________________ पाण्डवचरित्रम् विषयान् यथायोगं ददुस्तदा / प्रददौ धार्तराष्ट्रेभ्यः कुशस्थलपुरं परम् // दुर्योधनो बहून् प्रामान् प्राप्य पाण्डुनृपान्तिकात् / न प्राप मानसे तृप्ति यत आशा दुरुत्तरा / / अग्निर्विप्रो यमो राजा समुद्रमुदरं गृहम् / सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः // तृष्णाखानिरगाधेयं दुप्पूरा केन पूर्यते / या महद्भिरपि क्षिप्तः पूरणैरेव खन्यते // अन्येद्युः पाण्डुभूपस्य सभास्थस्यैकको नरः / अभ्येत्य प्राह काम्पील्य-पुरं वयं विभासते / / तत्र द्रुपदभूपस्य चूलन्यजनि वल्लभा / धृष्टद्युम्नोऽङ्गजश्चासीद् द्रौपदी तनया पुनः। तस्याः स्वयंवरे सर्वे दशार्हा यादवादयः / दमदन्तादिभूपाश्च समेष्यन्ति वरे दिने / / पाण्डो ! त्वमपि पुत्रैः स्वैः पञ्चभिः सह सत्वरम् / अलङ्करुष्व काम्मील्य-पुरं स्वःपुरवद्धरिः / ततः पाण्डुनृपः पुत्रैः पञ्चभिः सह सत्वरम् / गतो ड्रपदभूपेन तत्र सन्मानितो मुदा // विवाहमण्डपे तस्मिन् मञ्चोन्मञ्चेषु शालिषु / दशार्हादिषु भूपेपू-पविष्टेषु यथाक्रमम् / / द्रौपदी वाससी वर्ये परिधाय दिनोदये / सुखासनसमासीना ययो विवाहमण्डपे / / इतो दुपदभूमीशा देशाद्वेत्रधरो जगौ। राधास्तम्भस्य मौल्यग्रे चक्रं भ्रमति सुन्दरम् / / वामदक्षिणपक्षेऽस्य द्वादशारी भ्रमत्यलम् / चक्राने विद्यते राधा-नाम्नी सुन्दरपुत्रिका / सर्पि तकटाहान्त-स्तम्या वामं विलोचनम् / प्रतिबिम्बितमात्रं सत् स्तम्भस्याधः स्थितो नरः।। ऊर्ध्वबाहुरधो वस्त्रो यो व्यधिष्यति लाघवात् / वरिष्यति वरं तं च द्रौपदीयं नृपाङ्गजा / / युग्मम् / / ततो यो यो नृपश्चापं धृत्वाऽमुञ्चत् शरं दृढम् / तस्य तस्य शरो जातः शतखण्डोऽइमखण्डवत् / / ततः पश्यत्सु भूपेषु भूरिषु स्मेरितेक्षणम् / शास्त्रोक्तविधिना राधा-वेधं ससोध फाल्गुनः // तदा जयजयारावं खे कुर्वत्सु सुपर्वसु / न्यपतत् सुमनोवृष्टिः पार्थस्य मस्तकेऽम्बरात् / / यतः-" लक्ष्मीविवेकेन मतिः श्रुतेन, शक्तिः शमेन प्रभुता नयेन / श्रद्धा च धर्मेण समं समेत्य, धन्यस्य पुंसः सफलीभवन्ति // 1 // " यावद् द्रुपदभूः पार्थे कण्ठेऽश्नप्सीद्वरस्रजम / तावत सा वरसग जाता पञ्चरूपधरा वरा / / भ्रातणामपि पश्चानां सृक साऽपतद् द्रुतम् / द्रौपद्याः पतयः पञ्चा-ऽमी स्युः वाण्यभवच्च खे // यदा तु द्रौपदी पार्थकण्टेऽप्सीद्वरसृजम् / तदा पतति पञ्चानां भ्रातृणां युगपद् गले // पाण्डुदशाहभूपाद्याः प्रोचुरेवं मिश्रस्तदा / किमस्याः पञ्च पतयो-ऽभूवन कोऽप्यत्र पृच्छयते / / तदाऽकस्मान्नभोमार्गा-च्चारणश्रमणं मुनिम् / आगतं वीक्ष्य कृष्णाद्या-स्तं नन्तुमगमन्भुदा / / तदा स श्रमणः प्राह विना धर्मं जिनोदितम् / ज्ञा(जा यन्ते सुखिनो जीवा इहाऽमुत्र कदापि न / / दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुःस्त्रीपयःपानमिश्रम् / तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् / / गतसारेऽत्र संसारे सुखभ्रान्तिः शहीरिणाम् / लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः // निर्विवेकतया बाल्यं कामोन्मादेन यौवनम् / वृद्धत्वं विकलत्वेन सदा सोपद्रवं नृणाम् / / प्रातर्मूत्रपुरोषाभ्यां मध्याह्ने क्षुत्पिपासया / तृष्णा कामेन बाध्यन्ते प्राणिनो निशि निद्रया // “कम्मह वारइं ज्झडपडउ धम्मह मंदीदेह / आपण सरसी चोरडी तई किम सीखी एह // 1 // जे जिगधम्मह वाहरा ते जाणे जे वारि / ऊगी ऊगी खय गया संसारी संसारि // 2 // " श्रुत्वा धर्मं ऋषि नत्वा पाण्डुकृष्णादयो नृपाः / पप्रच्छुद्रौपदी ह्येषा पञ्चकान्ताऽभवस्कथम् / / मुनिराचष्ट चम्पायां श्रेष्ठी सागरदत्तकः / अभूत्तस्याः सुभद्राभू-नन्दिनी सुकुमारिका / जिनदत्तस्य पुत्रेण सागरेण तु यौवने / परिणीता सती रात्रौ तल्पं पत्याश्रयत् समम् // बलदङ्गारतुल्याङ्गसत्तिस्याः स सागरः / दह्यमानतनुर्मुक्त्वा तां नष्ट्वा दूरतो ययौ / निद्राछेदे गतं कान्तं ज्ञात्वा