्श ज्वलदङ्गारसोदरम् / मत्वा पिता जगौ धर्मं ध्यान कुरु स्थिताऽत्र तु // वैराग्यादन्यदा गङ्गा-संयतिन्यास्तु सन्निधौ / तयाऽथ संयमो लातस्तीवं च क्रियते तपः // एकद्वित्रिचतुःपञ्च-प्रभृतीन् क्षमणान् सदा / कुर्वाणाऽऽतापनां ग्रीष्मे गृह्णात्युपवने मुदा / / सुखासनस्थिता वेश्या देवदत्ता वराकृतिः / पञ्चभिः पुरुषैः सेव्यमाना तत्र समागमत् // तस्या एवं सनूपास्तिं पादप्रक्षालनादिभिः / पञ्चभिः पुरुषैस्तैश्च क्रियमाणां निरन्तरम् // निरीक्ष्य यतिनी दध्यावहमस्मिन् भवेऽभवम् / नरद्वेष्या त्वसो पञ्च-नभोगभाक् समस्ति हि / / अतो मेऽग्रे भवे पञ्च पुरुषा मदनोपमाः। भवन्तु पतयस्तीव-तपःप्रभावतः खलु // सा तु तीव्र तपः कृत्वा प्रान्ते संलेखनां पुनः / स्वचिन्तितमनालोच्य सौधर्मेशप्रियाऽभवत् / / स्वर्गाच्च्युता पूराऽऽचीर्ण-तपःप्रभावतोऽद्य सा। नरेन्द्र नन्दिनी भूत्वा पञ्चानामभवत् प्रिया / अनया प्राग्भवे चक्रे तपसो यन्निदानकम् / अस्यास्तस्योदयादासन् पतयः पञ्च साम्प्रतम् // सत्येषा द्रौपदी पञ्च कान्तेषु सत्सु विद्यते / एवं व्योम्न्यभवहिव्यावाण्यतो मुमुदे पिता // ततः सदुत्सवं पञ्च पाण्डवैद्रौपदी कनी / परिणीता यदा माता-पितृभिर्मुदिता सदा // सदन्नपानवसन-दानेन पाण्डुभूपतिः / सपुत्रो द्रुपदक्षोणी-पतिना पूजितस्तदा // अपरेऽपि महीपाला द्रुपदक्ष्माभुजा तदा / वयवस्त्रादिदानेन पूजिताः स्वपुरं ययौ // पाण्डुभूपः सुतैः सार्धं द्रुपदेन विसर्जितः / हस्तिनागपुरीमगा-ल्लसदुत्सवपूर्वकम् // नारदेन समं पाण्डु-र्व्यवस्थामकरोदिति / धर्मपुत्रादिमिः स्थेयं वारकाद् द्रौपदीगृहे / / यतः-" वृकोदराद्याः सहसा मनस्विनः सहोदरास्तं परिवत्रिरे नृपम् / धुहस्तिनो हस्तमिवासुहृद्रण-छिदानिदानं रणपारदादराद् / / 1 / / ' द्रौपद्याः सदने सत्ये-कस्मिन् पत्यौ समेति यः / तेन द्वादशवर्षाणि कर्त्तव्यं तीर्थसेवनम् / / ऋषिपार्वे तदाऽनेकैः कृष्ण-धर्मसुतादिभिः / धर्मो जीवदयामूलो जगृहे शिवशर्मदः / / अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् ? / न तोयजानि पद्मानि जायन्ते जातवेदसि / / सर्वाणि भूतानि सुखे रतानि सर्वाणि दुःखस्य समुद्विजन्ति / तस्मात् सुखार्थी सुखमेव दत्ते सुखप्रदाता लभते सुखानि / / द्रौपद्याः सदने धर्म-सुते तिष्ठति चैकदा / वालिते गोधने चोरर्जाते बंबारवे सति // अजाननर्जुनश्चाप-कृते प्रविश्य तत्र तु / लात्वा धनुनिहत्यारीन् वालयामास गा वनात् / / युग्मम् / / पुरोद्याने स्थितः पार्थों यदा नैति पुरान्तरे / तदा धर्मसुतो भ्रातृ-युतोऽभ्येत्य जगाविति // भो पार्थ ! गच्छ पुर्यन्तः पालय पृथिवीं नयात् / किमर्थं भवतोद्याने स्थीयतेऽथ स चिवान् / यत्ते सेन्द्रथा गृहे धर्मपुत्रे स्थाष्णौ धनुःकृते / प्रविष्टोऽहमतः स्थेयं द्वादशाब्दी मया वने / धर्मपुत्रो अगौ भ्रात रेवं किं प्रोच्यते त्वया / मम चित्त मनाग नास्ति द्वेषस्त्वयि धनञ्जय ! / / धनञ्जयो जगौ भङ्गः प्रतिज्ञाया अभून्मम / अतो मया वने स्थेयं द्वादशाब्दानि धर्मसु / / चलति कुलाचलचक्र मर्यादामधिपतन्ति जलनिधयः / प्रतिपन्नममलमनसां न चलति // " अलसायंतेणवि सज्जणेण जे अक्खरा समुल्लविया / ते पत्थरटकुक्कोरियव्व न हु अन्नहा हुंति // 1 // " इत्युक्त्या वारितः पार्थ-बलन्